पाद १ - खण्ड ७५

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - १३ - इतरात् छन्दसि प्रतिषेधः एकतरात् सर्वत्र ।

२ - १३ - इतरात् छन्दसि प्रतिषेधः एकतरात् सर्वत्र इति वक्तव्यम् ।

३ - १३ - एकतरम् तिष्ठति , एकतरम् पश्य ।

४ - १३ - नपुंसकादेशेभ्यः युष्मदस्मदोः विभक्त्यादेशाः विप्रतिषेधेन । नपुंसकादेशेभ्यः युष्मदस्मदोः विभक्त्यादेशाः भवन्ति विप्रतिषेधेन ।

५ - १३ - नपुंसकादेशानाम् अवकाशः ।

६ - १३ - त्रपु , त्रपुणी , त्रपूणि ।

७ - १३ - युष्मदस्मदोः विभक्त्यादेशानाम् अवकाशः ।

८ - १३ - त्वम् ब्राह्मणः , अहम् ब्राह्मणः , युवाम् ब्राह्मणौ , आवाम् ब्राह्मणौ , यूयाम् ब्राह्मणाः वयम् ब्राह्मणाः ।

९ - १३ - इह उभयम् प्राप्नोति ।

१० - १३ - त्वम् ब्राह्मणकुलम् , अहम् ब्राह्मणकुलम् , युवाम् ब्राह्मणकुले , आवाम् ब्राह्मणकुले , यूयम् ब्राह्मणकुलानि , वयम् ब्राह्मणकुलानि ।

११ - १३ - युष्मदस्मदोः विभक्त्यादेशाः भवन्ति विप्रतिषेधेन ।

१२ - १३ - अथ इदानीम् युष्मदस्मदोः विभक्त्यादेशेषु कृतेषु पुनःप्रसङ्गात् शिशीलुग्नुम्विधयः कस्मात् न भवन्ति ।

१३ - १३ - सकृद्गतौ विप्रतिषेधेन यत् बाधितम् तत् बाधितम् एव इति

१ - ३२ - किमर्थः शकारः ।

२ - ३२ - सर्वादेशार्थः ।

३ - ३२ - शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।

४ - ३२ - न एतत् अस्ति प्रयोजनम् ।

५ - ३२ - अक्रियमाणे अपि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य अकारे कृते त्रयाणाम् अकाराणाम् अतः गुणे पररूपत्वे सिद्धम् रूपम् स्यात् तव स्वम् , मम स्वम् ।

६ - ३२ - यदि एतत् लभ्येत कृतम् स्यात् ।

७ - ३२ - तत् तु न लभ्यम् ।

८ - ३२ - किम् कारणम् ।

९ - ३२ - अत्र हि तस्मात् इति उत्तरस्य आदेः परस्य इति अकारस्य प्रसज्येत ।

१० - ३२ - अतः उत्तरम् पठति ।

११ - ३२ - ङसः आदेशे शित्करणानर्थक्यम् अकारस्य अकारवचनानर्थक्यात् ।

१२ - ३२ - ङसः आदेशे शित्करणम् अनर्थकम् ।

१३ - ३२ - किम् कारणम् ।

१४ - ३२ - अकारस्य अकारवचनानर्थक्यात् ।

१५ - ३२ - अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण शकारम् सर्वादेशः भविष्यति ।

१६ - ३२ - अर्थवत्त्वादेशे लोपार्थम् ।

१७ - ३२ - अर्थवत्त्वकारस्य अकारवचनम् ।

१८ - ३२ - कः अर्थः ।

१९ - ३२ - आदेशे लोपार्थम् ।

२० - ३२ - यः सः शेषे लोपः आदेशे सः विज्ञायते ।

२१ - ३२ - ननु च आदेशः या विभक्तिः इति एवम् एतत् विज्ञायते ।

२२ - ३२ - आदेशः एषा विभक्तिः ।

२३ - ३२ - कथम् ।

२४ - ३२ - सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः एकदेशविकारे हि नित्यत्वम् न उपपद्यते ।

२५ - ३२ - तस्मात् शित्करणम् ।

२६ - ३२ - तस्मात् शकारः कर्तव्यः ।

२७ - ३२ - न कर्तव्यः ।

२८ - ३२ - क्रियते न्यासे एव ।

२९ - ३२ - कथम् ।

३० - ३२ - प्रश्लिष्टनिर्देशः अयम् ।

३१ - ३२ - अ , अ , अ , इति ।

३२ - ३२ - सः अनेकाल् शित् सर्वस्य इति सर्वस्य भविष्यति

१ - २० - प्रथमयोः इति उच्यते कयोः इदम् प्रथमयोः ग्रहणम् किम् विभक्त्योः आहोस्वित् प्रत्यययोः ।

२ - २० - विभक्त्योः इति आह ।

३ - २० - कथम् ज्ञायते ।

४ - २० - अन्यत्र अपि हि प्रथमयोः ग्रहणे विभक्त्योः ग्रहणम् विज्ञायते न प्रत्यययोः ।

५ - २० - क्व अन्यत्र ।

६ - २० - प्रथमयोः पूर्वसवर्णः इति ।

७ - २० - अस्ति कारणम् येन तत्र विभक्त्योः ग्रहणम् विज्ञायते ।

८ - २० - किम् कारणम् ।

९ - २० - अचि इति तत्र वर्तते न च अजादी प्रथमौ स्तः ।

१० - २० - ननु च एवम् विज्ञायते अजादी यौ प्रथमौ अजादीनाम् वा यौ प्रथमौ इति ।

११ - २० - यत् तर्हि तस्मात् शसः नः पुंसि इति अनुक्रान्तम् पूर्वसवर्णम् प्रतिनिर्दिशति तज्ज्ञापयति आचार्यः विभक्त्योः ग्रहणम् इति ।

१२ - २० - इह अपि आचार्यप्रवृत्तिः ज्ञापयति विभक्त्योः ग्रहणम् इति यत् अयम् शसः न इति प्रतिषेधम् शास्ति ।

१३ - २० - न एषः प्रतिषेधः ।

१४ - २० - नत्वम् एतत् विधीयते ।

१५ - २० - सिद्धम् अत्र नत्वम् तस्मात् शसः नः पुंसि इति ।

१६ - २० - यत्र तेन न सिध्यति तदर्थम् ।

१७ - २० - क्व च तेन न सिध्यति ।

१८ - २० - स्त्रियाम् नपुंसके च ।

१९ - २० - युष्मान् ब्राह्मणी पश्य , अस्मान् ब्राह्मणी पश्य , युष्मान् ब्राह्मणकुलानि पश्य , अस्मान् ब्राह्मणकुलानि पश्य इति ।

२० - २० - यत् तर्हि युष्मदस्मदोः अनादेशे द्वितीयायाम् च इति आह तत् ज्ञापयति आचार्यः विभक्त्योः ग्रहणम् इति

१ - १४ - किम् अयम् भ्यम्शब्दः आहोस्वित् अभ्यम्शब्दः ।

२ - १४ - कुतः सन्देहः ।

३ - १४ - समानः निर्देशः ।

४ - १४ - किम् च अतः ।

५ - १४ - यदि तावत् भ्यम्शब्दः शेषे लोपः च अन्त्यस्य एत्वम् प्राप्नोति ।

६ - १४ - अथ अभ्यम्शब्दः शेषे लोपः च टिलोपः उदात्त्निवृत्तिस्वरः प्राप्नोति ।

७ - १४ - यथा इच्छसि तथा अस्तु ।

८ - १४ - अस्तु तावत् अभ्यम्शब्दः शेषे लोपः च अन्त्यस्य ।

९ - १४ - ननु च उक्तम् एत्त्वम् प्राप्नोति इति ।

१० - १४ - न एषः दोषः ।

११ - १४ - अङ्गवृत्ते पुनः वृत्तौ अविधिः निष्ठितस्य इति न भविष्यति ।

१२ - १४ - अथ वा पुनः अस्तु अभम्शब्दः शेषे लोपः च टिलोपः ।

१३ - १४ - ननु च उक्तम् उदात्तनिवृत्तिस्वरः प्राप्नोति इति ।

१४ - १४ - न एषः दोषः उक्तम् एतत् आदौ सिद्धम् इति

१ - ५० - किमर्थम् आमः ससकारस्य ग्रहणम् क्रियते न आमः आकम् इति एव उच्येत ।

२ - ५० - केन इदानीम् ससकारस्य भविष्यति ।

३ - ५० - आमः सुट् अयम् भक्तः आम्ग्रहणेन ग्राहिष्यते ।

४ - ५० - अतः उत्तरम् पठति ।

५ - ५० - साम्ग्रहणम् यथागृहीतस्य आदेशवचनात् ।

६ - ५० - साम्ग्रहणम् क्रियते ।

७ - ५० - निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् ससकारस्य न प्राप्नोति ।

८ - ५० - इष्यते च स्यात् इति तत् च अन्तरेण यत्नम् न सिध्यति इति सामः आकम् ।

९ - ५० - एवमर्थम् इदम् उच्यते ।

१० - ५० - न वा द्विपर्यन्तानाम् अकारवचनात् आमि सकाराभावः ।

११ - ५० - न वा एतत् प्रयोजनम् अस्ति ।

१२ - ५० - किम् कारणम् ।

१३ - ५० - द्विपर्यन्तानाम् अकारवचनात् ।

१४ - ५० - द्विपर्यन्तानाम् हि त्यदादीनम् अत्वम् उच्यते तेन आमि सकारः न भविष्यति ।

१५ - ५० - सुट्प्रतिषेधः तु आदेशे लोपविज्ञानात् ।

१६ - ५० - सुट्प्रतिषेधः तु वक्तव्यः ।

१७ - ५० - किम् कारणम् ।

१८ - ५० - आदेशे लोपविज्ञानात् ।

१९ - ५० - यः सः शेषे लोपः आदेशे सः विज्ञायते ।

२० - ५० - न वा टिलोपवचनात् आदेशे टाप्प्रतिषेधार्थम् ।

२१ - ५० - न वा सुट्प्रतिषेधः वक्तव्यः ।

२२ - ५० - किम् कारणम् ।

२३ - ५० - टिलोपवचनात् ।

२४ - ५० - आदेशे यः सः शेषे लोपः टिलोपः सः वक्तव्यः ।

२५ - ५० - किम् प्रयोजनम् ।

२६ - ५० - टाप्प्रतिषेधार्थम् ।

२७ - ५० - टाप् मा भूत् इति ।

२८ - ५० - सः तर्हि टिलोपः वक्तव्यः ।

२९ - ५० - न वा लिङ्गाभावात् टिलोपवचनानर्थक्यम् ।

३० - ५० - न वा वक्तव्यम् ।

३१ - ५० - किम् कारणम् ।

३२ - ५० - लिङ्गाभावात् ।

३३ - ५० - अलिङ्गे युष्मदस्मदी ।

३४ - ५० - किम् वक्तव्यम् एतत् ।

३५ - ५० - न हि ।

३६ - ५० - कथम् अनुच्यमानम् गंस्यते ।

३७ - ५० - न हि अस्ति विशेषः युष्मदस्मदोः स्त्रियाम् पुंसि नपुंसके वा ।

३८ - ५० - अस्ति कारणम् येन एतत् एवम् भवति ।

३९ - ५० - किम् कारणम् ।

४० - ५० - यः असौ विशेषवाची शब्दः तदसान्निध्यात् ।

४१ - ५० - अङ्ग हि भवान् तम् उच्चारयतु गंस्यते सः विशेषः ।

४२ - ५० - ननु च न एतेन एवम् भवितव्यम् ।

४३ - ५० - न हि शब्दनिमित्तकेन नाम अर्थेन भवितव्यम् ।

४४ - ५० - किम् तर्हि अर्थ निमित्तकेन नाम शब्देन भवितव्यम् ।

४५ - ५० - तत् एतत् एवम् दृश्यताम् अर्थरूपम् एव एतत् एवञ्जातीयकम् येन अत्र विशेषः न गम्यते इति ।

४६ - ५० - अवश्यम् च एतत् एवम् विज्ञेयम् ।

४७ - ५० - यः हि मन्यते यः असौ विशेषवाची शब्दः तदसान्निध्यात् अत्र विशेषः न गम्यते इति इह अपि तस्य विशेषः न गम्यते दृषत् समित् इति ।

४८ - ५० - तस्मात् सुट्प्रतिषेधः तस्मात् सुट्प्रतिषेधः वक्तव्यः ससकारग्रहणम् वा कर्तव्यम् ।

४९ - ५० - अथ क्रियमाणे अपि ससकारग्रहणे कस्मात् एव अत्र सुट् न भवति ।

५० - ५० - ससकारग्रहणसामर्थ्यात् भाविनः सुटः आदेशः विज्ञायते

१ - ११ - इह पपौ, तस्थौ इति त्रीणि कार्याणि युगपत् प्राप्नुवन्ति द्विर्वचनम् एकादेशः औत्वम् इति ।

२ - ११ - तत् यदि सर्वतः औत्वम् लभ्येत कृतम् स्यात् ।

३ - ११ - अथ अपि द्विर्वचनम् लभ्येत एवम् अपि कृतम् स्यात् ।

४ - ११ - तत् तु न लभ्यम् ।

५ - ११ - किम् कारणम् ।

६ - ११ - अत्र हि परत्वात् एकादेशः द्विर्वचनम् बाधते ।

७ - ११ - परत्वात् औत्वम् ।

८ - ११ - नित्यः एकादेशः औत्वम् बाधेत ।

९ - ११ - कम् पुनः भवान् औत्वस्य अवकाशम् मत्वा आह नित्यः एकादेशः इति ।

१० - ११ - अनवकाशम् औत्वम् एकादेशम् बाधिष्यते ।

११ - ११ - औत्वे कृते द्विर्वचनम् एकादेशः इति यदि अपि परत्वात् एकादेशः स्थानिवद्भावात् द्विर्वचनम् भविष्यति

१ - १४ - विदेः वसोः कित्त्वम् ।

२ - १४ - विदेः वसोः कित्त्वम् वक्तव्यम् ।

३ - १४ - किम् प्रयोजनम् ।

४ - १४ - वसुग्रहणेषु लिडादेशस्य अपि ग्रहणम् यथा स्यात् ।

५ - १४ - किम् च कारणम् न स्यात् ।

६ - १४ - अननुबन्धकग्रहणे हि सानुबन्धकस्य ग्रहणम् न इति एवम् लिडादेशस्य न प्राप्नोति ।

७ - १४ - सानुबन्धकः हि सः क्रियते ।

८ - १४ - किम् पुनः कारणम् सः सानुबन्धकः क्रियते ।

९ - १४ - अयम् ऋ̄कारान्तानाम् लिटि गुङः प्रतिषेधविषयः आरभ्यते सः पुनः कित्करणात् बाध्यते ।

१० - १४ - आतिस्तीर्वान् , निपुपूर्वान् इति ।

११ - १४ - सः तर्हि अस्य एवमर्थः अनुबन्धः कर्तव्यः ।

१२ - १४ - न कर्तव्यः ।

१३ - १४ - क्रियते न्यासे एव ।

१४ - १४ - द्विसकारकः निर्देशः विदेः शतुर्वसुस्समासे अनञ्पूर्वे क्त्वः ल्यप् ।

१ - ८१ - ल्यबादेशे उपदेशिवद्वचनम् ।

२ - ८१ - ल्यबादेशे उपदेशिवद्भावः वक्तव्यः ।

३ - ८१ - उपदेशावस्थायाम् ल्यप् भवति इति वक्तव्यम् ।

४ - ८१ - किम् प्रयोजनम् ।

५ - ८१ - अनादिष्टार्थम् ।

६ - ८१ - अकृतेषु आदेशेषु ल्यप् यथा स्यात् ।

७ - ८१ - के पुनः आदेशाः उपदेशिवद्वचनम् प्रयोजयन्ति ।

८ - ८१ - हित्वदत्त्वात्त्वेत्वेत्त्वदीर्घत्वशूडितः ।

९ - ८१ - हित्वम् ।

१० - ८१ - हित्वा , प्रधाय ।

११ - ८१ - हित्वम् ।

१२ - ८१ - दत्त्वम् ।

१३ - ८१ - दत्त्वा , प्रदाय ।

१४ - ८१ - दत्त्वम् ।

१५ - ८१ - आत्त्वम् ।

१६ - ८१ - खात्वा , प्रखन्य ।

१७ - ८१ - आत्त्वम् ।

१८ - ८१ - इत्वम् ।

१९ - ८१ - स्थित्वा , प्रस्थाय ।

२० - ८१ - इत्वम् ।

२१ - ८१ - ईत्त्वम् ।

२२ - ८१ - पीत्वा , प्रपाय ।

२३ - ८१ - ईत्त्वम् ।

२४ - ८१ - दीर्घत्वम् ।

२५ - ८१ - शान्त्वा , प्रशम्य ।

२६ - ८१ - दीर्घत्वम् ।

२७ - ८१ - शत्वम् ।

२८ - ८१ - पृष्ट्वा , आपृच्छ्य ।

२९ - ८१ - शत्वम् ।

३० - ८१ - ऊठ् ।

३१ - ८१ - द्यूत्वा , प्रदीव्य ।

३२ - ८१ - ऊठ् ।

३३ - ८१ - इट् ।

३४ - ८१ - देवित्वा , प्रदीव्य ।

३५ - ८१ - किम् पुनः कारणम् आदेशाः तावत् भवन्ति न पुनः ल्यप् ।

३६ - ८१ - न परत्वात् ल्यपा भवितव्यम् ।

३७ - ८१ - सन्ति च एव अत्र के चित् परे आदेशाः अपि च बहिरङ्गलक्षणत्वात् ।

३८ - ८१ - बहिरङ्गः ल्यप् ।

३९ - ८१ - अन्तरङ्गाः आदेशाः ।

४० - ८१ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

४१ - ८१ - सः तर्हि उपदेशिवद्भावः वक्तव्यः ।

४२ - ८१ - न वक्तव्यः ।

४३ - ८१ - आचार्यप्रवृत्तिः ज्ञापयति अन्तरङ्गान् अपि विधीन् बहिरङ्गः ल्यप् बाधते इति यत् अयम् अदः जग्धिः ल्यप्ति किति इति ति किति इति एव सिद्धे ल्यब्ग्रहणम् करोति ।

४४ - ८१ - स्नात्वाकालकादिषु च प्रतिषेधः स्नात्वाकालकादिषु च प्रतिषेधः वक्तव्यः ।

४५ - ८१ - स्नात्वाकालकः , पीत्वास्थिरकः , भुक्त्वासुहितकः इति ।

४६ - ८१ - तदन्तनिर्देशात् सिद्धम् ।

४७ - ८१ - तदन्तनिर्देशात् सिद्धम् एतत् ।

४८ - ८१ - कथम् ।

४९ - ८१ - क्त्वान्तस्य ल्यपा भवितव्यम् न च एतत् क्त्वान्तम् ।

५० - ८१ - समासनिपातनात् वा ।

५१ - ८१ - अथ वा अवश्यम् अत्र समासार्थम् निपातनम् कर्तव्यम् तेन एव यत्नेन ल्यप् अपि न भविष्यति ।

५२ - ८१ - अनञः वा परस्य ।

५३ - ८१ - अथ वा अनञः परस्य ल्यपा भवितव्यम् न च अत्र अनञम् पश्यामः ।

५४ - ८१ - ननु च धातुः एव अनञ् ।

५५ - ८१ - न धातोः परस्य भवितव्यम् ।

५६ - ८१ - किम् कारणम् ।

५७ - ८१ - नञिवयुक्तम् अन्यसदृशाधिकरणे तथा हि अर्थगतिः ।

५८ - ८१ - नञ्युक्तम् इव युक्तम् वा अन्यस्मिन् तत्सदृशे कार्यम् विज्ञास्यते ।

५९ - ८१ - कुतः एतत् ।

६० - ८१ - तथा हि अर्थः गम्यते ।

६१ - ८१ - तत् यथा ।

६२ - ८१ - अब्राह्मणम् आनय इति उक्ते ग्राह्मणसदृशम् पुरुषम् आनयति न असौ लोष्टम् आनीय कृती भवति ।

६३ - ८१ - एवम् इह अपि अनञ् इति नञ्प्रतिषेधात् अन्यस्मात् अनञौ नञ्सदृशात् कार्यम् विज्ञास्यते ।

६४ - ८१ - किम् च अन्यत् अनञ् नञ्सदृशम् ।

६५ - ८१ - पदम् इति आह ।

६६ - ८१ - अथ वा प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति एवम् धातुः अपि क्त्वाग्रहणेन ग्राहिष्यते ।

६७ - ८१ - ननु च इयम् अपि परिभाषा अस्ति कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति सा अपि इह उपतिष्ठते ।

६८ - ८१ - तत्र कः दोषः ।

६९ - ८१ - इह न स्यात् प्रकृत्य प्रहृत्य ।

७० - ८१ - क्व तर्हि स्यात् ।

७१ - ८१ - परमकृत्वा , उत्तमकृत्वा ।

७२ - ८१ - न वै अत्र इष्यते ।

७३ - ८१ - अनिष्टम् च प्राप्नोति इष्टम् च न सिध्यति ।

७४ - ८१ - गतिकारकपूर्वस्य एव इष्यते ।

७५ - ८१ - कुतः न खलु एतत् द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति कृद्ग्रहणे गतिकारकपूर्वस्य इति च इयम् इह परिभाषा भवति प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति इयम् न भवति कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति ।

७६ - ८१ - आचार्यप्रवृत्तिः ज्ञापयति इयम् इह परिभाषा भवति प्रत्ययग्रहणे इति इयम् न भवति कृद्ग्रहणे इति यत् अयम् अनञ् इति प्रतिषेधम् शास्ति ।

७७ - ८१ - कथम् कृत्वा ज्ञापकम् ।

७८ - ८१ - अयम् हि नञ् न गतिः न च कारकम् तत्र कः प्रसङ्गः यत् नञ्पूर्वस्य स्यात् ।

७९ - ८१ - पश्यति तु आचार्यः इयम् इह परिभाषा भवति प्रत्ययग्रहणे इति इयम् न भवति कृद्ग्रहणे इति ततः अनञ् इति प्रतिषेधम् शास्ति ।

८० - ८१ - किम् नञः प्रतिषेधेन न गतिः न च कारकम् यावता नञि पूर्वे तु ल्यब्भावः न भविष्यति ।

८१ - ८१ - प्रतिषेधात् तु जानीमः तत्पूर्वम् न इह गृह्यते प्रत्यय्ग्रहणे यावत् तावत् भवितुम् अर्हति

१ - ३६ - सुपाम् च सुपः भवन्ति इति वक्तव्यम् ।

२ - ३६ - युक्ता माता आसीत् भुरि दक्षिणायाः दक्षिणायाम् इति प्राप्ते ।

३ - ३६ - तिङाम् च तिङः भवन्ति इति वक्तव्यम् ।

४ - ३६ - चषालम् ये , अश्वयूपाय तक्षति तक्षन्ति इति प्राप्ते ।

५ - ३६ - लुकि किम् उदाहरणम् ।

६ - ३६ - आर्द्रे चर्मन् , लोहिते चर्मन् ।

७ - ३६ - न एतत् अस्ति ।

८ - ३६ - पूर्वसवर्णेन अपि एतत् सिद्धम् ।

९ - ३६ - इदम् तर्हि ।

१० - ३६ - यत् स्थवीयसः आवसन् उत सप्त साकम् ।

११ - ३६ - ननु च एतत् अपि पूर्वसवर्णेन एव सिद्धम् ।

१२ - ३६ - न सिध्यति ।

१३ - ३६ - यदि अत्र पूर्वसवर्णः स्यात् त्यदाद्यत्वम् प्रसज्येत ।

१४ - ३६ - इदम् च अपि उदाहरणम् ।

१५ - ३६ - आर्द्रे चर्मन् , लोहिते चर्मन् ।

१६ - ३६ - ननु च उक्तम् पूर्वसवर्णेन अपि एतत् सिद्धम् इति ।

१७ - ३६ - न सिध्यति ।

१८ - ३६ - यदि अत्र पूर्वसवर्णः स्यात् आन्तर्यतः दकारः प्रसज्येत ।

१९ - ३६ - अस्तु ।

२० - ३६ - संयोगान्तलोपेन सिद्धम् ।

२१ - ३६ - इयाडियाजीकाराणाम् उपसङ्ख्यानम् ।

२२ - ३६ - इयाडियाजीकाराणाम् उपसङ्ख्यानम् कर्तव्यम् ।

२३ - ३६ - दार्विया परिज्मन् ।

२४ - ३६ - इया ।

२५ - ३६ - डियाच् ।

२६ - ३६ - सुक्षेत्रिया , सुगातुया ।

२७ - ३६ - डियाच् ।

२८ - ३६ - ईकार ।

२९ - ३६ - दृतिम् न शुष्कम् सरसी शयानम् ।

३० - ३६ - आङयाजयाराम् च उपसङ्ख्यानम् कर्तव्यम् ।

३१ - ३६ - आङ् , प्र बाहवा ।

३२ - ३६ - अयाच् ।

३३ - ३६ - स्वप्नया सचसे जनम् ।

३४ - ३६ - अयाच् ।

३५ - ३६ - अयार् ।

३६ - ३६ - सः नः सिन्धुम् इव नावया

१ - २ - किमर्थः शकारः ।

२ - २ - शित् सर्वस्य इति

१ - २७ - इह ये पूर्वासः , ये उपरासः आत् जसेः असुक् इति असुकि कृते जसः ग्रहणेन ग्रहणात् शीभावः प्राप्नोति ।

२ - २७ - एवम् तर्हि जसि पूर्वान्तः करिष्यते ।

३ - २७ - यदि पूर्वान्तः क्रियते का रूपसिद्धिः ब्राह्मणासः पितरः सोम्यासः ।

४ - २७ - सवर्णदीघत्वेन सिद्धम् ।

५ - २७ - न सिध्यति ।

६ - २७ - अतः गुणे इति पररूपत्वम् प्राप्नोति ।

७ - २७ - अकारोच्चारणसामर्थ्यात् न भविष्यति ।

८ - २७ - यदि तर्हि प्राप्नुवन् विधिः उच्चारणसामर्थ्यात् बाध्यते सवर्णदीर्घत्वम् अपि न प्राप्नोति ।

९ - २७ - न एषः दोषः ।

१० - २७ - यम् विधिम् प्रति उपदेशः अनर्थकः सः विधिः बाध्यते यस्य तु विधेः निमित्तम् न असौ बाध्यते ।

११ - २७ - पररूपम् च प्रति अकारोच्चारणम् अनर्थकम् सवर्णदीर्घत्वस्य पुनः निमित्तम् एव ।

१२ - २७ - अथ वा असुट् करिष्यते ।

१३ - २७ - एवम् अपि ये पूर्वासः ये उपरासः इति असुटि कृते जसः ग्रहणेन ग्रहणात् शीभावः प्राप्नोति ।

१४ - २७ - न एषः दोषः ।

१५ - २७ - निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् अस्य न भविष्यति ।

१६ - २७ - यः तर्हि निर्दिश्यते तस्य कस्मात् न भवति ।

१७ - २७ - असुटा व्यवहितत्वात् ।

१८ - २७ - सिध्यति ।

१९ - २७ - सूत्रम् तर्हि भिद्यते ।

२० - २७ - यथान्यासम् एव अस्तु ।

२१ - २७ - ननु च उक्तम् ये पूर्वासः ये उपरासः असुकि कृते जसः ग्रहणेन ग्रहणात् शीभावः प्राप्नोति इति ।

२२ - २७ - न एषः दोषः ।

२३ - २७ - इदम् इह सम्प्रधार्यम् ।

२४ - २७ - शीभावः क्रियताम् असुक् इति किम् अत्र कर्तव्यम् ।

२५ - २७ - परत्वात् असुक् ।

२६ - २७ - अथ इदानीम् असुकि कृते पुनः प्रसङ्गविज्ञानात् शीभावः कस्मात् न भवति ।

२७ - २७ - सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।

१ - १० - अश्ववृषयोः मैथुनेच्छायाम् ।

२ - १० - अश्ववृषयोः मैथुनेच्छायाम् इति वक्तव्यम् ।

३ - १० - अश्वस्यति वडवा , वृषस्यति गौः ।

४ - १० - मैथुनेच्छायाम् इति किमर्थम् ।

५ - १० - अश्वीयति , वृषीयति ।

६ - १० - क्षीरलवणयोः लालसायाम् ।

७ - १० - क्षीर्लवणयोः लालसायाम् इति वक्तव्यम् ।

८ - १० - क्षीरस्यति माणवकः , लवणस्यति उष्ट्रः इति ।

९ - १० - अपरः आह सर्वप्रातिपदिकेभ्यः लालसायाम् इति वक्तव्यम् दध्यस्यति मध्वस्यति इति एवमर्थम् ।

१० - १० - अपरः आहसुक् वक्तव्यः दधिस्यति मदुस्यति इति एवमर्थम्

१ - ६८ - इमे बहवः आम्शब्दाः कास्प्रत्ययात् आम् अमन्त्रे लिटि ।

२ - ६८ - ङसोसाम् ।

३ - ६८ - किमेत्तिङव्ययघात् आमु अद्रव्यप्रकर्षे ।

४ - ६८ - ङेः आम् नद्याम्नीभ्यः इति ।

५ - ६८ - कस्य इदम् ग्रहणम् ।

६ - ६८ - षष्ठीबहुवचनस्य ग्रहणम् ।

७ - ६८ - अथ अस्य कस्मात् न भवति कास्प्रत्ययात् आम् अमन्त्रे लिटि इति ।

८ - ६८ - अननुबन्धकग्रहणे हि न सानुबन्धकस्य इति ।

९ - ६८ - सः तर्हि अस्य एवमर्थः अनुबन्धः कर्तव्यः इह अस्य ग्रहणम् मा भूत् इति ।

१० - ६८ - ननु च अवश्यम् मकारस्य इत्सञ्ज्ञापरित्राणार्थः अनुबन्धः कर्तव्यः ।

११ - ६८ - न अर्थः इत्सञ्ज्ञापरित्राणार्थेन ।

१२ - ६८ - इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति ।

१३ - ६८ - इदम् अस्ति इत्कार्यम् मित् अचः अन्त्यात् परः इति अचाम् अन्त्यात् परः यथा स्यात् ।

१४ - ६८ - प्रत्ययान्तात् अयम् विधीयते तत्र न अस्ति विशेषः मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा ।

१५ - ६८ - यः तर्हि न प्रत्ययान्तात् इजादेशः च गुरुमतः अनृच्छः इति ।

१६ - ६८ - अत्र अपि आस्कासोः आम्वचनम् ज्ञापकम् न अयम् अचाम् अन्त्यात् परः भवति इति ।

१७ - ६८ - कथम् कृत्वा ज्ञापकम् ।

१८ - ६८ - न हि अस्ति विशेषः आमि अचाम् अन्त्यात् परे सति असति वा ।

१९ - ६८ - अयम् अस्ति विशेषः ।

२० - ६८ - असति आमि द्विर्वचनेन भवितव्यम् सति न भवितव्यम् ।

२१ - ६८ - सति अपि भवितव्यम् ।

२२ - ६८ - कथम् ।

२३ - ६८ - आमः तन्मध्यपतितत्वात् धातुग्रहणेन ग्रहणात् ।

२४ - ६८ - तत् एतत् कासासोः आम्वचनम् ज्ञापकम् एव न अयम् अचाम् अन्त्यात् परः भवति इति ।

२५ - ६८ - अथ अपि कथम् चित् कार्यम् स्यात् एवम् अपि न दोषः ।

२६ - ६८ - क्रियते न्यासे एव ।

२७ - ६८ - आमः अमन्त्रे इति ।

२८ - ६८ - यदि एवम् आमा अन्त्रे इति प्राप्नोति ।

२९ - ६८ - शकन्धुन्यायेन निर्देशः ।

३० - ६८ - अथ वा अस्तु अस्य ग्रहणम् कः दोषः ।

३१ - ६८ - इह कारयाञ्चकार , हरयाञ्चकार , चिकीर्षाञ्चकार , जिहीर्षाञ्चकार , ह्रस्वन्द्यापः नुट् इति नुट् प्रसज्येत ।

३२ - ६८ - लोपायादेशयोः कृतयोः न भविष्यति ।

३३ - ६८ - इदम् इह सम्प्रधार्यम् ।

३४ - ६८ - लोपायादेशौ क्रियेताम् नुट् इति किम् अत्र कर्तव्यम् ।

३५ - ६८ - परत्वात् नुट् ।

३६ - ६८ - नित्यौ लोपायादेशौ ।

३७ - ६८ - कृते अपि नुटि प्राप्नुतः अकृते अपि ।

३८ - ६८ - तत्र नित्यत्वात् लोपायादेशयोः कृतयोः विहतनिमित्तत्वात् नुट् न भविष्यति ।

३९ - ६८ - अथ अस्य कस्मात् न भवति किमेत्तिङव्ययघात् आमु अद्रव्यप्रकर्षे इति ।

४० - ६८ - अननुबन्धकग्रहणे हि न सानुबन्धकस्य इति ।

४१ - ६८ - सः तर्हि एवमर्थः अनुबन्धः कर्तव्यः ।

४२ - ६८ - ननु च अवश्यम् उगित्कार्यार्थः अनुबन्धः कर्तव्यः ।

४३ - ६८ - न अर्थः उगित्कार्यार्थेन अनुबन्धेन ।

४४ - ६८ - लिङ्गविभक्तिप्रकरणे सर्वम् उगित्कार्यम् न च आमः लिङ्गविभक्ती स्तः ।

४५ - ६८ - अव्ययम् एषः ।

४६ - ६८ - मकारस्य तर्हि इत्सञ्ज्ञापरित्राणार्थः अनुबन्धः कर्तव्यः ।

४७ - ६८ - इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति ।

४८ - ६८ - इदम् अस्ति इत्कार्यम् मित् अचः अन्त्यात् परः इति अचाम् अन्त्यात् परः यथा स्यात् ।

४९ - ६८ - न एतत् अस्ति ।

५० - ६८ - घान्तात् अयम् विधीयते तत्र न अस्ति विशेषः मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा परत्वे ।

५१ - ६८ - अथ अपि कथम् चित् इत्कार्यम् स्यात् एवम् अपि न दोषः ।

५२ - ६८ - क्रियते न्यासे एव ।

५३ - ६८ - अथ वा अस्तु अस्य ग्रहणम् कः दोषः ।

५४ - ६८ - इह पचतितराम् , जल्पतितराम् , ह्रस्वनद्यापः नुट् इति नुट् प्रसज्येत ।

५५ - ६८ - लोपे कृते न भविष्यति ।

५६ - ६८ - इदम् इह सम्प्रधार्यम् ।

५७ - ६८ - लोपः क्रियताम् नुट् इति किम् अत्र कर्तव्यम् ।

५८ - ६८ - परत्वात् नुट् ।

५९ - ६८ - एवम् तर्हि ह्रस्वनद्यापः नुट् इति अत्र यस्य इति लोपः अनुवर्तिष्यते ।

६० - ६८ - अथ अस्य कस्मात् न भवति ङेः आम् नद्याम्नीभ्यः इति ।

६१ - ६८ - किम् च स्यात् ।

६२ - ६८ - कुमार्याम् , किशोर्याम् , खट्वायाम् , मालायाम् , तस्याम् , यस्याम् इति ह्रस्वनद्यापः नुट् इति नुट् प्रसज्येत ।

६३ - ६८ - आड्याट्स्याटः अत्र बाधकाः भविष्यन्ति ।

६४ - ६८ - इदम् इह सम्प्रधार्यम् ।

६५ - ६८ - आड्याट्स्याटः क्रियन्ताम् नुट् इति किम् अत्र कर्तव्यम् ।

६६ - ६८ - परत्वात् आड्याट्स्याटः ।

६७ - ६८ - अथ इदानीम् आड्याट्स्याट्सु कृतेषु पुनःप्रसङ्गात् नुट् कस्मात् न भवति ।

६८ - ६८ - सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।

१ - ४ - अयम् योगः शक्यः अवक्तुम् ।

२ - ४ - कथम् श्रीणाम् उदारः धरुणः रयीणाम् , अपि तत्र सूतग्रामणीनाम् ।

३ - ४ - इह तावत् श्रीणाम् उदारः धरुणः रयीणाम् विभाषा आमि नदीसञ्ज्ञा सा छन्दसि व्यवस्थितविभाषा भविष्यति ।

४ - ४ - अपि तत्र सूतग्रामणीनाम् इति सूताः च ग्रामण्यः च सूतग्रामणि तत्र ह्रस्वनद्यापः नुट् इति एव सिद्धम्

१ - २३ - अथ धातोः इति किमर्थम् ।

२ - २३ - अभैत्सीत् , अच्छैत्सीत् ।

३ - २३ - नुम्विधौ उपदेशिवद्वचनम् प्रत्ययविध्यर्थम् ।

४ - २३ - नुम्विधौ उपदेशिवद्भावः वक्तव्यः ।

५ - २३ - उपदेशावस्थायाम् नुम् भवति इति वक्तव्यम् ।

६ - २३ - किम् प्रयोजनम् ।

७ - २३ - प्रत्ययविध्यर्थम् ।

८ - २३ - उपदेशावस्थायाम् नुमि कृते इष्टः प्रत्ययविधिः यथा स्यात् ।

९ - २३ - कुण्डा , हुण्डा इति ।

१० - २३ - इतरथा हि अनकारे प्रत्ययः ।

११ - २३ - अक्रियमाणे हि उपदेशिवद्भावे अनकारे यः प्रत्ययः प्राप्नोति सः तावत् स्यात् तस्मिन् अवस्थिते नुम् ।

१२ - २३ - तत्र कः दोषः ।

१३ - २३ - तत्र अयथेष्टप्रसङ्गः ।

१४ - २३ - तत्र अयथेष्टम् प्रसज्येत ।

१५ - २३ - अनिष्टे प्रत्यये अवस्थिते नुम् ।

१६ - २३ - अनिष्टस्य प्रत्ययस्य श्रवणम् प्रसज्येत ।

१७ - २३ - धातुग्रहणसामर्थ्यात् वा तदुपदेशे नुम्विधानम् धातुग्रहणसामर्थ्यात् वा तदुपदेशे धातूपदेशे नुम् भविष्यति ।

१८ - २३ - ननु च अन्यत् धातुग्रहणस्य प्रयोजनम् उक्तम् ।

१९ - २३ - किम् ।

२० - २३ - अभैत्सीत् , अच्छैत्सीत् इति ।

२१ - २३ - न एतत् अस्ति प्रयोजनम् ।

२२ - २३ - प्रयोजनम् नाम तत् वक्तव्यम् यत् नियोगतः स्यात् ।

२३ - २३ - यत् च अत्र इकारेण क्रियते अकारेण अपि तत् शक्यम् कर्तुम्

१ - १७ - शे तृम्पादीनाम् ।

२ - १७ - शे तृम्पादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

३ - १७ - तृम्पति , तृम्फति ।

४ - १७ - किमर्थम् इदम् ।

५ - १७ - न नुमनुषक्ताः एव एते पठ्यन्ते ।

६ - १७ - लुप्तनकारत्वात् ।

७ - १७ - लुप्यते अत्र नकारः अनिदिताम् हलः उपधायाः क्ङिति इति ।

८ - १७ - यदि पुनः इमे इदितः पठ्येरन् ।

९ - १७ - न एवम् शक्यम् ।

१० - १७ - इह हि लोपः न स्यात् ।

११ - १७ - तृपितः , दृपितः इति ।

१२ - १७ - यदि पुनः इमे मुचादिषु पठ्येरन् ।

१३ - १७ - न दोषः स्यात् ।

१४ - १७ - अथ वा न एवम् विज्ञायते इदितः नुम् धातोः इति ।

१५ - १७ - कथम् तर्हि ।

१६ - १७ - इदितः नुम् ।

१७ - १७ - ततः धातोः इति

१ - ७ - इमौ द्वौ प्रतिषेधौ उच्येते ।

२ - ७ - उभौ शक्यौ अवक्तुम् ।

३ - ७ - कथम् ।

४ - ७ - एवम् वक्ष्यामि ।

५ - ७ - इटि लिटि रधेः नुम् भवति इति ।

६ - ७ - तन्नियमार्थम् भविष्यति ।

७ - ७ - लिटि एव इडादौ न अन्यस्मिन् इडादौ इति

१ - ९ - इह कस्मात् न भवति आलभ्यते ।

२ - ९ - अस्तु ।

३ - ९ - अनिदिताम् हलः उपधायाः क्ङिति इति लोपः भविष्यति ।

४ - ९ - इह तर्हि आलम्भ्या गौः पोः अदुपधात् इति यति अवस्थिते नुम् ।

५ - ९ - तत्र कः दोषः ।

६ - ९ - आलम्भ्या* एषः स्वरः प्रसज्येत ।

७ - ९ - आलम्भ्या* इति च इष्यते ।

८ - ९ - न एषः दोषः ।

९ - ९ - उक्तम् एतत् धातुग्रहणसामर्थ्यात् उपदेशे नुम्विधानम् इति

१ - २१ - अथ केवलग्रहणम् किमर्थम् न न सुदुर्भ्याम् इति एव उच्येत ।

२ - २१ - सुदुरोः केवलग्रहणम् अन्योपसर्गप्रतिषेधार्थम् ।

३ - २१ - सुदुरोः केवलग्रहणम् क्रियते अन्योपसृष्टात् मा भूत् इति ।

४ - २१ - प्रसुलम्भम् ।

५ - २१ - न एषः अस्ति प्रयोगः ।

६ - २१ - इदम् तर्हि ।

७ - २१ - सुप्रलम्भम् ।

८ - २१ - प्रेण व्यवहितत्वात् न भविष्यति ।

९ - २१ - इदम् तर्हि ।

१० - २१ - अतिसुलम्भम् ।

११ - २१ - कर्मप्रवचनीयसञ्ज्ञा अत्र बाधिका भविष्यति सुः पूजायाम् अतिः अतिक्रमणे च इति ।

१२ - २१ - यदा तर्हि न अतिक्रमणम् न पूजा ।

१३ - २१ - इदम् च अपि उदाहरणम् ।

१४ - २१ - सुप्रलम्भम् ।

१५ - २१ - ननु च उक्तम् प्रेण व्यवहितत्वात् न भविष्यति इति ।

१६ - २१ - न एषः दोषः ।

१७ - २१ - सुदुर्भ्याम् इति न एषा पञ्चमी ।

१८ - २१ - का तर्हि ।

१९ - २१ - तृतीया ।

२० - २१ - सुदुर्भ्याम् उपसृष्टस्य इति ।

२१ - २१ - व्यवहितः च अपि उपसृष्टः भवति

१ - ८ - चिण्णमुलोः अनुपसर्गस्य ।

२ - ८ - चिण्णमुलोः अनुपसर्गस्य इति वक्तव्यम् ।

३ - ८ - इह मा भूत् ।

४ - ८ - प्रालम्भि ।

५ - ८ - प्रलम्भम् प्रलम्भम् ।

६ - ८ - तत् तर्हि वक्तव्यम् ।

७ - ८ - न वक्तव्यम् ।

८ - ८ - इह उपसर्गात् इति अपि प्रकृतम् न इति अपि तत्र अभिसम्बन्धमात्रम् कर्तव्यम् विभाषा चिण्णमुलोः उपसर्गात् न इति

१ - १० - अधातोः इति किमर्थम् ।

२ - १० - उखास्रत् , पर्णध्वत् ।

३ - १० - अधातोः इति शक्यम् अवक्तुम् ।

४ - १० - कस्मात् न भवति खास्रत् , पर्णध्वत् इति ।

५ - १० - उगिति अञ्चतिग्रहणात् सिद्धम् अधातोः ।

६ - १० - उगिति अञ्चतिग्रहणात् अधातोः सिद्धम् ।

७ - १० - अञ्चतिग्रहणम् नियमार्थम् भविष्यति ।

८ - १० - अञ्चतेः एव उगितः धातोः न अन्यस्य उगितः धातोः इति ।

९ - १० - इदम् तर्हि प्रयोजनम् अधातुभूतपूर्वस्य अपि यथा स्यात् ।

१० - १० - गोमन्तम् इच्छति गोमत्यति गोमत्यतेः अप्रत्ययः गोमान् इति

१ - ७९ - झलचः नुम्विधौ उगित्प्रतिषेधः ।

२ - ७९ - झलचः नुम्विधौ उगिल्लक्षणस्य प्रतिषेधः वक्तव्यः ।

३ - ७९ - गोमन्ति ब्राह्मणकुलानि , श्रेयांसि , भूयांसि ।

४ - ७९ - ननु च झल्लक्षणः उगिल्लक्षणम् बाधिष्यते ।

५ - ७९ - कथम् अन्यस्य उच्यमानम् अन्यस्य बाधकम् स्यात् ।

६ - ७९ - असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् ।

७ - ७९ - किम् च स्यात् यदि अत्र उगिल्लक्षणः अपि स्यात् ।

८ - ७९ - द्वयोः नकारयोः श्रवणम् प्रसज्येत ।

९ - ७९ - न व्यञ्जनपरस्य एकस्य वा अनेअकस्य वा श्रवणम् प्रति विशेषः अस्ति ।

१० - ७९ - ननु च प्रतिज्ञाभेदः भवति ।

११ - ७९ - श्रुतिभेदे अस्ति किम् प्रतिज्ञाभेदः करिष्यति ।

१२ - ७९ - ननु च श्रुतिकृतः अपि भेदः अस्ति ।

१३ - ७९ - इह तावत् श्रेयांसि , भूयांसि इति परस्य अनुस्वारे कृते पूर्वस्य श्रवणम् प्राप्नोति ।

१४ - ७९ - तथा कुर्वन्ति , कृषन्ति इति परस्य अनुस्वारपरसवर्णयोः कृतयोः पूर्वस्य णत्वम् प्राप्नोति ।

१५ - ७९ - अथ एकस्मिन् अपि नुमि णत्वम् कस्मात् न भवति ।

१६ - ७९ - अनुस्वारीभूतः णत्वम् अतिक्रामति ।

१७ - ७९ - कृते तर्हि परसवर्णे कस्मात् न भवति ।

१८ - ७९ - असिद्धे च परसवर्णः ।

१९ - ७९ - विप्रतिषेधात् सिद्धम् ।

२० - ७९ - विप्रतिषेधात् सिद्धम् एतत् ।

२१ - ७९ - झल्लक्षणः क्रियताम् उगिल्लक्षणः इति झल्लक्षणः भविष्यति विप्रतिषेधेन ।

२२ - ७९ - झल्लक्षणस्य अवकाशः ।

२३ - ७९ - सर्पींषि , धनूंषि ।

२४ - ७९ - उगिल्लक्षणस्य अवकाशः ।

२५ - ७९ - गोमान् , यवमान् ।

२६ - ७९ - इह उभयम् प्राप्नोति ।

२७ - ७९ - गोमन्ति ब्राह्मणकुलानि , यवमन्ति ब्राह्मणकुलानि , श्रेयांसि , भूयांसि इति ।

२८ - ७९ - झल्लक्षणः भविष्यति विप्रतिषेधेन ।

२९ - ७९ - ननु च पुनःप्रसङ्गविज्ञानात् उगिल्लक्षणः प्राप्नोति ।

३० - ७९ - पुनःप्रसङ्गः इति चेत् अमादिभिः तुल्यम् ।

३१ - ७९ - पुनः प्रसङ्गः इति चेत् अमादिभिः तुल्यम् एतत् भवति ।

३२ - ७९ - तत् यथा ।

३३ - ७९ - युष्मदस्मदोः अमादिषु कृतेषु पुनःप्रसङ्गात् शशीलुग्नुमः न भवन्ति ।

३४ - ७९ - एवम् झल्लक्षणे कृते पुनःप्रसङ्गात् उगिल्लक्षणः न भविष्यति ।

३५ - ७९ - यत् अपि उच्यते असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् इति सति अपि सम्भवे बाधनम् भवति ।

३६ - ७९ - तत् यथा ।

३७ - ७९ - दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति ।

३८ - ७९ - एवम् इह अपि सति अपि सम्भवे झल्लक्षणः उगिल्लक्षणम् बाधिष्यते ।

३९ - ७९ - अथ वा अस्तु अत्र उगिल्लक्षणः अपि ।

४० - ७९ - ननु च उक्तम् च्वयोः नकारयोः श्रवणम् प्रसज्येत इति ।

४१ - ७९ - परिहृतम् एतत् न व्यञ्जनपरस्य एकस्य वा अनेकस्य वा श्रवणम् प्रति विशेषः अस्ति ।

४२ - ७९ - ननु च उक्तम् प्रतिज्ञाभेदः भवति इति ।

४३ - ७९ - श्रुतिभेदे असति प्रतिज्ञाभेदः किम् करिष्यति ।

४४ - ७९ - ननु च श्रुतिकृतः अपि भेदः उक्तः इह तावत् श्रेयांसि , भूयांसि इति परस्य अनुस्वारे कृते पूर्वस्य श्रवणम् प्रसज्येत कुर्वन्ति , कृषन्ति इति परस्य अनुस्वारपरसवर्णयोः कृतयोः पूर्वस्य णत्वम् प्राप्नोति इति ।

४५ - ७९ - न एषः दोषः ।

४६ - ७९ - अयोगवाहानाम् अविशेषेण उपदेशः चोदितः ।

४७ - ७९ - तत्र इह तावत् श्रेयांसि , भूयांसि इति परस्य अनुस्वारे कृते तस्य झल्ग्रहणेन ग्रहणात् पूर्वस्य अनुस्वारः भविष्यति कुर्वन्ति , कृषन्ति इति परस्य अनुस्वारपरसवर्णयोः कृतयोः तस्य झल्ग्रहणेन ग्रहणात् पूर्वस्य अनुस्वारपरसवर्णौ भविष्यतः ।

४८ - ७९ - न एव वा पुनः अत्र उगिल्लक्षणः प्राप्नोति ।

४९ - ७९ - किम् कारणम् ।

५० - ७९ - मिदचः अन्त्यात् परः इति उच्यते न च द्वयोः मितोः अचाम् अन्त्यात् परत्वे सम्भवः अस्ति ।

५१ - ७९ - कथम् तर्हि इमौ द्वौ मितौ अचाम् अन्त्यात् परौ स्तः ।

५२ - ७९ - बह्वनड्वांहि ब्राह्मणकुलानि इति ।

५३ - ७९ - विनिमित्तौ एतौ ।

५४ - ७९ - तत्र बहूर्जि प्रतिषेधः ।

५५ - ७९ - तत्र बहूर्जि प्रतिषेधः वक्तव्यः ।

५६ - ७९ - बहूर्जि ब्राह्मणकुलानि इति ।

५७ - ७९ - अन्त्यात् पूर्वम् नुमम् एके ।

५८ - ७९ - अन्त्यात् पूर्वम् नुमम् एके इच्छन्ति ।

५९ - ७९ - किम् अविशेषेण आहोस्वित् बहूर्जौ एव ।

६० - ७९ - किम् च अतः ।

६१ - ७९ - यदि अविशेषेण काष्ठतक्ंषि इति भवितव्यम् ।

६२ - ७९ - अथ बहूर्जौ एव काष्ठतङ्क्षि इति भवितव्यम् ।

६३ - ७९ - एवम् तर्हि बहूर्जौ एव ।

६४ - ७९ - बहूर्ञ्जि ।

६५ - ७९ - सः तर्हि प्रतिषेधः वक्तव्यः ।

६६ - ७९ - न वक्तव्यः ।

६७ - ७९ - अचः इति एषा पञ्चमी ।

६८ - ७९ - अचः उत्तरः यः झल् तदन्तस्य नपुंसकस्य नुमा भवितव्यम् ।

६९ - ७९ - यः च अत्र अचः उत्तरः न असौ झल् न अपि तदन्तम् नपुंसकम् यदन्तम् च नपुंसकम् न असौ अचः उत्तरः ।

७० - ७९ - इह अपि तर्हि न प्राप्नोति ।

७१ - ७९ - काष्ठतङ्क्षि इति ।

७२ - ७९ - अत्र यः अचः उत्तरः झल् न तदन्तम् नपुंसकम् यदन्तम् च नपुंसकम् न असौ अचः उत्तरः ।

७३ - ७९ - न एतत् अस्ति ।

७४ - ७९ - झल्जातिः प्रतिनिर्दिश्यते ।

७५ - ७९ - अचः उत्तरा या झल्जातिः इति ।

७६ - ७९ - यदि पञ्चमी कुण्डानि , वनानि इति अत्र न प्राप्नोति ।

७७ - ७९ - एव तर्हि इकः अचि विभक्तौ इति अत्र अचः सर्वनामस्थाने इति एतत् अनुवर्तिष्यते ।

७८ - ७९ - एवम् अपि षष्ठ्यभावात् न प्राप्नोति ।

७९ - ७९ - सर्वनामस्थाने इति एषा सप्तमी अचः इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP