पाद ३ - खण्ड ४९
व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.
१ - १० - युष्मदस्मद्भ्याम् प्रत्ययविधाने योगविभागः ।
२ - १० - युष्मदस्मद्भ्याम् प्रत्ययविधाने योगविभागः कर्तव्यः ।
३ - १० - युष्मदस्मदोः अन्यतरस्याम् छः भवति ।
४ - १० - युष्मदीयः अस्मदीयः ।
५ - १० - ततः खञ् च ।
६ - १० - खञ् च भवति युष्मदस्मदोः अन्यतरस्याम् ।
७ - १० - यौष्मकीणः आस्माकीनः ।
८ - १० - किमर्थः योगविभागः ।
९ - १० - समसङ्ख्याप्रतिषेधार्थः ।
१० - १० - सङ्ख्यातानुदेशः मा भूत् इति ।
१ - १९ - आदेशवचने च ।
२ - १९ - किम् ।
३ - १९ - योगविभागः कर्तव्यः ।
४ - १९ - तस्मिन् अणि युष्माकास्माकौ भवतः ।
५ - १९ - यौष्माकः आस्माकः ।
६ - १९ - ततः खञि ।
७ - १९ - खञि च युष्माकास्माकौ भवतः ।
८ - १९ - यौष्माकीणः आस्माकीनः ।
९ - १९ - किमर्थः योगविभागः ।
१० - १९ - समसङ्ख्याप्रतिषेधार्थः इति एव ।
११ - १९ - तत्र पुनः खञ्ग्रहणम् ।
१२ - १९ - तत्र पुनः खञ्ग्रहणम् कर्तव्यम् ।
१३ - १९ - न हि अन्तरेण खञ्ग्रहणम् योगाङ्गम् उपजायते ।
१४ - १९ - तत् तर्हि वक्तव्यम् ।
१५ - १९ - न वक्तव्यम् ।
१६ - १९ - एवम् वक्ष्यामि ।
१७ - १९ - तस्मिन् खञि युष्माकास्माकौ भवतः ।
१८ - १९ - ततः अणि च ।
१९ - १९ - अणि चयुष्माकास्माकौ भवतः इति ।
१ - २५ - एकार्थग्रहणम् च ।
२ - २५ - एकार्थग्रहणम् च कर्तव्यम् ।
३ - २५ - एकार्थयोः युष्मदस्मदोः इति वक्तव्यम् ।
४ - २५ - किमर्थम् न एकवचने इति एव सिद्धम् ।
५ - २५ - न सिध्यति ।
६ - २५ - किम् कारणम् ।
७ - २५ - एकवचनाभावात् ।
८ - २५ - एकवचने इति उच्यते ।
९ - २५ - न च अत्र एकवचनम् पश्यामः ।
१० - २५ - यदि पुनः एकवचनपरत्वेन अण्खञौ विशेष्येयाताम् ।
११ - २५ - न एवम् शक्यम् ।
१२ - २५ - इह हि प्रसज्येयाताम् ।
१३ - २५ - युष्माकम् छात्रः यौष्माकीणः ।
१४ - २५ - आस्माकीनः ।
१५ - २५ - इह च न स्याताम् ।
१६ - २५ - तव छात्राः तावकीनाः ।
१७ - २५ - मामकीनाः ।
१८ - २५ - तस्मात् न एवम् शक्यम् ।
१९ - २५ - न चेत् एवम् एकार्थग्रहणम् कर्तव्यम् ।
२० - २५ - न कर्तव्यम् ।
२१ - २५ - न इदम् पारिभाषिकस्य एकवचनस्य ग्रहणम् ।
२२ - २५ - किम् तर्हि ।
२३ - २५ - अन्वर्थग्रहणम् ।
२४ - २५ - उच्यते वचनम् ।
२५ - २५ - एकस्य अर्थस्य वचनम् एकवचनम् ।
१ - १० - अर्धात् यद्विधाने सपूर्वात् ठञ् ।
२ - १० - अर्धात् यद्विधाने सपूर्वात् ठञ् वक्तव्यः ।
३ - १० - बालेयार्धिकः गौतमार्धिकः ।
४ - १० - दिक्पूर्वपदात् यत् च ।
५ - १० - दिक्पूर्वपदात् यत् च ठञ् च वक्तव्यः ।
६ - १० - पूर्वार्ध्यः पौर्वार्धिकः दक्षिणार्ध्यः दाक्षिणार्धिकः उत्तरार्ध्यः औत्तरार्धिकः ।
७ - १० - किमर्थम् इदम् उच्यते यदा आद्यन्यासे एव दिक्पूर्वपदात् अर्धात् उभयम् उच्यते ।
८ - १० - इदम् अद्य अपूर्वम् क्रियते अर्धात् यद्विधाने सपूर्वात् ठञ् इति ।
९ - १० - तत् द्वेष्यम् विजानीयात् सर्वम् विकल्पते इति ।
१० - १० - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्ते दिक्पूर्वपदात् यथान्यासम् एव भवति इति ।
१ - २२ - श्वसः तुटि आदेशानुपपत्तिः अनादित्वात् ।
२ - २२ - श्वसः तुटि कृते आदेशानुपपत्तिः ।
३ - २२ - किम् कारणम् ।
४ - २२ - अनादित्वात् ।
५ - २२ - तुटि कृते अनादित्वात् आदेशः न प्राप्नोति ।
६ - २२ - एवम् तर्हि पूर्वान्तः करिष्यते ।
७ - २२ - पूर्वान्ते कप्रतिषेधः ।
८ - २२ - यदि पूर्वान्तः कादेशस्य प्रतिषेधः वक्तव्यः ।
९ - २२ - शौवस्तिकम् ।
१० - २२ - तान्तात् इति कादेशः प्राप्नोति ।
११ - २२ - अस्तु तर्हि परादिः ।
१२ - २२ - ननु च उक्तम् श्वसः तुटि आदेशानुपपत्तिः अनादित्वात् इति ।
१३ - २२ - सिद्धम् तु आदिष्टस्य तुड्वचनात् ।
१४ - २२ - सिद्धम् एतत् ।
१५ - २२ - कथम् ।
१६ - २२ - तुड् आदिष्टस्य इति वक्तव्यम् ।
१७ - २२ - अथ वा चेन सन्नियोगः करिष्यते ।
१८ - २२ - तुट् च ।
१९ - २२ - किम् च ।
२० - २२ - यत् च अन्यत् प्राप्नोति ।
२१ - २२ - किम् च अन्यत् प्राप्नोति ।
२२ - २२ - आदेशः ।
१ - १६ - हेमन्तस्य अणि तलोपवचनानर्थक्यम् हेम्नः प्रकृत्यन्तरत्वात् ।
२ - १६ - हेमन्तस्य अणि तलोपवचनम् अनर्थकम् ।
३ - १६ - किम् कारणम् ।
४ - १६ - हेम्नः प्रकृत्यन्तरत्वात् ।
५ - १६ - प्रकृत्यन्तरम् हेमन्शब्दः ।
६ - १६ - आतः च प्रकृत्यन्तरम् ।
७ - १६ - एवम् हि आह ।
८ - १६ - हेमन् हेमन् आगनीगन्ति कर्णौ ।
९ - १६ - तस्मात् एतौ हेमन् न शुष्यतः इति ।
१० - १६ - अलोपदर्शनात् च ।
११ - १६ - अलोपः खलु अपि दृश्यते ।
१२ - १६ - पङ्क्तिः हैमन्ती इति ।
१३ - १६ - अपरः आह हेमन्तस्य अण्वचनम् अणि च तलोपवचनम् अनर्थकम् ।
१४ - १६ - किम् कारणम् ।
१५ - १६ - हेम्नः प्रकृत्यन्तरत्वात् अलोपदर्शनात् च इति एव ।
१६ - १६ - तत्र ऋतुभ्यः इति एव सिद्धम् ।
१ - ८ - चिरपरुत्परारिभ्यः त्नः वक्तव्यः ।
२ - ८ - चिरत्नम् परुत्त्नम् परारित्नम् ।
३ - ८ - प्रगस्य छन्दसि गलोपः च त्नः च वक्तव्यः ।
४ - ८ - प्रत्नम् आत्मानम् ।
५ - ८ - अग्रादिपश्चात् डिमुच् स्मृतः ।
६ - ८ - अग्रिमम् आदिमम् पश्चिमम् ।
७ - ८ - अन्तात् च इति वक्तव्यम् ।
८ - ८ - अन्तिमम्.
१ - ४२ - अथ सायचिरयोः किम् निपात्यते ।
२ - ४२ - सायचिरयोः मकारान्तत्वम् प्रत्ययसन्नियुक्तम् ।
३ - ४२ - सायचिरयोः मकारान्तत्वम् प्रत्ययसन्नियोगेन निपात्यते ।
४ - ४२ - सायन्तनम् चिरन्तनम् ।
५ - ४२ - न एतत् अस्ति प्रयोजनम् ।
६ - ४२ - मकारान्तः सायंशब्दः ।
७ - ४२ - कथम् सायाह्नः ।
८ - ४२ - सायमः अह्ने मलोपः ।
९ - ४२ - सायमः अह्ने मलोपः वक्तव्यः ।
१० - ४२ - कथम् सायतरे ।
११ - ४२ - तरे च इति वक्तव्यम् ।
१२ - ४२ - कथम् सायम् साये ।
१३ - ४२ - वा सप्तम्याम् इति वक्तव्यम् ।
१४ - ४२ - अथ प्राह्णप्रगयोः किम् निपात्यते ।
१५ - ४२ - प्राह्णप्रग्योः एकारान्तत्वम् ।
१६ - ४२ - प्राह्णप्रग्योः एकारान्तत्वम् निपात्यते ।
१७ - ४२ - प्राह्णेतनम् प्रगेतनम् ।
१८ - ४२ - न एतत् अस्ति प्रयोजनम् ।
१९ - ४२ - सप्तम्याः अलुका अपि सिद्धम् ।
२० - ४२ - भवेत् सिद्धम् यदा सप्तमी ।
२१ - ४२ - यदा तु अन्या विभक्तिः तदा न सिध्यति ।
२२ - ४२ - तुटि उक्तम् ।
२३ - ४२ - किम् उक्तम् ।
२४ - ४२ - तुटि आदेशानुपपत्तिः अनादित्वात् इति ।
२५ - ४२ - तुटि कृते अनादित्वात् आदेशः न प्राप्नोति ।
२६ - ४२ - एवम् तर्हि पूर्वान्तः करिष्यते ।
२७ - ४२ - पूर्वान्ते विसर्जनीयः ।
२८ - ४२ - यदि पूर्वान्तः विसर्जनीयः वक्तव्यः ।
२९ - ४२ - प्रातस्तनम् पुनस्तनम् ।
३० - ४२ - परादौ पुनः सति खरवसानयोः विसर्जनीयः इति विसर्जनीयः सिद्धः भवति ।
३१ - ४२ - अस्तु तर्हि परादिः ।
३२ - ४२ - ननु च उक्तम् तुटि कृते अनादित्वात् आदेशः न प्राप्नोति इति ।
३३ - ४२ - सिद्धम् तु आदिष्टस्य तुड्वचनात् ।
३४ - ४२ - सिद्धम् एतत् ।
३५ - ४२ - कथम् ।
३६ - ४२ - तुड् आदिष्टस्य इति वक्तव्यम् ।
३७ - ४२ - अथ वा चेन सन्नियोगः करिष्यते ।
३८ - ४२ - तुट् च ।
३९ - ४२ - किम् च ।
४० - ४२ - यत् च अन्यत् प्राप्नोति ।
४१ - ४२ - किम् च अन्यत् प्राप्नोति ।
४२ - ४२ - आदेशः ।
१ - ५८ - पूर्वाह्णापराह्णाभ्याम् सुबन्तवचनम् सप्तमीश्रवणाऋथम् ।
२ - ५८ - पूर्वाह्णापराह्णाभ्याम् सुबन्तत्वम् वक्तव्यम् ।
३ - ५८ - किम् प्रयोजनम् ।
४ - ५८ - सप्तमीश्रवणाऋथम् ।
५ - ५८ - सप्तम्याः श्रवणम् यथा स्यात् ।
६ - ५८ - पूर्वाह्णेतनम् अपराह्णेतनम् ।
७ - ५८ - तत् तर्हि वक्तव्यम् ।
८ - ५८ - न वक्तव्यम् ।
९ - ५८ - आचार्यप्रवृत्तिः ज्ञापयति भवति अत्र सप्तमी इति यत् अयम् घकालतनेषु कालनाम्नः इति सप्तम्याः अलुकम् शास्ति ।
१० - ५८ - अलुग्वचनम् ज्ञापकम् इति चेत् अव्ययात् सप्तमीप्रसङ्गः ।
११ - ५८ - अलुग्वचनम् ज्ञापकम् इति चेत् अव्ययात् सप्तमी प्राप्नोति ।
१२ - ५८ - दोषातनम् दिवातनम् ।
१३ - ५८ - अस्तु अव्ययात् इति लुक् भविष्यति ।
१४ - ५८ - इह अपि लुक् प्राप्नोति ।
१५ - ५८ - पूर्वाह्णेतनम् अपराह्णेतनम् ।
१६ - ५८ - अलुक् अत्र लुकम् बाधिष्यते ।
१७ - ५८ - इह अपि बाधेत ।
१८ - ५८ - दोषातनम् दिवातनम् ।
१९ - ५८ - समानाश्रयः लुक् अलुका बाध्यते ।
२० - ५८ - कः च समानाश्रयः ।
२१ - ५८ - यः प्रत्ययाश्रयः ।
२२ - ५८ - अत्र च प्राक् एव प्रत्ययोत्पत्तेः लुक् भवति ।
२३ - ५८ - न सिध्यति ।
२४ - ५८ - इह हि सति प्रत्यये लुका भवितव्यम् ।
२५ - ५८ - सति लुकि अलुका भवितव्यम् ।
२६ - ५८ - तत्र च प्रत्ययः एव न अस्ति ।
२७ - ५८ - कुतः लुक् भविष्यति ।
२८ - ५८ - सा एषा ज्ञापकेन असती विभक्तिः आकृष्यते ।
२९ - ५८ - सा यथा इह बाधिका भवति पूर्वाह्णेतनम् अपराह्णेतनम् एवम् इह अपि स्यात् दोषातनम् दिवातनम् ।
३० - ५८ - एवम् तर्हि न ब्रूमः अलुग्वचनम् ज्ञापकम् भवति अत्र सप्तमी इति ।
३१ - ५८ - किम् तर्हि ।
३२ - ५८ - भवति सुबन्तात् उत्पत्तिः इति ।
३३ - ५८ - किम् पुनः ज्ञाप्यम् एतत् यावता समर्थानाम् प्रथमात् वा इति वर्तते सामर्थ्यम् च सुबन्तेन ।
३४ - ५८ - ज्ञाप्यम् इति आह ।
३५ - ५८ - कथम् ।
३६ - ५८ - ङ्याप्प्रातिपदिकात् इति अपि वर्तते ।
३७ - ५८ - तत्र कुतः एतत् सुबन्तात् उत्पत्तिः भविष्यति न पुनः ङ्याप्प्रातिपदिकात् इति ।
३८ - ५८ - कथम् यत् उक्तम् वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे च प्रत्ययविधौ तत्सम्प्रत्ययार्थम् इति ।
३९ - ५८ - समर्थस्य यत् वृद्धम् ङ्याप्प्रातिपदिकम् इति एतत् विज्ञायते ।
४० - ५८ - यदि एतत् ज्ञप्यते कथम् द्विपदः आगतम् द्विपाद्रूप्यम् प्रष्ठौहः आगतम् प्रष्ठ्वाड्रूप्यम् कीलालपः आगतम् कीलालपारूप्यम् पपुषः आगतम् पपिवड्रूप्यम् ।
४१ - ५८ - पद्भावः ऊहाकारलोपः प्रसारणम् इति एते विधयः प्राप्नुवन्ति ।
४२ - ५८ - लुके कृते न भविष्यन्ति ।
४३ - ५८ - इह तर्हि सामसु साधुः सामन्यः वेमन्यः नलोपः प्रातिपदिकान्तस्य इति नलोपः प्राप्नोति ।
४४ - ५८ - लुकि कृते भत्वात् न भविष्यति ।
४५ - ५८ - इदम् इह सम्प्रधार्यम् ।
४६ - ५८ - लुक् क्रियताम् नलोपः इति ।
४७ - ५८ - किम् अत्र कर्तव्यम् ।
४८ - ५८ - परत्वात् नलोपः ।
४९ - ५८ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।
५० - ५८ - नलोपः क्रियताम् तद्धितोत्पत्तिः इति ।
५१ - ५८ - किम् अत्र कर्तव्यम् ।
५२ - ५८ - परत्वात् नलोपः ।
५३ - ५८ - असिद्धः नलोपः ।
५४ - ५८ - तस्य असिद्धत्वात् तद्धितोत्पत्तिः भविष्यति ।
५५ - ५८ - परिगणितेषु कार्येषु नलोपः असिद्धः न च इदम् तत्र परिगण्यते ।
५६ - ५८ - इदम् अपि तत्र परिगण्यते ।
५७ - ५८ - कथम् ।
५८ - ५८ - सुब्विधिः इति सर्वविभक्त्यन्तः समासः सुपः विधिः सुब्विधिः , सुबन्तात् विधिः सुब्विधिः इति ।
१ - ३६ - किमर्थम् जातादयः अर्थाः निर्दिश्यन्ते ।
२ - ३६ - जातादिषु अर्थेषु घादयः यथा स्युः ।
३ - ३६ - स्वार्थे मा भूवन् इति ।
४ - ३६ - न एतत् अस्ति प्रयोजनम् ।
५ - ३६ - शेषे इति वर्तते ।
६ - ३६ - तेन स्वार्थे न भविष्यन्ति ।
७ - ३६ - अतः उत्तरम् पठत् ।
८ - ३६ - तत्रजातादिषु वचनम् नियमार्थम् ।
९ - ३६ - नियमार्थः अयम् आरम्भः ।
१० - ३६ - जातादिषु एव घादयः यथा स्युः ।
११ - ३६ - इह मा भूवन् ।
१२ - ३६ - तत्र आस्ते तत्र शेते इति ।
१३ - ३६ - यदि नियमः क्रियते दार्षदाः सक्तवः औलूखलः यावकः इति न सिध्यति ।
१४ - ३६ - संस्कृतम् इति एवम् भविष्यति ।
१५ - ३६ - भवेत् सिद्धम् दार्षदाः सक्तवः इति ।
१६ - ३६ - इदम् तु न सिध्यति औलूखलः यावकः इति ।
१७ - ३६ - संस्कृतम् हि नाम तत् भवति यत् ततः एव अपकृष्य अभ्यवह्रियते ।
१८ - ३६ - न च यावकः उलूखलात् एव अपकृष्य अभ्यवह्रियते ।
१९ - ३६ - अवश्यम् रन्धनादीनि प्रतीक्ष्याणि ।
२० - ३६ - तस्मात् न अर्थः अनेन नियमेन ।
२१ - ३६ - कस्मात् न भवति तत्र आस्ते तत्र शेते इति ।
२२ - ३६ - अनभिधानात् ।
२३ - ३६ - तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् ।
२४ - ३६ - क्रियमाणेषु अपि हि अर्थनिर्देशेषु यत्र जातादिषु उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधान न भवति न भवति तत्र प्रत्ययोत्पत्तिः ।
२५ - ३६ - तत् यथा अङ्गुल्या खनति वृक्षमूलात् आगतः इति ।
२६ - ३६ - न तर्हि इदानीम् जातादयः अर्थाः निर्देष्टव्याः ।
२७ - ३६ - निर्देष्टव्याः च ।
२८ - ३६ - किम् प्रयोजनम् ।
२९ - ३६ - अपवादविधानार्थम् ।
३० - ३६ - प्राविषः ठप् ।
३१ - ३६ - प्रावृषि जातः प्रावृषकः ।
३२ - ३६ - क्व मा भूत् ।
३३ - ३६ - प्रावृषि भवः प्रावेषेण्याः बलाहकाः ।
३४ - ३६ - यानि तु एतानि निरपवादानि अर्थापदेशानि तानि शक्यानि अकर्तुम् ।
३५ - ३६ - कृतलब्धक्रीतकुशलाः ।
३६ - ३६ - स्रौघ्नः देवदत्तः इति ।
१ - १७ - लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियाम् उपसङ्ख्यानम् ।
२ - १७ - लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियाम् उपसङ्ख्यानम् कर्तव्यम् ।
३ - १७ - चित्रायाम् जाता चित्रा स्त्री चित्रा ।
४ - १७ - रेवती रेवती स्त्री रेवती ।
५ - १७ - रोहिणी रोहिणी स्त्री ।
६ - १७ - फल्गुन्यषाढाभ्याम् टानौ ।
७ - १७ - फल्गुन्यषाढाभ्याम् टानौ वक्तव्यौ ।
८ - १७ - फल्गुनी ।
९ - १७ - अषाढाः उपदधाति ।
१० - १७ - श्रविष्ठाषाढाभ्याम् छण् ।
११ - १७ - श्रविष्ठाषाढाभ्याम् छण् वक्तव्यः ।
१२ - १७ - श्राविष्ठीयाः आषाढीयाः ।
१३ - १७ - न वा नक्षत्रेभ्यः बलुलम् लुग्वचनात् ।
१४ - १७ - न वा वक्तव्यः ।
१५ - १७ - किम् कारणम् ।
१६ - १७ - नक्षत्रेभ्यः बलुलम् लुग्वचनात् ।
१७ - १७ - नक्षत्रेभ्यः बलुलम् लुक् इति एवम् अत्र लुक् भविष्यति ।
१ - २५ - प्रायभवग्रहणम् अनर्थकम् तत्रभवेन कृतत्वात् ।
२ - २५ - प्रायभवग्रहणम् अनर्थकम् ।
३ - २५ - किम् कारणम् ।
४ - २५ - तत्रभवेन कृतत्वात् ।
५ - २५ - यः हि राष्ट्रे प्रायेण भवति तत्र भवः असौ भवति ।
६ - २५ - तत्र तत्र भवः इति एव सिद्धम् ।
७ - २५ - न सिध्यति ।
८ - २५ - अनित्यभवः प्रायभवः ।
९ - २५ - अनित्यभवः प्रायभवः इति चेत् मुक्तसंशयेन तुल्यम् ।
१० - २५ - यत् भवान् मुक्तसंशयम् तत्र भवे उदाहरणम् न्याय्यम् मन्यते स्रौघ्नः देवदत्तः इति तेन एतत् तुल्यम् ।
११ - २५ - सः अपि हि अवश्यम् उदक्देशादीनि अभिनिष्क्रामति ।
१२ - २५ - अथ एतत् भवान् प्रायभवे उदाहरणम् न्याय्यम् मन्यते तत्र भवे किम् उदाहरणम् ।
१३ - २५ - यत् तत्र नित्यम् भवति ।
१४ - २५ - स्रौघ्नाः प्रासादाः स्रौघ्नाः प्राकाराः इति ।
१५ - २५ - एवम् तर्हि तत्र भवति इति प्रकृत्य जीह्वामूलाङ्गुलेः छः विधीयते ।
१६ - २५ - सः यथा दृष्टापचरे अङ्गुलीयम् इति भवति एवम् प्रयभवे अपि भविष्यति ।
१७ - २५ - इदम् तर्हि प्रयोजनम् ।
१८ - २५ - प्रायभवः इति प्रकृत्य उपजानूपकर्णोपनीवेः ठकम् वक्ष्यति ।
१९ - २५ - सः प्रायभवे एव यथा स्यात् ।
२० - २५ - तत्र भवे मा भूत् ।
२१ - २५ - उपजानुभवम् गडु इति ।
२२ - २५ - अथ इदानीम् तत्र भवः इति प्रकृत्य शरीरावयवात् यत् विधीयते ।
२३ - २५ - सः अत्र कस्मात् न भवति ।
२४ - २५ - अनभिधानात् ।
२५ - २५ - सः यथा एव अनभिधानात् यत् न भवति एवम् ठक् अपि न भविष्यति ।
१ - १५ - विकारे कोशात् ढञ् ।
२ - १५ - विकारे कोशात् ढञ् वक्तव्यः ।
३ - १५ - कोशस्य विकारः कौशेयम् ।
४ - १५ - सम्भूते हि अर्थानुपपत्तिः ।
५ - १५ - सम्भूते इति हि उच्यमाने अर्थस्य अनुपपत्तिः स्यात् ।
६ - १५ - न हि अदः कोशे सम्भवति ।
७ - १५ - किम् तर्हि ।
८ - १५ - कोशस्य अदः विकारः ।
९ - १५ - यदि विकारः इति उच्यते भस्मनि अपि प्राप्नोति ।
१० - १५ - भस्म अपि कोशस्य विकारः ।
११ - १५ - अथ सम्भूते इति उच्यमाने क्रिमौ कस्मात् न भवति ।
१२ - १५ - क्रिमिः अपि हि कोशे सम्भवति ।
१३ - १५ - अनभिधानात् ।
१४ - १५ - यथा एव तर्हि अनभिधानात् क्रिमौ न भवति एवम् भस्मनि अपि न भविष्यति ।
१५ - १५ - अर्थः च उपपन्नः भवति ।
१ - ५ - अयुक्तः अयम् निर्देशः ।
२ - ५ - कालात् इति वर्तते. न च कलापी नाम कलः अस्ति ।
३ - ५ - न एषः दोषः ।
४ - ५ - साहचर्यात् ताच्छब्द्यम् भविष्यति ।
५ - ५ - कलापिसहचरितः कालः कलापी कालः इति ।
१ - १० - तत्र इति वर्तमाने पुनः तत्रग्रहणम् किमर्थम् ।
२ - १० - तत्रप्रकरणे तत्र इति पुनर्वचनम् कालनिवृत्त्यर्थम् ।
३ - १० - तत्रप्रकरणे तत्र इति पुनर्वचनम् क्रियते कालनिवृत्त्यर्थम् ।
४ - १० - कालाधिकारः निवर्त्यते ।
५ - १० - न हि काकः वाश्यते इति एव अधिकाराः निवर्तन्ते ।
६ - १० - कः वा अभिसम्बन्धः यत् तत्रग्रहणम् कालाधिकारम् निवर्तयेत् ।
७ - १० - एषः अभिसम्बन्धः ।
८ - १० - कालाभिसम्बद्धम् तत्रग्रहणम् अनुवर्तते ।
९ - १० - तत्रग्रहणम् च तत्रग्रहणस्य निवर्तकम् भवति ।
१० - १० - तस्मिन् निवृत्ते कालाधिकारः अपि निवर्तते ।
१ - ६ - ञ्यप्रकरणे परिमुखादिभ्यः उपसङ्ख्यानम् ।
२ - ६ - ञ्यप्रकरणे परिमुखादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।
३ - ६ - पारिमुख्यम् पारिहनव्यम् ।
४ - ६ - अव्ययीभावाद् विधाने उपकूलादिभ्यः प्रतिषेधः ।
५ - ६ - अव्ययीभावाद् विधाने उपकूलादिभ्यः प्रतिषेधः वक्तव्यः ।
६ - ६ - औपकूलः औपमूलः औपशालः ।
१ - ३१ - अत्यल्पम् इदम् उच्यते ।
२ - ३१ - समानस्य तदादेः च अध्यात्मादिषु च इष्यते ।
३ - ३१ - समानस्य सामानिकः ।
४ - ३१ - तदादेः समानग्रामिकः समानदेशिकः ।
५ - ३१ - अध्यात्मादिषु च इष्यते ।
६ - ३१ - आध्यात्मिकः आधिदैविकः आधिभौतिकः ।
७ - ३१ - ऊर्ध्वन्दमात् च देहात् च ।
८ - ३१ - ठञ् वक्तव्यः ।
९ - ३१ - और्ध्वन्दमिकम् और्ध्वदेहिकम् ।
१० - ३१ - लोकोत्तरपदस्य च ।
११ - ३१ - ठञ् वक्तव्यः ।
१२ - ३१ - ऐहलौकिकम् पारलौकिकम् ।
१३ - ३१ - मुखपार्श्वतसोः ईयः ।
१४ - ३१ - मुख पार्श्व इति एताभ्याम् तसन्ताभ्याम् ईयः वक्तव्यः ।
१५ - ३१ - मुखतीयः पार्श्वतीयः ।
१६ - ३१ - कुक् जनस्य परस्य च ।ईयः वक्तव्यः ।
१७ - ३१ - जनकीयम् परकीयम् ।
१८ - ३१ - ईयः कार्यः अथ मध्यस्य ।
१९ - ३१ - मध्यीयः ।
२० - ३१ - मण्मीयौ च प्रत्ययौ ।
२१ - ३१ - मण्मीयौ च अपि प्रत्ययौ वक्तव्यौ ।
२२ - ३१ - माध्यमः मध्यमीयः ।
२३ - ३१ - मध्य [ऋमध्यः] मध्यम् दिनण् च अस्मात् ।
२४ - ३१ - मध्यशब्दः मध्यशब्दम् आपद्यते दिनण् च अस्मात् प्रत्ययः भवति ।
२५ - ३१ - माध्यन्दिनः उद्गायति ।
२६ - ३१ - स्थाम्नः लुक् अजिनात् तथा ।
२७ - ३१ - स्थाम्नः लुक् वक्तव्यः ।
२८ - ३१ - अश्वत्थामा ।
२९ - ३१ - अजिनान्तात् च लुक् वक्तव्यः ।
३० - ३१ - उलाजिनः सिंहाजिनः व्याघ्राजिनः ।
३१ - ३१ - बाह्यः दैव्यः पाञ्चजन्यः गाम्भीर्यम् च ञ्यः इष्यते ।
१ - ३२ - किमर्थम् भवव्याख्यानयोः युगपत् अधिकारः क्रियते ।
२ - ३२ - भवव्याख्यानयोः युगपत् अधिकारः अपवादविधानार्थः ।
३ - ३२ - भवव्याख्यानयोः युगपत् अधिकारः क्रियते अपवादविधानार्थः ।
४ - ३२ - युगपद् अपवादान् वक्ष्यामि इति ।
५ - ३२ - किम् उच्यते अपवादविधानार्थः इति न पुनः निर्देशार्थः अपि स्यात् ।
६ - ३२ - कृतनिर्देशौ हि तौ ।
७ - ३२ - कृतनिर्देशौ हि एतौ अर्थौ ।
८ - ३२ - एकः तत्र भवः इति अपरः तस्य इदम् इति ।
९ - ३२ - अथ व्याख्यातव्यनाम्नः ग्रहणम् किमर्थम् ।
१० - ३२ - तत्र व्याख्यातव्यनाम्नः ग्रहणम् भवार्थम् ।
११ - ३२ - तत्र व्याख्यातव्यनाम्नः ग्रहणम् क्रियते भवार्थम् ।
१२ - ३२ - किम् उच्यते भवार्थम् इति न पुनः व्याख्यानार्थम् अपि ।
१३ - ३२ - व्याख्याने हि अवचनात् सिद्धम् ।
१४ - ३२ - व्याख्याने हि सति अन्तरेण वचनम् सिद्धम् ।
१५ - ३२ - यत् प्रति व्याख्यानम् इति एतत् भवति तस्मात् उत्पत्तिः भविष्यति ।
१६ - ३२ - किम् प्रति एतत् भवति ।
१७ - ३२ - व्याख्यातव्यनाम ।
१८ - ३२ - यत् उच्यते भवार्थम् इति तत् न ।
१९ - ३२ - व्याख्यानार्थम् अपि व्याख्यातव्यनाम्नः ग्रहणम् क्रियते ।
२० - ३२ - इह मा भूत् ।
२१ - ३२ - पाटलिपुत्रस्य व्याख्यानी सुकोसला इति ।
२२ - ३२ - अथ क्रिअय्माणे अपि व्याख्यातव्यनाम्नः ग्रहणे कस्मात् एव अत्र न भवति ।
२३ - ३२ - अवयशः हि आख्यानम् व्याख्यानम् ।
२४ - ३२ - पाटलिपुत्रम् च अपि अवयवशः व्याचष्टे ।
२५ - ३२ - ईदृशाः अस्य प्राकाराः इति ।
२६ - ३२ - सत्यम् एवम् एतत् ।
२७ - ३२ - क्व चित् तु का चित् प्रसृततरा गतिः भवति ।
२८ - ३२ - शब्दग्रन्थेषु च एषा प्रसृततरा गतिः भवति ।
२९ - ३२ - निरुक्तम् व्याख्यायते ।
३० - ३२ - व्याकरणम् व्याख्यायते इति उच्यते ।
३१ - ३२ - न कः चित् आह ।
३२ - ३२ - पाटलिपुत्रम् व्याख्यायते इति ।
१ - १६ - भवे मन्त्रेषु लुग्वचनम् ।
२ - १६ - भवे मन्त्रेषु लुक् वक्तव्यः ।
३ - १६ - अग्निष्टोमे भवः मन्त्रः अग्निष्टोमः ।
४ - १६ - राजसूयः वाजपेयः ।
५ - १६ - कल्पे च व्याख्याने ।
६ - १६ - कल्पे च व्याख्याने लुक् वक्तव्यः ।
७ - १६ - अग्निष्टोमस्य व्याख्यानः कल्पः अग्निष्टोमः ।
८ - १६ - राजसूयः वाजपेयः ।
९ - १६ - सः तर्हि वक्तव्यः ।
१० - १६ - न वा तादर्थ्यात् ताच्छब्द्यम् ।
११ - १६ - न वा वक्तव्यः ।
१२ - १६ - किम् कारणम् ।
१३ - १६ - तादर्थ्यात् ताच्छब्द्यम् ।
१४ - १६ - तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।
१५ - १६ - अग्निष्टोमार्थः अग्निष्टोमः ।
१६ - १६ - राजसूयः वाजपेयः ।
१ - १३ - क्रतुग्रहणम् किमर्थम् ।
२ - १३ - यज्ञेभ्यः इति इयति उच्यमाने ये एव सञ्ज्ञीभूतकाः यज्ञाः ततः उत्पत्तिः स्यात् आग्निष्टोमिकः राजसूयिकः वाजपेयिकः ।
३ - १३ - यत्र वा यज्ञशब्दः अस्ति ।
४ - १३ - नावयज्ञिकः पाकयज्ञिकः ।
५ - १३ - इह न स्यात् ।
६ - १३ - पाञ्चौदनिकः साप्तौदनिकः शातौदनिकः ।
७ - १३ - क्रतुग्रहणे पुनः क्रियमाणे न दोषः भवति ।
८ - १३ - अथ यज्ञग्रहणम् किमर्थम् ।
९ - १३ - क्रतुभ्यः इति इयति उच्यमाने ये एव सञ्ज्ञीभूतकाः क्रतवः ततः उत्पत्तिः स्यात् ।
१० - १३ - आग्निष्टोमिकः राजसूयिकः वाजपेयिकः ।
११ - १३ - इह न स्यात् ।
१२ - १३ - पाञ्चौदनिकः साप्तौदनिकः शातौदनिकः ।
१३ - १३ - यज्ञग्रहणे पुनः क्रियमाणे न दोषः भवति ।
१ - ३ - नामाख्यातग्रहणम् सङ्घातविगृहीतार्थम् ।
२ - ३ - नामाख्यातग्रहणम् सङ्घातविगृहीतार्थम् द्रष्टव्यम् ।
३ - ३ - नामिकः आख्यातिकः नामाख्यातिकः ।
१ - १३ - अयुक्तः अयम् निर्देशः ।
२ - १३ - न हि असौ विदूरात् प्रभवति ।
३ - १३ - किम् तर्हि. वालवायात् प्रभवति विदूरे संस्क्रियते ।
४ - १३ - एवम् तर्हि ।
५ - १३ - वालवायः विदूरम् च ।
६ - १३ - वालवायः विदूरशब्दम् आपद्यते ञ्यः च प्रत्ययः वक्तव्यः ।
७ - १३ - प्रकृत्यन्तरम् एव वा । अथ वा प्रकृत्यन्तरम् विदूरशब्दः वालवायस्य ।
८ - १३ - न वै तत्र वालय्वायम् विदूरः इति उपाचरन्ति ।
९ - १३ - न वै तत्र इति चेत् ब्रूयात् जित्वरीवत् उपाचरेत् ।
१० - १३ - तत् यथा वाणिजः वाराणसीम् जित्वरीम् इति उपाचरन्ति एवम् वैयाकरणाः वालवायम् विदुरः इति उपाचरन्ति ।
११ - १३ - वालवायः विदूरम् च ।
१२ - १३ - प्रकृत्यन्तरम् एव वा ।
१३ - १३ - न वै तत्र इति चेत् ब्रूयात् जित्वरीवत् उपाचरेत् ।
१ - १० - अयुक्तः अयम् निर्देशः ।
२ - १० - चेतनावतः एतत् भवति निष्क्रामणम् वा अपक्रमणम् वा द्वारम् च अचेतनम् ।
३ - १० - कथम् तर्हि निर्देशः करत्व्यः ।
४ - १० - अभिनिष्क्रमणम् द्वारम् इति ।
५ - १० - सः तर्हि तथा निर्देशः करत्व्यः ।
६ - १० - न कर्तव्यः ।
७ - १० - अचेतनेषु अपि चेतनावत् उपचारः दृश्यते ।
८ - १० - तत् यथा ।
९ - १० - अयम् अस्य कोणः अभिनिःसृतः ।
१० - १० - अयम् अभिप्रविष्टः इति ।
१ - ५ - अधिकृत्य कृते ग्रन्थे लुपा- आख्यायिकाभ्यः बहुलम् ।
२ - ५ - अधिकृत्य कृते ग्रन्थे इति अत्र आख्यायिकाभ्यः बहुलम् लुप् वक्तव्यः ।
३ - ५ - वासवदत्ता सुमनोत्तरा ।
४ - ५ - न च भवति ।
५ - ५ - भैमरथी ।
१ - ३ - द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः ।
२ - ३ - द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः वक्तव्यः ।
३ - ३ - दैवासुरम् राक्षोसुरम् दैवासुरी रक्षोसुरी ।
१ - ३ - निवासाभिजनयोः कः विशेषः ।
२ - ३ - निवासः नाम यत्र सम्प्रति उष्यते ।
३ - ३ - अभिजनः नाम यत्र पूर्वैः उषितम् ।
१ - ७ - किमर्थम् वासुदेवशब्दात् वुन् विधीयते न गोत्रक्षत्रियाख्येभ्यः बहुलम् वुञ् इति एव सिद्धम् ।
२ - ७ - न हि अस्ति विशेषः वासुदेवशब्दात् वुनः वा वुञः वा ।
३ - ७ - तत् एव रूपम् सः एव स्वरः ।
४ - ७ - इदम् तर्हि प्रयोजनम् ।
५ - ७ - वासुदेवशब्दस्य पूर्वनिपातम् वक्ष्यामि इति ।
६ - ७ - अथ वा न एषा क्षत्रियाख्या ।
७ - ७ - सञ्ज्ञा एषा तत्रभवतः ।
१ - ८ - सर्ववचनम् किमर्थम् ।
२ - ८ - सर्ववचनम् प्रकृतिनिर्ह्रासार्थम् ।
३ - ८ - सर्ववचनम् क्रियते प्रकृतिनिर्ह्रासार्थम् ।
४ - ८ - प्रकृतिनिर्ह्रासः यथा स्यात् ।
५ - ८ - तत् च मद्रवृज्यर्थम् ।
६ - ८ - तत् च मद्रवृज्यर्थम् द्रष्टव्यम् ।
७ - ८ - माद्रः भक्तिः अस्य माद्रौ वा भक्तिः अस्य मद्रकः इति एव यथा स्यात् ।
८ - ८ - वार्ज्यः भक्तिः अस्य वार्ज्यौ वा भक्तिः अस्य वृजिकः इति एव यथा स्यात् ।
१ - ३६ - प्रोक्तग्रहणम् अनर्थकम् तत्र अदर्शनात् ।
२ - ३६ - प्रोक्तग्रहणम् अनर्थकम् ।
३ - ३६ - किम् कारणम् ।
४ - ३६ - तत्र अदर्शनात् ।
५ - ३६ - ग्रामे ग्रामे काठकम् कालापकम् च प्रोच्यते ।
६ - ३६ - तत्र अदर्शनात् ।
७ - ३६ - न च तत्र प्रत्ययः दृश्यते ।
८ - ३६ - ग्रन्थे च दर्शनात् ।
९ - ३६ - यत्र च दृश्यते ग्रन्थः सः ।
१० - ३६ - तत्र कृते ग्रन्थे इति एव सिद्धम् ।
११ - ३६ - छन्दोर्थम् तर्हि इदम् वक्तव्यम् ।
१२ - ३६ - न हि छन्दांसि क्रियन्ते ।
१३ - ३६ - नित्यानि छन्दांसि ।
१४ - ३६ - छन्दोर्थम् इति चेत् तुलयम् ।
१५ - ३६ - छन्दोर्थम् इति चेत् तुलयम् एतत् भवति ।
१६ - ३६ - ग्रामे ग्रामे काठकम् कालापकम् च प्रोच्यते ।
१७ - ३६ - तत्र अदर्शनात् ।
१८ - ३६ - न च तत्र प्रत्ययः दृश्यते ।
१९ - ३६ - ग्रन्थे च दर्शनात् ।
२० - ३६ - यत्र च दृश्यते ग्रन्थः सः ।
२१ - ३६ - तत्र कृते ग्रन्थे इति एव सिद्धम् ।
२२ - ३६ - ननु च उक्तम् न हि छन्दांसि क्रियन्ते ।
२३ - ३६ - नित्यानि छन्दांसि इति ।
२४ - ३६ - यदि अपि अर्थः नित्यः या तु असौ वर्णानुपूर्वी स अनित्या ।
२५ - ३६ - तद्भेदात् च एतत् भवति ।
२६ - ३६ - काठकम् कालापकम् मौदकम् पैप्पलादकम् इति ।
२७ - ३६ - न तर्हि इदानीम् इदम् वक्तव्यम् ।
२८ - ३६ - वक्तव्यम् च ।
२९ - ३६ - किम् प्रयोजनम् ।
३० - ३६ - यत् तेन प्रोक्तम् न च तेन कृतम् ।
३१ - ३६ - माधुरी वृत्तिः ।
३२ - ३६ - यदि तर्हि अस्य निबन्धनम् अस्ति इदम् एव वक्तव्यम् ।
३३ - ३६ - तत् न वक्तव्यम् ।
३४ - ३६ - तत् अपि अवश्यम् वक्तव्यम् ।
३५ - ३६ - यत् तेन् कृतम् न च तेन प्रोक्तम् ।
३६ - ३६ - वाररुचम् काव्यम् जालूकाः श्लोकाः ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP