पाद ३ - खण्ड ६९

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.



१ - ३२ - इह कस्मात् न भवति , अमहान् महान् सम्पन्नः महद्भूतः चन्द्रमाः इति ।

२ - ३२ - अन्यप्रकृतिः तु अमहान् महत्प्रकृतौ महान् महति एव । अन्यः महान् ।

३ - ३२ - अन्यः महान् भूतप्रकृतौ वर्तते ।

४ - ३२ - महान् महति एव ।

५ - ३२ - तस्मात् आत्त्वम् न स्यात् । तस्मात् आत्त्वम् न भविष्यति ।

६ - ३२ - पुंवत्त्वम् तु कथम् भवेत् अत्र ।

७ - ३२ - पुंवद्भावः अपि तर्हि न प्राप्नोति ।

८ - ३२ - अमहती महती सम्पन्ना महद्भूता ब्राह्मणी ।

९ - ३२ - एवम् तर्हि अमहति महान् हि वृत्तः तद्वाची च अत्र भूतशब्दः अयम् ।

१० - ३२ - अमहति हि महच्छब्दः वर्तते तद्वाची च अत्र भूतशब्दः प्रयुज्यते ।

११ - ३२ - किंवाची ।

१२ - ३२ - महद्वाची ।

१३ - ३२ - तस्मात् सिध्यति पुंवत् । तस्मात् सिध्यति पुंवद्भावः ।

१४ - ३२ - यदि एवम् आत्त्वम् अपि प्राप्नोति ।

१५ - ३२ - महद्भूतः चन्द्रमाः ।

१६ - ३२ - निवर्त्यम् आत्त्वम् तु मन्यन्ते ।

१७ - ३२ - आत्त्वम् अपि प्राप्नोति ।

१८ - ३२ - न एषः दोषः ।

१९ - ३२ - यः तु महतः प्रतिपदम् समासः उक्तः तदाश्रयम् हि आत्त्वम् कर्तव्यम् मन्यन्ते न लक्षणेन लक्षणोक्तः च अयम् । एवम् तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति प्रतिपदम् यः समासः विहितः तस्य ग्रहणम् ।

२० - ३२ - लक्षणोक्तः च अयम् ।

२१ - ३२ - इह अपि तर्हि न प्राप्नोति ।

२२ - ३२ - महान् बाहुः अस्य महाबाहुः इति ।

२३ - ३२ - शेषवचनात् तु यः असौ प्रत्यारम्भात् कृतः बहुव्रीहिः तस्मात् सिध्यति तस्मिन् ।

२४ - ३२ - यस्मात् शेषः बहुव्रीहिः इति सिद्धे अनेकम् अन्यपदार्थे इति आह तेन प्रतिपदम् भवति ।

२५ - ३२ - प्रधानतः वा यतः वृत्तिः ।

२६ - ३२ - अथ वा गौणमुख्ययोः मुख्ये कार्यसम्प्रत्ययः ।

२७ - ३२ - तत् यथा गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति न बाहीकः अनुबध्यते ।

२८ - ३२ - कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः ।

२९ - ३२ - गौः तिष्ठति , गाम् आनय इति ।

३० - ३२ - अर्थाश्रये एतत् एवम् ।

३१ - ३२ - यत् हि शब्दाश्रयम् शब्दमात्रे तत् भवति ।

३२ - ३२ - शब्दाश्रये च वृद्ध्यात्त्वे ।

१ - १३ - महदात्त्वे घासकरविशिष्टेषु उपसङ्ख्यानम् पुंवद्वचनम् च असमानाधिकरणार्थम् ।

२ - १३ - महदात्त्वे घासकरविशिष्टेषु उपसङ्ख्यानम् कर्तव्यम् पुंवद्भावः च असमानाधिकरणार्थः कर्तव्यः ।

३ - १३ - महत्याः घासः महाघासः , महत्याः करः महाकरः , महत्याः विशिष्टः महाविशिष्टः ।

४ - १३ - अष्टनः कपाले हविषि ।

५ - १३ - अष्टनः कपाले हविषि उपसङ्ख्यानम् कर्तव्यम् ।

६ - १३ - अष्टाकपालम् चरुम् निर्वपेत् ।

७ - १३ - हविषि इति किमर्थम् ।

८ - १३ - अष्टकपालम् ब्राह्मणस्य ।

९ - १३ - गवि च युक्ते ।

१० - १३ - गवि च युक्ते उपसङ्ख्यानम् कर्तव्यम् ।

११ - १३ - अष्टागवेन शकटेन ।

१२ - १३ - युक्ते इति किमर्थम् ।

१३ - १३ - अष्टगवम् ब्राह्मणस्य ।

१ - १ - प्राक् शतात् इति वक्तव्यम् इह मा भूत् । द्विशतम् , द्विसहस्रम् , अष्तशतम् , अष्टसहस्रम् ।

१ - १२ - सर्वेषाङ्ग्रहणम् किमर्थम् ।

२ - १२ - चत्वारिंशत्प्रभृतौ सर्वेषाम् विभाषा यथा स्यात् , द्व्यष्टनोः च त्रेः च ।

३ - १२ - न एतत् अस्ति प्रयोजनम् ।

४ - १२ - प्रकृतम् द्व्यष्टन्ग्रहणमनुवर्तिष्यते ।

५ - १२ - यदि तत् अनुवर्तते त्रेः त्रयः द्व्यष्टनोः च इति द्व्यष्टनोः अपि द्त्रयः आदेशः प्राप्नोति ।

६ - १२ - न एषः दोषः ।

७ - १२ - मण्डूकगतयः अधिकाराः ।

८ - १२ - यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः ।

९ - १२ - अथ वा एकयोगः करिष्यते ।

१० - १२ - द्व्यष्टनः सङ्ख्ययाम् अबहुव्रीह्यशीत्योः त्रेः त्रयः ।

११ - १२ - ततः विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् इति ।

१२ - १२ - अथ वा उभयम् निवृत्तम् तत् अपेक्षिष्यामहे ।

१ - २२ - यण्ग्रहणम् इदम् प्रत्ययग्रहणम् ।

२ - २२ - तत्र प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति यदणन्ते प्राप्नोति ।

३ - २२ - यदण्ग्रहणे रूपग्रहणम् लेखग्रहणात् ।

४ - २२ - यदण्ग्रहणे रूपग्रहणम् द्रष्टव्यम् ।

५ - २२ - कुतः ।

६ - २२ - लेखग्रहणात् ।

७ - २२ - यत् अयम् लेखग्रहणम् करोति तत् ज्ञापयति आचार्यः न यदणन्ते भवति इति ।

८ - २२ - अपरः आह अत्यल्पम् इदम् उच्यते ।

९ - २२ - सर्वत्र एव उत्तरपदाधिकारे प्रत्ययग्रहणे रूपग्रहणम् द्रष्टव्यम् ।

१० - २२ - कुतः ।

११ - २२ - लेखग्रहणात् एव ।

१२ - २२ - किम् प्रयोजनम् ।

१३ - २२ - कुमारी गौरितरा ।

१४ - २२ - घादिषु नद्याः ह्रस्वः भवति इति ह्रस्वत्वम् प्रसज्येत ।

१५ - २२ - यदि एतत् ज्ञाप्यते खिति अनव्ययस्य इति खिति एव अनन्तरस्य अनव्ययस्य ह्रस्वत्वम् प्राप्नोति ।

१६ - २२ - खिति अनन्तरः ह्रस्वभावी न अस्ति इति कृत्वा खिदन्ते भविष्यति ।

१७ - २२ - ननु च अयम् अस्ति स्तनन्धयः इति ।

१८ - २२ - अत्र अपि शपा व्यवधानम् ।

१९ - २२ - एकादेशे कृते न अस्ति व्यवधानम् ।

२० - २२ - एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव ।

२१ - २२ - अथ वा एतत् ज्ञापयति आचार्यः खिति अनन्तरस्य न भवति इति यत् अयम् अनव्ययस्य इति प्रतिषेधम् शास्ति ।

२२ - २२ - न हि खिति अनन्तरम् अव्ययम् अस्ति ।

१ - ११ - पदादेशे अन्तोदात्तनिपातनम् [ऋपदोपहतार्थम्] । पदादेशे अन्तोदात्तनिपातनम् कर्तव्यम् ।

२ - ११ - किम् प्रयोजनम् ।

३ - ११ - पदोपहतार्थम् ।

४ - ११ - पादेन उपहतम् पदोपहतम् ।

५ - ११ - तृतीया कर्मणि इति प्रकृतिस्वरत्वे पूर्वपदान्तोदात्तत्वम् यथा स्यात् ।

६ - ११ - उपदेशिवद्वचनम् च स्वरसिद्ध्यर्थम् ।

७ - ११ - उपदेशिवद्भावः च वक्तव्यः ।

८ - ११ - किम् प्रयोजनम् ।

९ - ११ - स्वरसिद्ध्यर्थम् ।

१० - ११ - उपदेशावस्थायाम् अन्तोदात्तनिपातने कृते समासस्वरेण बाधनम् यथा स्यात् ।

११ - ११ - पदाजिः , पदातिः ।

१ - ३ - पद्भावे इके चरतौ उपसङ्ख्यानम् ।

२ - ३ - पद्भावे इके चरतौ उपसङ्ख्यानम् कर्तव्यम् ।

३ - ३ - पादाभ्याम् चरति पदिकः ।

१ - २ - निष्के च उपसङ्ख्यानम् कर्तव्यम् ।

२ - २ - पन्निष्केण पादनिष्केण ।

१ - २ - सञ्ज्ञायाम् उत्तरपदस्य इति वक्तव्यम् इह अपि यथा स्यात् ।

२ - २ - लोहितोदः , क्षीरोदः इति ।

१ - १९ - एकहलादौ इति किमर्थम् ।

२ - १९ - उदकस्थानम् ।

३ - १९ - उच्यमाने अपि एतस्मिन् अत्र प्रप्नोति ।

४ - १९ - एतत् अपि एकहलादि ।

५ - १९ - किम् कारणम् ।

६ - १९ - एकैकवर्णवर्तित्वात् वाचः उच्चरितप्रध्वंसित्वात् च वर्णानाम् ।

७ - १९ - एकैकवर्णवर्तिनी वाक् ।

८ - १९ - न द्वौ वर्णौ युगपत् उच्चारयति ।

९ - १९ - तत् यथा गौः इति उक्ते यावत् गकारे वाक् वर्तते तावत् न औकारे न विसर्जनीये ।

१० - १९ - यावत् औअकारे न तावत् गकारे न विसर्जनीये ।

११ - १९ - यावत् विसर्जनीये न तावत् गकारे न औकारे ।

१२ - १९ - उच्चरितप्रध्वंसित्वात् च वर्णानाम् ।

१३ - १९ - उच्चरितः वर्णः प्रध्वस्तः च ।

१४ - १९ - अथ अपरः प्रयुज्यते ।

१५ - १९ - न वर्णः वर्णस्य सहायः ।

१६ - १९ - एवम् तर्हि एकहलादौ इति उच्यते सर्वः च एकहलादिः ।

१७ - १९ - तत्र प्रकर्षगतिः विज्ञायते साधीयः यः एकहलादिः इति ।

१८ - १९ - कः च साधीयः ।

१९ - १९ - यत्र एकम् हलम् उच्चार्य अच् उच्यते ।

१ - २० - इकः ह्रस्वत्वम् उत्तरपदमात्रे ।

२ - २० - इकः ह्रस्वत्वम् उत्तरपदमात्रे वक्तव्यम् इह अपि यथा स्यात् , अलाबुकर्कन्धुदृन्भुफलम् इति ।

३ - २० - किम् पुनः कारणम् न सिध्यति ।

४ - २० - सर्वान्ते हि लोकविज्ञानम् ।

५ - २० - लोकविज्ञानात् हि यत् एव सर्वान्तम् पदम् तस्मिन् पूर्वपदस्य ह्रस्वत्वम् स्यात् ।

६ - २० - अथ वा एवम् विग्रहः करिष्यते ।

७ - २० - अलाबूः च कर्कन्धूः च , अलाबुकर्कन्ध्वौ , अलाबुकर्कन्ध्वौ दृन्भूः च, अलाबुकर्कन्धुदृन्भ्वः , अलाबुकर्कन्धुदृन्भूनाम् फलम् अलाबुकर्कन्धुदृन्भुफलम् इति ।

८ - २० - यदि एवम् दृन्भ्वाः पूर्वनिपातः प्राप्नोति ।

९ - २० - राजदन्तादिषु पाठः करिष्यते ।

१० - २० - अथ वा एवम् विग्रहः करिष्यते ।

११ - २० - दृन्भ्वाः फलम् दृन्भुफलम् , कर्कन्धूः च दृन्भुफलम् च कर्कन्धुदृन्भुफलम् , अलाबूः च कर्कन्धुदृन्भुफलम् च अलाबुकर्कन्धुदृन्भुफलम् इति ।

१२ - २० - एवम् अपि फलेन अकृतः अभिसम्बन्धः भवति ।

१३ - २० - प्रत्येकम् फलशब्दः परिसमाप्यते ।

१४ - २० - इयङुवङव्ययप्रतिषेधः ।

१५ - २० - इयङुवङ्भाइनाम् अव्ययानाम् च प्रतिषेधः वक्तव्यः ।

१६ - २० - श्रीकुलम् , भ्रूकुलम् , काण्डीभूतम् वृषलकुलम् , कुड्यीभूतम् वृषलकुलम् ।

१७ - २० - अभ्रूकंसादीनाम् इति वक्तव्यम् ।

१८ - २० - भ्रुकुंसः , भ्रुकुटिः ।

१९ - २० - अपरः आह अकारः भ्रूकंसादीनाम् इति वक्तव्यम् ।

२० - २० - भ्रकुंसः , भ्रकुटिः ।

१ - २८ - तद्धिते किम् उदाहरणम् ।

२ - २८ - एकत्वम् , एकता ।

३ - २८ - न एतत् अस्ति प्रयोजनम् ।

४ - २८ - पुंवद्भावेन अपि एतत् सिद्धम् ।

५ - २८ - कथम् पुंवद्भावः ।

६ - २८ - तासिलादिषु आ कृत्वसुचः ।

७ - २८ - इदम् तर्हि प्रयोजनम् ।

८ - २८ - एकस्याः आगतम् एकरूप्यम् , एकमयम् ।

९ - २८ - इदम् च अपि उदाहरणम् ।

१० - २८ - एकत्वम् , एकता ।

११ - २८ - ननु च उक्तम् पुंवद्भावेन अपि एतत् सिद्धम् इति ।

१२ - २८ - न सिध्यति ।

१३ - २८ - उक्तम् एतत् त्वतलोः गुणवचनस्य इति ।

१४ - २८ - अथ उत्तरपदे किम् उदाहरणम् ।

१५ - २८ - एकशाटी ।

१६ - २८ - न एतत् अस्ति ।

१७ - २८ - पुंवद्भावेन अपि एतत् सिद्धम् ।

१८ - २८ - कथम् पुंवद्भावः ।

१९ - २८ - समानाधिकरणलक्षणः ।

२० - २८ - इदम् तर्हि प्रयोजनम् ।

२१ - २८ - एकस्याः क्षीरम् एकषीरम् ।

२२ - २८ - इदम् च अपि उदाहरणम् ।

२३ - २८ - एकशाटी ।

२४ - २८ - ननु च उक्तम् पुंवद्भावेन अपि एतत् सिद्धम् इति ।

२५ - २८ - न सिध्यति ।

२६ - २८ - न कोपधायाः इति प्रतिषेधः प्राप्नोति ।

२७ - २८ - न एषः दोषः ।

२८ - २८ - उक्तम् एतत् कोपधप्रतिषेधे तद्धितवुग्रहणम् इति ।

१ - ४७ - खिति ह्रस्वाप्रसिद्धिः अनजन्तत्वात् ।

२ - ४७ - खिति ह्रस्वाप्रसिद्धिः ।

३ - ४७ - कालिम्मन्या , हरिणिम्मन्या ।

४ - ४७ - किम् कारणम् ।

५ - ४७ - अनजन्तत्वात् ।

६ - ४७ - मुमि कृते अनजन्तत्वात् ह्रस्वत्वम् न प्राप्नोति ।

७ - ४७ - सिद्धम् तु ह्रस्वान्तस्य मुम्वचनात् ।

८ - ४७ - सिद्धम् एतत् ।

९ - ४७ - कथम् ।

१० - ४७ - ह्रस्वान्तस्य मुम् भवति इति वक्तव्यम् ।

११ - ४७ - सन्नियोगात् वा ।

१२ - ४७ - अथ वा सन्नियोगः करिष्यते ।

१३ - ४७ - कः एषः यत्नः चोद्यते सन्नियोगः नाम ।

१४ - ४७ - चकारः कर्तव्यः ।

१५ - ४७ - मुम् च ।

१६ - ४७ - किम् च. यत् च अन्यत् प्राप्नोति ।

१७ - ४७ - किम् च अन्यत् प्राप्नोति ।

१८ - ४७ - ह्रस्वत्वम् ।

१९ - ४७ - सिध्यति ।

२० - ४७ - सूत्रम् तर्हि भिद्यते ।

२१ - ४७ - यथान्यासम् एव अस्तु ।

२२ - ४७ - ननु च उक्तम् खिति ह्रस्वाप्रसिद्धिः अनजन्तत्वात् इति ।

२३ - ४७ - परिहृतम् एतत् सिद्धम् तु ह्रस्वान्तस्य मुम्वचनात् इति ।

२४ - ४७ - तत् तर्हि ह्रस्वग्रहणम् कर्तव्यम् ।

२५ - ४७ - न कर्तव्यम् ।

२६ - ४७ - प्रकृतम् अनुवर्तते ।

२७ - ४७ - क्व प्रकृतम् ।

२८ - ४७ - इकः ह्रस्वः अङ्यः गालवस्य इति ।

२९ - ४७ - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

३० - ४७ - खिति इति एषा सप्तमी ह्रस्वः इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति ।

३१ - ४७ - अथ वा खिति ह्रस्वः भवति इति उच्यते ।

३२ - ४७ - खिति ह्रस्वभावी न अस्ति इति कृत्वा भूतपूर्वगतिः विज्ञास्यते ।

३३ - ४७ - अजन्तम् यत् भूतपूर्वम् इति ।

३४ - ४७ - अथ वा कार्यकालम् सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् ।

३५ - ४७ - खिति ह्रस्वः भवति इति उपस्थितम् इदम् भवति अचः इति ।

३६ - ४७ - तत्र वचनात् अनजन्तस्य अपि भविष्यति ।

३७ - ४७ - इह अपि तर्हि वचनात् प्राप्नोति ।

३८ - ४७ - वाङ्मन्यः इति ।

३९ - ४७ - न एतत् अस्ति ।

४० - ४७ - इकः इति वर्तते ।

४१ - ४७ - एवम् अपि खट्वम्मन्यः , अत्र न प्राप्नोति ।

४२ - ४७ - न एषः दोषः ।

४३ - ४७ - आब्ग्रहणम् अपि प्रकृतम् अनुवर्तते ।

४४ - ४७ - क्व प्रकृतम् ।

४५ - ४७ - ङ्यापोः सञ्ज्ञाच्छन्दसोः बहुलम् इति ।

४६ - ४७ - एवम् अपि कीलालपम्मन्यः , शुभंयम्मन्यः अत्र न प्राप्नोति ।

४७ - ४७ - तस्मात् पूर्वोक्तौ एव परिहारौ ।

१ - ४२ - अमः प्रत्ययवदनुदेशे किम् प्रयोजनम् ।

२ - ४२ - अमः प्रत्ययवदनुदेशे प्रयोजनम् आत्वपूर्वसवर्णगुणेयङुवङादेशाः ।

३ - ४२ - अमः प्रत्ययवदनुदेशे आत्वपूर्वसवर्णगुणेयङुवङादेशाः प्रयोजनम् ।

४ - ४२ - आत्वम् प्रयोजनम् ।

५ - ४२ - गाम्मन्यः ।

६ - ४२ - पूर्वसवर्णः प्रयोजनम् ।

७ - ४२ - स्त्रीम्मन्यः ।

८ - ४२ - गुणः प्रयोजनम् ।

९ - ४२ - नरम्मन्यः ।

१० - ४२ - इयङुवङौ प्रयोजनम् ।

११ - ४२ - श्रियम्मन्यः , भ्रुवम्मन्यः ।

१२ - ४२ - अमः प्रत्ययवदनुदेशे आत्वपूर्वसवर्णाप्रसिद्धिः अप्रथमात्वात् ।

१३ - ४२ - अमः प्रत्ययवदनुदेशे आत्वपूर्वसवर्णयोः अप्रसिद्धिः ।

१४ - ४२ - किम् कारणम् ।

१५ - ४२ - अप्रथमात्वात् ।

१६ - ४२ - प्रथमयोः इति उच्यते न च अत्र प्रथमाम् पश्यामः ।

१७ - ४२ - किम् च भोः आत्वम् प्रथमयोः इति उच्यते ।

१८ - ४२ - न खलु प्रथमयोः इति उच्यते ।

१९ - ४२ - प्रथमयोः इति तु विज्ञायते ।

२० - ४२ - कथम् ।

२१ - ४२ - अम्शसोः इति उच्यते ।

२२ - ४२ - ते एवम् विज्ञास्यामः ।

२३ - ४२ - शस्सहचरितः यः अम्शब्दः ।

२४ - ४२ - कः च शस्सहचरितः ।

२५ - ४२ - प्रथमा एव ।

२६ - ४२ - ननु च प्रत्ययवदनुदेशात् भविष्यति ।

२७ - ४२ - न सिध्यति ।

२८ - ४२ - किम् कारणम् ।

२९ - ४२ - सामान्यातिदेशे [ऋहि] विशेषानतिदेशः ।

३० - ४२ - सामन्ये हि अतिदिश्यमाने विशेषः न अतिदिष्टः भवति ।

३१ - ४२ - तत् यथा ।

३२ - ४२ - ब्रह्मणवत् अस्मिन् क्षत्रिये वर्तितव्यम् इति सामान्यम् यत् ब्राह्मणकार्यम् तत् क्षत्रिये अतिदिश्यते ।

३३ - ४२ - यत् विशिष्टम् माठरे कौण्डिन्ये वा न तत् अतिदिश्यते ।

३४ - ४२ - एवम् इह अपि सामान्यम् यत् प्रत्ययकार्यम् तत् अतिदिश्यते यत् विशिष्टम् द्वितीयैकवचने भवति प्रथमयोः इति न तत् अतिदिश्यते ।

३५ - ४२ - सिद्धम् तु द्वितीयैकवचनवद्वचनात् ।

३६ - ४२ - सिद्धम् एतत् ।

३७ - ४२ - कथम् ।

३८ - ४२ - द्वितीयैकवचनवत् भवति इति वक्तव्यम् ।

३९ - ४२ - एकशेषनिर्देशात् वा ।

४० - ४२ - अथ वा एकशेषनिर्देशः अयम् ।

४१ - ४२ - अम् च अम् च अम् ।

४२ - ४२ - इचः एकाचः अम् भवति अम्प्रत्ययवत् च अस्मिन् कार्यम् भवति इति ।

१ - २० - अथ इह कथम् भवितव्यम् ।

२ - २० - श्रियम् आत्मानम् मन्यते ब्राह्मणकुलम् ।

३ - २० - श्रियम्मन्यम् आहोस्वित् श्रिमन्यम् इति ।

४ - २० - श्रियम्मन्यम् इति भवितव्यम् ।

५ - २० - स्वमोः नपुंसकात् इति लुक् कस्मात् न भवति ।

६ - २० - न अप्राप्ते लुकि अम् आरभ्यते ।

७ - २० - सः यथा एव सुपः धातुप्रातिपदिकयोः इति एतम् बाधते एवम् स्वमोः नपुंसकात् इति एतम् अमि लुकम् बाधेत ।

८ - २० - न बाधते ।

९ - २० - किम् कारणम् ।

१० - २० - येन न अप्राप्ते तस्य बाधनम् भवति ।

११ - २० - न च अप्राप्ते सुपः धातुप्रातिपदिकयोः इति एतस्मिन् एतत् आरभ्यते ।

१२ - २० - स्वमोः नपुंसकात् इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च ।

१३ - २० - अथ वा मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् सुपः धातुप्रातिपदिकयोः इति एतम् बाधते ।

१४ - २० - स्वमोः नपुंसकात् इति एतम् न बाधिष्यते ।

१५ - २० - एवम् तर्हि असिद्धम् बहिरङ्गम् अन्तरङ्गे इति असिद्धत्वात् बहिरङ्गलक्षणस्य अमः अन्तरङ्गलक्षणः लुक् न भविष्यति ।

१६ - २० - न एषा परिभाषा उत्तरपदाधिकारे शक्या विज्ञातुम् ।

१७ - २० - इह हि दोषः स्यात् ।

१८ - २० - द्विषन्तपः , परन्तपः ।

१९ - २० - संयोगान्तलोपः न स्यात् ।

२० - २० - तस्मात् श्रिमन्यम् इति एव भवितव्यम् ।

१ - ३३ - अस्तुसत्यागदस्य कारे ।

२ - ३३ - अस्तुसत्यागदस्य कारे उपसङ्ख्यानम् कर्तव्यम् ।

३ - ३३ - अस्तुङ्कारः , सत्यङ्कारः , अगदङ्कारः ।

४ - ३३ - भक्षस्य छन्दसि ।

५ - ३३ - भक्षस्य छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।

६ - ३३ - तस्य ते भक्षङ्कारस्य ।

७ - ३३ - छन्दसि इति किम् ।

८ - ३३ - भक्षकारस्य तत् मतम् इति ।

९ - ३३ - धेनोः भव्यायाम् ।

१० - ३३ - धेनोः भव्यायाम् उपसङ्ख्यानम् कर्तव्यम् ।

११ - ३३ - धेनुम्भव्या ।

१२ - ३३ - लोकस्य पृणे ।

१३ - ३३ - लोकस्य पृणे उपसङ्ख्यानम् कर्तव्यम् ।

१४ - ३३ - लोकम्प्र्णस्य धन्विनः ।

१५ - ३३ - इत्ये अनभ्याशस्य ।

१६ - ३३ - इत्ये अनभ्याशस्य उपसङ्ख्यानम् कर्तव्यम् ।

१७ - ३३ - अनभ्याशमित्यः ।

१८ - ३३ - भ्राष्ट्राग्न्योः इन्धे ।

१९ - ३३ - भ्राष्ट्राग्न्योः इन्धे उपसङ्ख्यानम् कर्तव्यम् ।

२० - ३३ - भ्राष्ट्रमिन्धः , अग्निमिन्धः ।

२१ - ३३ - गिले अगिलस्य ।

२२ - ३३ - गिले अगिलस्य उपसङ्ख्यानम् कर्तव्यम् ।

२३ - ३३ - तिमिङ्गिलः ।

२४ - ३३ - अगिलस्य इति किमर्थम् ।

२५ - ३३ - गिलगिलः ।

२६ - ३३ - गिलगिले च इति वक्तव्यम् ।

२७ - ३३ - तिमिङ्गिलगिलः ।

२८ - ३३ - उष्णभद्रयोः करणे ।

२९ - ३३ - उष्णभद्रयोः करणे उपसङ्ख्यानम् कर्तव्यम् ।

३० - ३३ - उष्णङ्करणम् , भद्रङ्करणम् ।

३१ - ३३ - सूतोग्रराजभोजकुलमेरुभ्यः दुहितुः पुत्रट् वा ।

३२ - ३३ - सूतोग्रराजभोजकुलमेरुभ्यः दुहितुः पुत्रट् वा भवति इति वक्तव्यम् ।

३३ - ३३ - सूतपुत्री , सूतदुहिता , उग्रपुत्री , उग्रदुहिता , रजपुत्री , राजदुहिता , भोजपुत्री , भोजदुहिता , कुलपुत्री , कुलदुहिता , मेरुपुत्री , मेरुदुहिता ।

१ - ९ - किम् इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते ।

२ - ९ - कथम् च प्राप्ते कथम् वा अप्राप्ते ।

३ - ९ - खिति इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते ।

४ - ९ - रात्रेः अप्राप्ते ।

५ - ९ - रात्रेः अप्राप्ते विभाषा ।

६ - ९ - प्राप्ते नित्यः विधिः ।

७ - ९ - रात्रिम्मन्यः ।

८ - ९ - अप्राप्ते विभाषा ।

९ - ९ - रात्र्यटः , रात्रिमटः ।

१ - १३ - किमर्थम् नञः सानुबन्धकस्य ग्रहणम् क्रियते न नस्य इति एव उच्येत ।

२ - १३ - नस्य इति उच्यमाने कर्णपुत्रः , वर्णपुत्रः इति अत्र अपि प्रसज्येत ।

३ - १३ - न एषः दोषः ।

४ - १३ - अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् एतस्य न भविष्यति ।

५ - १३ - एवम् अपि प्रश्नपुत्रः , विश्नपुत्रः इति अत्र अपि प्राप्नोति ।

६ - १३ - न एषः दोषः ।

७ - १३ - अननुबन्धकग्रहणे न सानुबन्धकस्य इति एवम् एतस्य न भविष्यति ।

८ - १३ - एवम् अपि वामनपुत्रः , पामनपुत्रः इति अत्र अपि प्राप्नोति ।

९ - १३ - तस्मात् सानुबन्धकस्य ग्रहणम् कर्तव्यम् ।

१० - १३ - नञः नलोपे अवक्षेपे तिङि उपसङ्ख्यानम् ।

११ - १३ - नञः नलोपे अवक्षेपे तिङि उपसङ्ख्यानम् कर्तव्यम् ।

१२ - १३ - अपचसि वै त्वम् जाल्म ।

१३ - १३ - अकरोषि वै त्वम् जाल्म ।

१ - १४ - किमर्थम् तस्मात् इति उच्यते न नुट् अचि इति एव उच्येत ।

२ - १४ - नुट् अचि इति उच्यमाने नञः एव नुट् प्रसज्येत ।

३ - १४ - एवम् तर्हि पूर्वान्तः करिष्यते ।

४ - १४ - तत्र अयम् अपि अर्थः ।

५ - १४ - तदोः सः सौ अनन्त्ययोः इति तदोः ग्रहणम् न कर्तव्यम् ।

६ - १४ - तत्र हि तवर्गानिर्देशे एतत् प्रयोजनम् इह मा भूत् ।

७ - १४ - अनेषः करोति इति ।

८ - १४ - यावता पूर्वान्तः सः अपि अदोषः भवति ।

९ - १४ - न एवम् शक्यम् ।

१० - १४ - अनुष्णः इति नलोपः प्रातिपदिकान्तस्य इति नलोपः प्रसज्येत ।

११ - १४ - नुग्वचनात् न भविष्यति ।

१२ - १४ - ङमुट् तर्हि प्राप्नोति ।

१३ - १४ - तस्मात् परादिः कर्तव्यः ।

१४ - १४ - परादौ च क्रियमाणे तस्मात् इति वक्तव्यम् ।

१ - २६ - किमर्थम् आदुक् उच्यते न अदुक् एव उच्यते ।

२ - २६ - का रूपसिद्धिः एकान्नविंशतिः , एकान्नशतम् ।

३ - २६ - सवर्णदीर्घत्वेन सिद्धम् ।

४ - २६ - न सिध्यति ।

५ - २६ - अतः गुणे इति पररूपत्वम् प्राप्नोति ।

६ - २६ - एवम् तर्हि अदुट् करिष्यते ।

७ - २६ - अदुट् च अशक्यः कर्तुम् ।

८ - २६ - आनुनासिक्यम् हि न स्यात् ।

९ - २६ - यत् हि तत् यरः अनुनासिके अनुनासिकः व इति पदान्तस्य इति एवम् तत् ।

१० - २६ - किम् पुनः कारणम् पदान्तस्य इति एवम् तत् ।

११ - २६ - इह मा भूत् ।

१२ - २६ - बुध्नः , ब्रध्नः , बध्नाति ।

१३ - २६ - एवम् तर्हि अनुट् करिष्यते ।

१४ - २६ - अनुट् च अशक्यः कर्तुम् ।

१५ - २६ - विभाषया आनुनासिक्यम् ।

१६ - २६ - तेन इदम् एव रूपम् स्यात् एकान्नविंशतिः ।

१७ - २६ - इदम् न स्यात् ।

१८ - २६ - एकान्नविंशतिः इति ।

१९ - २६ - अस्तु तर्हि अदुक् एव ।

२० - २६ - ननु च उक्तम् अतः गुणे इति पररूपत्वम् प्राप्नोति इति ।

२१ - २६ - न एषः दोषः ।

२२ - २६ - अकारोच्चारणसामर्थ्यात् न भविष्यति ।

२३ - २६ - यदि तर्हि प्राप्नुवन् विधिः अकारोच्चारणसामर्थ्यात् बाध्यते सवर्णदीर्घत्वम् अपि न प्राप्नोति ।

२४ - २६ - यम् विधिम् प्रति उपदेशः अनर्थकः सः विधिः बाध्यते ।

२५ - २६ - यस्य तु विधिः निमित्तम् एव न असौ बाध्यते ।

२६ - २६ - पररूपम् च प्रति अकारोच्चारणम् अनर्थकम् सवर्णदीर्घत्वस्य पुनः निमित्तम् एव ।

१ - १२ - सहस्य हलोपवचनम् ।

२ - १२ - सहस्य हलोपः वक्तव्यः ।

३ - १२ - सादेशे हि स्वरे दोषः ।

४ - १२ - सादेशे हि [सति] स्वरे दोषः स्यात् ।

५ - १२ - आन्तर्यतः उदात्तानुदात्तयोः [स्थाने] स्वरितः आदेशः प्रसज्येत ।

६ - १२ - [सपुत्रः , सभार्यः ।] सः तर्हि लोपः वक्तत्व्यः ।

७ - १२ - न वक्तत्व्यः ।

८ - १२ - आद्युदात्तनिपातनम् करिष्यते ।

९ - १२ - सः निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति ।

१० - १२ - एवम् अपि उपदेशिवद्भावः वक्तव्यः ।

११ - १२ - सः यथा एव हि निपातनस्वरः प्रकृतिस्वरम् बाधते एवम् समासस्वरम् अपि बाधेत ।

१२ - १२ - सेष्टि , सपशुबन्धम् ।

१ - ७ - ग्रन्थान्ते वचनानर्थक्यम् अव्ययीभावेन कृतत्वात् । ग्रन्थान्ते वचनम् अनर्थकम् ।

२ - ७ - किम् कारणम् ।

३ - ७ - अव्ययीभावेन कृतत्वात् ।

४ - ७ - अव्ययीभावे च अकाले इति एव सिद्धम् ।

५ - ७ - यः तर्हि कालोत्तरपदः ग्रन्थान्तः तदर्थम् इदम् वक्तव्यम् ।

६ - ७ - सकाष्ठम् ज्योतिषम् अधीते ।

७ - ७ - सकलम् , समुहूर्तम् ।

१ - २७ - उपसर्जनस्य वावचने सर्वप्रसङ्गः अविशेषात् ।

२ - २७ - उपसर्जनस्य वावचने सर्वप्रसङ्गः ।

३ - २७ - सर्वस्य उपसर्जनस्य सादेशः प्राप्नोति ।

४ - २७ - अस्य अपि प्राप्नोति सहयुध्वा , सहकृत्वा ।

५ - २७ - किम् कारणम् ।

६ - २७ - अविशेषात् ।

७ - २७ - न हि कः चित् विशेषः उपादीयते एवञ्जातीयकस्य सादेशः भवति इति ।

८ - २७ - अनुपादीयमाने विशेषे सर्वप्रसङ्गः ।

९ - २७ - सिद्धम् तु बहुव्रीहिनिर्देशात् ।

१० - २७ - सिद्धम् एतत् ।

११ - २७ - कथम् ।

१२ - २७ - बहुव्रीहिनिर्देशात् ।

१३ - २७ - बहुव्रीहिनिर्देशः कर्तव्यः ।

१४ - २७ - एवम् अपि सहयुध्वप्रियः , सहकृत्वप्रियः इति अत्र प्राप्नोति ।

१५ - २७ - बहुव्रीहौ यत् उत्तरपदम् इति एवम् विज्ञास्यते ।

१६ - २७ - ननु एतत् अपि बहुव्रीहौ उत्तरपदम् ।

१७ - २७ - एवम् तर्हि बहुव्रीहौ यत् उपसर्जनम् इति एवम् विज्ञास्यते ।

१८ - २७ - बहुव्रीहौ च यत् उपसर्जनम् बहुव्रीहिम् प्रति च यत् उपसर्जनम् ।

१९ - २७ - सः तर्हि बहुव्रीहिनिर्देशः कर्तव्यः ।

२० - २७ - न कर्तव्यः ।

२१ - २७ - इह कः चित् प्रधानानाम् एव समासः कः चित् उपसर्जनानाम् एव कः चित् प्रधानोपसर्जनानाम् ।

२२ - २७ - तत् यः उपसर्जनानाम् एव समासः तत् उपसर्जनम् ।

२३ - २७ - अथ वा अकारः मत्वर्थीयः ।

२४ - २७ - तत् यथा तुन्दः घाटः इति ।

२५ - २७ - अथ वा मतुब्लोपः अत्र द्रष्टव्यः ।

२६ - २७ - तत् यथा पुष्यकाः एषाम् ते इमे पुष्यकाः ।

२७ - २७ - कालकाः एषाम् ते इमे कालकाः इति ।

१ - ४ - प्रकृत्या आशिषि अगवादिषु ।

२ - ४ - प्रकृत्या आशिषि अगवादिषु इति वक्तव्यम् ।

३ - ४ - इह मा भूत् ।

४ - ४ - सगवे सवत्साय सहलाय इति ।

१ - ४ - चरणे किम् निपात्यते ।

२ - ४ - ब्रह्मणि उपपदे समानपूर्वे व्रते कर्मणि चरेः णिनिः व्रतलोपः च ।

३ - ४ - ब्रह्मणि उपपदे समानपूर्वे व्रते कर्मणि चरेः णिनिः प्रत्ययः व्रतलोपः च निपात्यते ।

४ - ४ - समाने ब्रह्मणि व्रतम् चतर्ति इति सब्रह्मचारी ।

१ - २ - दृग्दृशवतुषु दृक्षे उपसङ्ख्यानम् । दृग्दृशवतुषु दृक्षे उपसङ्ख्यानम् कर्तव्यम् ।

२ - २ - सदृक्षासः प्रतिसदृक्षासः ।

१ - १५ - किमर्थम् अञ्चतिनह्यादिषु क्विब्ग्रहणम् क्रियते ।

२ - १५ - इह मा भूत् ।

३ - १५ - समञ्चनम् , उपनहनम् ।

४ - १५ - न एतत् अस्ति प्रयोजनम् ।

५ - १५ - उत्तरपदे इति वर्तते न च अन्तरेण क्विपम् अञ्चतिनह्यादयः उत्तरपदानि भवन्ति ।

६ - १५ - तत्र अन्तरेण क्विब्ग्रहणम् क्विबन्ते एव भविष्यति ।

७ - १५ - तदादिविधिना प्राप्नोति ।

८ - १५ - अतः उत्तरम् पठति अञ्चतिनह्यादिषु क्विब्ग्रहणनार्थक्यम् यस्मिन् विधिः तदादौ अल्ग्रहणे ।

९ - १५ - अञ्चतिनह्यादिषु क्विब्ग्रहणम् अनर्थकम् ।

१० - १५ - किम् कारणम् ।

११ - १५ - यस्मिन् विधिः तदादौ अल्ग्रहणे ।

१२ - १५ - अल्ग्रहणेषु एतत् भवति न च इदम् अल्ग्रहणम् ।

१३ - १५ - एवम् तर्हि सिद्धे सति यत् क्विब्ग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत्र धातुग्रहणे तदादिविधिः भवति इति ।

१४ - १५ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१५ - १५ - अतः कृकमि इति अत्र , अयस्कृत् अयस्कार इति अपि सिद्धम् भवति ।

१ - ११ - अद्रिसध्र्योः अन्तोदात्तवचनम् कृत्स्वरनिवृत्त्यर्थम् ।

२ - ११ - अद्रिसध्र्योः अन्तोदात्तत्वम् वक्तव्यम् ।

३ - ११ - किम् प्रयोजनम् ।

४ - ११ - कृत्स्वरनिवृत्त्यर्थम् ।

५ - ११ - कृत्स्वरः मा भूत् ।

६ - ११ - विष्वद्र्यङ् , विष्वद्र्यञ्चौ , विष्वद्र्यञ्चः , सध्र्यङ् , सध्र्यञ्चौ , सध्र्यञ्चः ।

७ - ११ - तत्र छन्दसि स्त्रियाम् प्रतिषेधः ।

८ - ११ - तत्र छन्दसि स्त्रियाम् प्रतिषेधः वक्तव्यः ।

९ - ११ - विश्वाची , घृताची ।

१० - ११ - यदि छन्दसि स्त्रियाम् प्रतिषेधः उच्यते कथम् सा कद्रीची ।

११ - ११ - एवम् तर्हि छन्दसि स्त्रियाम् बहुलम् इति वक्तव्यम् ।

१ - ७ - समापः ईत्त्वप्रतिषेधः ।

२ - ७ - समापः ईत्त्वप्रतिषेधः वक्तव्यः ।

३ - ७ - समापम् नाम देवयजनम् ।

४ - ७ - अपरः आह ईत्त्वम् अनवर्णात् इति वक्तव्यम् ।

५ - ७ - समीपम् , अन्तरीपम् ।

६ - ७ - इह मा भूत् ।

७ - ७ - प्रापम् , परापम् ।

१ - ५ - दीर्घोच्चारणम् किमर्थम् न उदनोः देशे इति एव उच्येत ।

२ - ५ - का रूपसिद्धिः अनूपः ।

३ - ५ - सवर्णदीर्घत्वेन् सिद्धम् ।

४ - ५ - न सिध्यति ।

५ - ५ - अवग्रहे दोषः स्यात् ।

१ - ५ - अषष्ठ्यतृतीयस्थस्य इति उच्यते ।

२ - ५ - तत्र इदम् न सिध्यति ।

३ - ५ - अन्यस्य इदम् अन्यदीयम् ।

४ - ५ - अन्यस्य कारकम् अन्यत्कारकम् ।

५ - ५ - एवम् तर्हि अविशेषेण अन्यस्य दुक् छकारकयोः इति उक्त्वा ततः वक्ष्यामि अषष्ठ्यतृतीयस्थस्य आशीराशास्थास्थितोत्सुकोतिरागेषु इति ।

१ - ५ - कद्भावे त्रौ उपसङ्ख्यानम् ।

२ - ५ - कद्भावे त्रौ उपसङ्ख्यानम् कर्तव्यम् ।

३ - ५ - कुत्सिताः त्रयः कत्त्रयः ।

४ - ५ - के वा त्रयः ।

५ - ५ - न बिभृयुः कत्त्रयः

१ - ३३ - पृषोदरादीनि इति उच्यते ।

२ - ३३ - कानि पृषोदरादीनि ।

३ - ३३ - पृषोदरप्रकाराणि ।

४ - ३३ - कानि पुनः पृषोदरप्रकाराणि ।

५ - ३३ - येषु लोपागमविकाराः श्रूयन्ते न च उच्यन्ते ।

६ - ३३ - अथ यथा इति किम् इदम् ।

७ - ३३ - प्रकारवचने थाल् ।

८ - ३३ - अथ किम् इदम् उपदिष्टानि इति ।

९ - ३३ - उच्चारितानि ।

१० - ३३ - कुतः एतत् ।

११ - ३३ - दिशिः उच्चारणक्रियः ।

१२ - ३३ - उच्चार्य हि वर्णान् आह उप्दिष्टाः इमे वर्णाः इति ।

१३ - ३३ - कैः पुनः उपदिष्टाः ।

१४ - ३३ - शिष्टैः ।

१५ - ३३ - के पुनः शिष्टाः ।

१६ - ३३ - वैयाकरणाः ।

१७ - ३३ - कुतः एतत् ।

१८ - ३३ - शास्त्रपूर्विका हि शिष्टिः वैयाकरणाः च शास्त्रज्ञाः ।

१९ - ३३ - यदि तर्हि शास्त्रपूर्विका शिष्टिः शिष्टिपूर्वकम् च शास्त्रम् तत् इतरेतराश्रयम् भवति ।

२० - ३३ - इतरेतराश्रयाणि च न प्रकल्पन्ते ।

२१ - ३३ - एवम् तर्हि निवासतः आचारतः च ।

२२ - ३३ - सः च आचारः आर्यावर्त्ते एव ।

२३ - ३३ - कः पुनः आर्यावर्त्तः ।

२४ - ३३ - प्राक् आदर्शात् [ऋ अदर्शनात्] प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् ।

२५ - ३३ - एतस्मिन् आर्यनिवासे ये ब्राह्मणाः कुम्भीधान्याः अलोलुपाः अगृह्यमाणकारणाः किम् चित् अन्तरेण कस्याः चित् विद्यायाः पारगाः तत्रभवन्तः शिष्टाः ।

२६ - ३३ - यदि तर्हि शिष्टाः शब्देषु प्रमाणम् किम् अष्टाध्याय्या क्रियते ।

२७ - ३३ - शिष्टज्ञानार्था अष्टाध्यायी ।

२८ - ३३ - कथम् पुनः अष्टाध्याय्या शिष्टाः शक्याः विज्ञातुम् ।

२९ - ३३ - अष्टाध्यायीम् अधीयानः अन्यम् पश्यति अनधीयानम् ये अत्र विहिताः शब्दाः तान् प्रयुञ्जानम् ।

३० - ३३ - सः पश्यति ।

३१ - ३३ - नूनम् अस्य दैवानुग्रहः स्वभावः वा यः अयम् न च अष्टाध्यायीम् अधीते ये च अस्यम् विहिताः शब्दाः तान् प्रयुङ्क्ते ।

३२ - ३३ - नूनम् अयम् अन्यान् अपि जानाति ।

३३ - ३३ - एवम् एषा शिष्टज्ञानार्था अष्टाध्यायी ।

१ - २४ - दिक्शब्देभ्यः तीरस्य तारभावः वा ।

२ - २४ - दिक्शब्देभ्यः तीरस्य तारभावः वा वक्तव्यः ।

३ - २४ - दक्षिणतीरम् , दक्षिणतारम् ।

४ - २४ - वाचः वादे डत्वम् वलभावः च उत्तरपदस्य इञि ।

५ - २४ - वाचः वादे डत्वम् वक्तव्यम् वलभावः च उत्तरपदस्य इञि वक्तव्यः ।

६ - २४ - वाग्वादस्य अपत्यम् वाड्वलिः ।

७ - २४ - षषः उत्वम् दतृदशसु उत्तरपदादेः ष्टुत्वम् च ।

८ - २४ - षषः उत्वम् वक्तव्यम् उत्तरपदादेः ष्टुत्वम् च वक्तव्यम् ।

९ - २४ - षोडशन् , षोडश ।

१० - २४ - धासु वा ।

११ - २४ - धासु वा इति वक्तव्यम् उत्तरपदादेः ष्टुत्वम् च वक्तव्यम् ।

१२ - २४ - षोढा षड्ढा कुरु ।

१३ - २४ - अथ किमर्थम् बहुवचननिर्देशः क्रियते न पुनः धायाम् इति एव उच्यते ।

१४ - २४ - नानाधिकरणवाची यः धाशब्दः तस्य ग्रहणम् यथा विज्ञायेत ।

१५ - २४ - इह मा भूत् ।

१६ - २४ - षट् दधाति इति षड्धा इति ।

१७ - २४ - दुरः दाशनाशदभध्येषु ।

१८ - २४ - दुरः दाशनाशदभध्येषु उत्वम् वक्तव्यम् उत्तरपदादेः च ष्टुत्वम् ।

१९ - २४ - दूडाशः , दूणाशः , दूडभः , दूढ्यः ।

२० - २४ - स्वरो रोहतौ छन्दसि ।

२१ - २४ - स्वरो रोहतौ छन्दसि उत्वम् वक्तव्यम् ।

२२ - २४ - एहि त्वम् जाये स्वो रोहाव ।

२३ - २४ - पीवोपवसनादीनाम् छन्दसि लोपः वक्तव्यः ।

२४ - २४ - पीवोपवसनानाम् पयोपवसनानाम् श्रिया इदम् ।

१ - १४ - पूर्वग्रहणम् किमर्थम् न तस्मिन् इति निर्दिष्टे पूर्वस्य इति पूर्वस्य एव भविष्यति ।

२ - १४ - न सिध्यति ।

३ - १४ - न हि ढ्रलोपेन आनन्तर्यम् ।

४ - १४ - इह कस्मात् न भवति करणीयम् , हरणीयम् ।

५ - १४ - न एवम् विज्ञायते ढ्रोः लोपः ढ्रलोपः , ढ्रलोपे इति ।

६ - १४ - कथम् तर्हि ।

७ - १४ - ढ्रोः लोपः अस्मिन् सः अयम् ढ्रलोपः , ढ्रलोपे इति ।

८ - १४ - यदि एवम् न अर्थः पूर्वग्रहणेन ।

९ - १४ - भवति हि ढ्रलोपेन आनन्तर्यम् ।

१० - १४ - इदम् तर्हि प्रयोजनम् ।

११ - १४ - उत्तरपदे इति वर्तते ।

१२ - १४ - तेन आनन्तर्यमात्रे यथा स्यात् ।

१३ - १४ - औदुम्बरिः राजा ।

१४ - १४ - पुनः रूपाणि कल्पयेत् ।

१ - ३० - वर्णग्रहणम् किमर्थम् न सहिवहोः ओत् अस्य इति एव उच्येत ।

२ - ३० - वृद्धौ अपि कृतायाम् यथा स्यात् ।

३ - ३० - उदवोढाम् , उदवोढम् , उदवोढ इति ।

४ - ३० - अथ अवर्णग्रहणम् किमर्थम् ।

५ - ३० - इह मा भूत् ।

६ - ३० - ऊढः , ऊढवान् इति ।

७ - ३० - न एतत् अस्ति प्रयोजनम् ।

८ - ३० - भवतु अत्र ओत्त्वम् ।

९ - ३० - श्रवणम् कस्मात् न भवति ।

१० - ३० - पूर्वत्वम् अस्य भविष्यति ।

११ - ३० - इदम् इह सम्प्रधार्यम् ।

१२ - ३० - ओत्त्वम् क्रियताम् पूर्वत्वम् इति किम् अत्र कर्तव्यम् ।

१३ - ३० - परत्वात् ओत्त्वम् ।

१४ - ३० - अन्तरङ्गम् पूर्वत्वम् ।

१५ - ३० - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

१६ - ३० - ओत्त्वम् क्रियताम् सम्प्रसारणम् इति किम् अत्र कर्तव्यम् ।

१७ - ३० - परत्वात् ओत्त्वम् ।

१८ - ३० - नित्यम् सम्प्रसारणम् ।

१९ - ३० - कृते अपि ओत्त्वे प्राप्नोति अकृते अपि ।

२० - ३० - ओत्त्वम् अपि नित्यम् ।

२१ - ३० - कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि ।

२२ - ३० - अनित्यम् ओत्त्वम् ।

२३ - ३० - न हि कृते सम्प्रसारणे प्राप्नोति ।

२४ - ३० - अन्तरङ्गम् पूर्वत्वम् ।

२५ - ३० - यस्य च लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् ।

२६ - ३० - न च सम्प्रसारणम् एव ओत्त्वस्य निमित्तम् विहन्ति ।

२७ - ३० - अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् ।

२८ - ३० - उभयोः नित्ययोः परत्वात् ओत्त्वम् ।

२९ - ३० - ओत्त्वे कृते सम्प्रसारणम् सम्प्रसारणपूर्वत्वम् ।

३० - ३० - तत्र कार्यकृतत्वात् पुनः ओत्त्वम् न भविष्यति ।

१ - ३ - अपील्वादीनाम् इति वक्तव्यम् ।

२ - ३ - इह मा भूत् ।

३ - ३ - रुचिवहम् , चारुवहम् ।

१ - १३ - अम्नुष्यादिषु इति वक्तव्यम् ।

२ - १३ - इह मा भूत् ।

३ - १३ - प्रसेवः , प्रहारः , प्रसारः ।

४ - १३ - सादकारयोः कृत्रिमे ।

५ - १३ - सादकारयोः कृत्रिमे इति वक्तव्यम् ।

६ - १३ - इह एव यथा स्यात् ।

७ - १३ - प्रासादः , प्राकारः ।

८ - १३ - इह मा भूत् ।

९ - १३ - एषः अस्य प्रसादः ।

१० - १३ - एषः अस्य प्रकारः ।

११ - १३ - प्रतिवेशादीनाम् विभाषा ।

१२ - १३ - प्रतिवेशादीनाम् विभाषा दीर्घत्वम् वक्तव्यम् ।

१३ - १३ - प्रतिवेशः , प्रतीवेशः , प्रतिकारः , प्रतीकारः ।

१ - १६ - कथम् इदम् विज्ञायते ।

२ - १६ - दा इति एतस्मिन् तकारादौ , आहोस्वित् दा इति एतस्मिन् तकारान्ते इति ।

३ - १६ - किम् च अतः ।

४ - १६ - यदि विज्ञायते तकारादौ इति नीत्ता वित्ता , अत्र न प्राप्नोति ।

५ - १६ - अथ विज्ञायते तकारान्ते इति सुदत्तम् प्रतिदत्तम् अत्र अपि प्राप्नोति ।

६ - १६ - यथा इच्छसि तथा अस्तु ।

७ - १६ - अस्तु तावत् तकारादौ इति ।

८ - १६ - कथम् नीत्ता वित्ता ।

९ - १६ - चर्त्वे कृते भविष्यति ।

१० - १६ - असिद्धम् चर्त्वम् ।

११ - १६ - तस्य असिद्धत्वात् न प्राप्नोति ।

१२ - १६ - आश्रयात् सिद्धत्वम् भविष्यति ।

१३ - १६ - अथ वा पुनः अस्तु तकारान्ते इति ।

१४ - १६ - कथम् सुदत्तम् प्रतिदत्तम् ।

१५ - १६ - न एतत् तकारान्तम् ।

१६ - १६ - थकारान्तम् एतत् ।

१ - ४ - इह अन्ये आचार्याः चौ प्रत्यङ्गस्य प्रतिषेधम् आहुः ।

२ - ४ - तत् इह अपि साध्यम् ।

३ - ४ - न एषः दोषः ।

४ - ४ - एतत् एव ज्ञापयति आचार्यः न प्रत्यङ्गम् भवति इति यत् अयम् चौ दीर्घत्वम् शास्ति ।

१ - १२ - इकः ह्रस्वात् सम्प्रसारणदीर्घत्वम् विप्रतिषेधेन ।

२ - १२ - इकः ह्रस्वात् सम्प्रसारणदीर्घत्वम् भवति विप्रतिषेधेन ।

३ - १२ - इकः ह्रस्वस्य अवकाशः ।

४ - १२ - ग्रामणिकुलम् , सेनानिकुलम् ।

५ - १२ - सम्प्रसारणदीर्घत्वस्य अवकाशः ।

६ - १२ - विभाषा ह्रस्वत्वम् ।

७ - १२ - यदा न ह्रस्वत्वम् सः अवकाशः ।

८ - १२ - ह्रस्वप्रसङ्गे उभयम् प्राप्नोति ।

९ - १२ - कारीषगन्धीपुत्रः , कौमुदगन्धीपुत्रः ।

१० - १२ - सम्प्रसारणदीर्घत्वम् भवति विप्रतिषेधेन ।

११ - १२ - अथ इदानीम् दीर्घत्वे कृते पुनःप्रसङ्गविज्ञानात् ह्रस्वत्वम् कस्मात् न भवति ।

१२ - १२ - सकृद्गतौ विप्रतिषेधेन यत् बाधितम् तत् बाधितम् एव इति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP