पाद ३ - खण्ड ८६

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - २७ - सग्रहणम् किमर्थम् न सहेः साडः मूर्धन्यः भवति इति एव उच्येत ।

२ - २७ - सहेः साडः मूर्धन्यः भवति इति उच्यमाने अन्त्यस्य प्रसज्येत ।

३ - २७ - ननु च अन्त्यस्य मूर्धन्यवचने प्रयोजनम् न अस्ति इति कृत्वा सकारस्य भविष्यति ।

४ - २७ - कुतः नु खलु एतत् अनन्त्यार्थे आरम्भे सकारस्य भविष्यति ।

५ - २७ - न पुनः आकारस्य स्यात् ।

६ - २७ - स्थने अन्तरतमः भवति इति सकारस्य भविष्यति ।

७ - २७ - भवेत् प्रकृतितः अन्तरतमनिर्वृत्तौ सत्याम् सिद्धम् स्यात् ।

८ - २७ - आदेशतः तु अन्तरतमनिर्वृत्तौ सत्याम् आकारस्य प्रसज्येत ।

९ - २७ - तस्मात् सकारग्रहणम् कर्तव्यम् ।

१० - २७ - उत्तरार्थम् च सकारग्रहणम् क्रियते ।

११ - २७ - आदेशप्रत्यययोः सकारस्य यथा स्यात् ।

१२ - २७ - इह मा भूत् ।

१३ - २७ - चितम् , स्तुतम् ।

१४ - २७ - अथ सहिग्रहणम् किमर्थम् न साडः सः भवति इति एव उच्येत ।

१५ - २७ - सहेः एव साड्रूपम् भवति न अन्यस्य ।

१६ - २७ - यदि एवं ।

१७ - २७ - साडः षत्वे समानशब्दप्रतिषेधः ।

१८ - २७ - साडः षत्वे समानशब्दानाम् प्रतिषेधः वक्तव्यः ।

१९ - २७ - साडः दण्डः. साडः वृश्चिकः इति ।

२० - २७ - अर्थवद्ग्रहणात् सिद्धम् ।

२१ - २७ - अर्थवतः साड्शब्दस्य ग्रहणम् न च एषः अर्थवान् ।

२२ - २७ - अर्थवद्ग्रहणात् सिद्धम् इति चेत् तद्धितलोपे अर्थवत्त्वात् प्रतिषेधः । अर्थवद्ग्रहणात् सिद्धम् इति चेत् तद्धितलोपे अर्थवत्त्वात् प्रतिषेधः वक्तव्यः ।

२३ - २७ - सह अडेन साडः साडस्य अपत्यम् साडिः अत्र प्राप्नोति ।

२४ - २७ - न वक्तव्यः ।

२५ - २७ - षत्वतुकोः एकादेशस्य असिद्धत्वात् न एषः साड्शब्दः ।

२६ - २७ - एवम् अपि सह डेन सडः सडस्य अपत्रम् साडिः अत्र प्राप्नोति ।

२७ - २७ - तस्मात् सहिग्रहणम् कर्तव्यम्

१ - २४ - नुम्विसर्जनीयशर्व्यवाये निंसेः प्रतिषेधः ।

२ - २४ - नुम्विसर्जनीयशर्व्यवाये निंसेः प्रतिषेदः वक्तव्यः ।

३ - २४ - निंस्से निंस्स्व इति ।

४ - २४ - तत् तर्हि वक्तव्यम् ।

५ - २४ - न वक्तव्यम् ।

६ - २४ - नुमा एव व्यवाये विसर्जनीयेन एव व्यवाये शरा एव व्यवाये इति ।

७ - २४ - किम् वक्तव्यम् एतत् ।

८ - २४ - न हि ।

९ - २४ - कथम् अनुच्यमानम् गंस्यते ।

१० - २४ - प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति ।

११ - २४ - तत् यथा ।

१२ - २४ - गुणवृद्धिसञ्ज्ञे प्रत्येकम् भवतः ।

१३ - २४ - ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः ।

१४ - २४ - तत् यथा ।

१५ - २४ - गर्गाः शतम् दण्ड्यन्ताम् ।

१६ - २४ - अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।

१७ - २४ - एवम् तर्हि ।

१८ - २४ - योगविभागात् सिद्धम् । योगविभागः करिष्यते ।

१९ - २४ - नुम्व्यवाये ।

२० - २४ - ततः विसर्जनीयव्यवाये ।

२१ - २४ - ततः शर्व्यवाये ।

२२ - २४ - सः तर्हि योगविभागः कर्तव्यः ।

२३ - २४ - न कर्तव्यः ।

२४ - २४ - प्रत्येकम् व्यवायशब्दः परिसमाप्यते

१ - ११ - आदेशप्रत्यययोः षत्वे सरकः प्रतिषेधः । आदेशप्रत्यययोः षत्वे सरकः प्रतिषेदः वक्तव्यः कृसरः , धूसरः ।

२ - ११ - अत्यल्पम् इदम् उच्यते सरकः इति ।

३ - ११ - सरगादीनाम् इति वक्तव्यम् इह अपि यथा स्यात् वर्सम् तर्सम् इति ।

४ - ११ - तत् तर्हि वक्तव्यम् ।

५ - ११ - न वक्तव्यम् ।

६ - ११ - उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।

७ - ११ - न वै एतत् षत्वे शक्यम् विज्ञातुम् उणदयः अव्युत्पन्नानि प्रातिपदिकानि इति ।

८ - ११ - इह हि न स्यात् ।

९ - ११ - सर्पिषः यजुषः इति ।

१० - ११ - एवम् तर्हि ।

११ - ११ - बहुलवचनात् सिद्धम् । बहुलम् प्रत्ययसञ्ज्ञा भवति

१ - ४७ - किम् पुनः इयम् अवयवषष्ठी आदेशस्य यः सकारः प्रत्ययस्य यः सकारः इति ।

२ - ४७ - आहोस्वित् समानाधिकरणा आदेशः यः सकारः प्रत्ययः यः सकारः इति ।

३ - ४७ - कः च अत्र विशेषः ।

४ - ४७ - आदेशप्रत्यययोः इति अवयवषष्ठी चेत् द्विर्वचने प्रतिषेधः ।

५ - ४७ - आदेशप्रत्यययोः इति अवयवषष्ठी चेत् द्विर्वचने प्रतिषेधः वक्तव्यः ।

६ - ४७ - बिसम् बिसम् ।

७ - ४७ - मुसलम् मुसलम् ।

८ - ४७ - समानाधिकरणानाम् च अप्राप्तिः । समानाधिकरणानाम् च षत्वस्य अप्राप्तिः ।

९ - ४७ - एषः , अकार्षीत् ।

१० - ४७ - अस्तु तर्हि समानाधिकरणा ।

११ - ४७ - यदि समानाधिकरणा सिषेच सुष्वाप , अत्र न प्राप्नोति ।

१२ - ४७ - न धातुद्विर्वचने स्थाने द्विर्वचनम् शक्यम् आस्थातुम् ।

१३ - ४७ - इह अपि हि प्रसज्येत सरीसृप्यते इति ।

१४ - ४७ - तस्मात् तत्र द्विःप्रयोगः द्विर्वचनम् ।

१५ - ४७ - इह तर्हि करिष्यति हरिष्यति प्रत्ययः यः सकारः इति षत्वम् न प्राप्नोति ।

१६ - ४७ - अस्तु तर्हि आदेशः यः सकारः प्रत्ययस्य यः सकारः इति ।

१७ - ४७ - इह तर्हि अकार्षीत् प्रत्ययस्य यः सकारः इति षत्वम् न प्राप्नोति ।

१८ - ४७ - मा भूत् एवम् आदेशः यः सकारः इति एवम् भविष्यति ।

१९ - ४७ - इह तर्हि जोषिषत् , मन्दिषत् इति प्रत्ययस्य यः सकारः इति षत्वम् न प्राप्नोति ।

२० - ४७ - एषः अपि इटि कृते प्रत्ययस्य सकारः ।

२१ - ४७ - इह तर्हि इन्द्रः मा वक्षत् सः , सः देवन् यक्षत् ।

२२ - ४७ - नानाविभक्तीनाम् च समासानुपपत्तिः । नानाविभक्तीनाम् च समासः न उपपद्यते आदेशप्रत्यययोः इति ।

२३ - ४७ - योगविभागात् सिद्धम् । योगविभागः करिष्यते ।

२४ - ४७ - आदेशस्य षः भवति इति ।

२५ - ४७ - ततः प्रत्ययसकारस्य षः भवति इति ।

२६ - ४७ - स तर्हि योगविभागः कर्तव्यः ।

२७ - ४७ - न कर्तव्यः ।

२८ - ४७ - कथम् ।

२९ - ४७ - अस्तु तावत् अवयवषष्ठी ।

३० - ४७ - ननु च उक्तम् आदेशप्रत्यययोः इति अवयवषष्ठी चेत् द्विर्वचने प्रतिषेधः इति ।

३१ - ४७ - न एषः दोषः ।

३२ - ४७ - द्विःप्रयोगः द्विर्वचनम् ।

३३ - ४७ - यत् अपि उच्यते समानाधिकरणानाम् च अप्राप्तिः इति व्यपदेशिवद्भावेन भविष्यति ।

३४ - ४७ - अथ वा पुनः अस्तु समानाधिकरणा ।

३५ - ४७ - कथम् करिष्यति हरिष्यति ।

३६ - ४७ - आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् षत्वम् इति यत् अयम् सात्पदाद्योः इति सात्प्रतिषेधम् शास्ति ।

३७ - ४७ - अथ वा पुनः अस्तु आदेशः यः सकारः प्रत्ययस्य यः सकारः इति ।

३८ - ४७ - कथम् इन्द्रः मा , वक्षत् सः देवान् यक्षत् ।

३९ - ४७ - व्यपदेशिवद्भावेन भविष्यति ।

४० - ४७ - सः तर्हि व्यपदेशिवद्भावः वक्तव्यः ।

४१ - ४७ - न वक्तव्यः ।

४२ - ४७ - उक्तम् वा । किम् उक्तम् ।

४३ - ४७ - तत्र व्यपदेशिवद्वचनम् एकाचः द्वे प्रथमार्थम् षत्वे च आदेशसम्प्रत्ययार्थम् अवचनात् लोकविज्ञनात् सिद्धम् इति ।

४४ - ४७ - यत् अपि नानाविभक्तीनाम् च समासानुपपत्तिः इति आचार्यप्रवृत्तिः ज्ञापयति नानाविभक्त्योः एषः समासः इति यत् अयम् शासिवसिघसीनाञ्च इति घसिग्रहणम् करोति ।

४५ - ४७ - कथम् कृत्वा ज्ञापकम् ।

४६ - ४७ - यदि हि आदेशस्य यः सकारः इति एवम् स्यात् घसिग्रहणम् अनर्थकम् स्यात् ।

४७ - ४७ - पश्यति तु आचार्यः आदेशः यः सकारः तस्य षत्वम् इति ततः घसिग्रहणम् करोति ।

१ - ३५ - स्तौतिणिग्रहणम् किमर्थम् ।

२ - ३५ - अस्तौतिण्यन्तानाम् मा भूत् ।

३ - ३५ - सिसिक्षति ।

४ - ३५ - अथ एवकारः किमर्थः ।

५ - ३५ - नियमार्थः ।

६ - ३५ - स्थौतिण्यन्तानाम् एव न अन्येषाम् इति ।

७ - ३५ - न एतत् अस्ति प्रयोजनम् ।

८ - ३५ - सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारकरणम् नियमार्थः भविष्यति ।

९ - ३५ - इष्टतः अवधारणार्थः तर्हि ।

१० - ३५ - यथा एवम् विज्ञायेत स्तौतिण्योः एव षणि इति ।

११ - ३५ - मा एवम् विज्ञायि स्तौतिण्योः षणि एव इति ।

१२ - ३५ - इह न स्यात् तुष्टाव ।

१३ - ३५ - अथ षणि इति किमर्थम् ।

१४ - ३५ - सेषीव्यते ।

१५ - ३५ - कः विनते अनुरोधः ।

१६ - ३५ - अविनते नियमः मा भूत् ।

१७ - ३५ - सुषुप्सति इति ।

१८ - ३५ - कः सानुबन्धे अनुरोधः ।

१९ - ३५ - षशब्दमात्रे नियमः मा भूत् ।

२० - ३५ - सुषुपिषे इन्द्रम् ।

२१ - ३५ - सुषुपिषे इह इति ।

२२ - ३५ - अभ्यासात् इति किमर्थम् ।

२३ - ३५ - अभ्यासात् या प्राप्तिः तस्याः नियमः यथा स्यात् उपसर्गात् या प्राप्तिः तस्याः नियमः मा भूत् ।

२४ - ३५ - अभिषिषिक्षति ।

२५ - ३५ - न एतत् अस्ति ।

२६ - ३५ - असिद्धम् उपसर्गात् षत्वम् तस्य असिद्धत्वात् नियमः न भविष्यति ।

२७ - ३५ - इदम् तर्हि प्रयोजनम् ।

२८ - ३५ - सनि यः अभ्यासः तस्मात् या प्राप्तिः तस्याः नियमः यथा स्यात् यङि यः अभ्यासः तस्मात् या प्राप्तिः तत्र नियमः मा भूत् इति ।

२९ - ३५ - सोषुप्यतेः सन् सोषुपिषते ।

३० - ३५ - अथ वा अभ्यासात् या प्राप्तिः तस्याः नियमः यथा स्यात् धातोः या प्राप्तिः तस्याः नियमः मा भूत् ।

३१ - ३५ - अधीषिषति ।

३२ - ३५ - ननु च षणि इति उच्यते ।

३३ - ३५ - षणि इति न एषा परसप्तमी शक्या विज्ञातुम् सन्यङन्तम् हि द्विरुच्यते ।

३४ - ३५ - तस्मात् एषा सत्सप्तमी षणि सति इति ।

३५ - ३५ - सत्सप्तमी चेत् प्राप्नोति

१ - १३ - किमर्थम् इदम् उच्यते ।

२ - १३ - स्थादिषु अभ्यासवचनम् नियमार्थम् ।

३ - १३ - नियमार्थः अयम् आरम्भः ।

४ - १३ - स्थादिषु एव अभ्यासस्य यथा स्यात् ।

५ - १३ - इह मा भूत् ।

६ - १३ - अभिसुसूषति ।

७ - १३ - अथ किमर्थम् अभ्यासेन च इति उच्यते ।

८ - १३ - तद्व्यवाये च अषोपदेशार्थम् । तद्व्यवाये अभ्यासव्यवाये च अषोपदेशस्य अपि यथा स्यात् ।

९ - १३ - अभिषिषेणयिषति ।

१० - १३ - अवर्णार्थम् षणि प्रतिषेधार्थम् च । अवणार्थम् तवत् ।

११ - १३ - अभितष्ठौ ।

१२ - १३ - षणि प्रतिषेधार्थम् ।

१३ - १३ - अभिषिषिक्षति

१ - २३ - उपसर्गात् षत्वे निसः उपसङ्ख्यानम् अनिणन्तत्वात् ।

२ - २३ - उपसर्गात् षत्वे निसः उपसङ्ख्यानम् कर्तव्यम् ।

३ - २३ - निःषुणोति निःषिञ्चति ।

४ - २३ - किम् पुनः कारणम् न सिध्यति ।

५ - २३ - अनिणन्तत्वात् ।

६ - २३ - इणन्तात् उपसर्गात् षत्वम् उच्यते न च निस्* इणन्तः ।

७ - २३ - न वा वर्णाश्रयत्वात् षत्वस्य तद्विशेषकः उपसर्गः धातुः च ।

८ - २३ - न वा वक्तव्यम् ।

९ - २३ - किम् कारणम् ।

१० - २३ - वर्णाश्रयत्वात् षत्वस्य ।

११ - २३ - वर्णाश्रयम् षत्वम् ।

१२ - २३ - तद्विशेषकः उपसर्गः धातुः च ।

१३ - २३ - न एवम् विज्ञायते इणन्तात् उपसर्गात् इति ।

१४ - २३ - कथम् तर्हि ।

१५ - २३ - इणः उत्तरस्य सकारस्य सः चेत् इण् उपसर्गस्य सः चेत् सकारः सुनोत्यादीनाम् इति ।

१६ - २३ - तत्र शर्व्यवाये इति एव सिद्धम् ।

१७ - २३ - यदि एवम् धातूपसर्गयोः अभिसम्बन्धः अकृतः भवति ।

१८ - २३ - तत्र कः दोषः ।

१९ - २३ - इह अपि प्राप्नोति ।

२० - २३ - विगताः सेचकाः अस्मात् ग्रामात् विसेचकः ग्रामः ।

२१ - २३ - धातूपसर्गयोः च अभिसम्बन्धः कृतः ।

२२ - २३ - कथम् ।

२३ - २३ - सुनोत्यादिभिः अत्र उपसर्गम् विशेषयिष्यामः सुनोत्यादीनाम् यः उपसर्गः तस्य यः इण् इति

१ - १० - सुनोत्यादीनाम् षत्वे ण्यन्तस्य उपसङ्ख्यानम् अधिकत्वात् ।

२ - १० - सुनोत्यादीनाम् षत्वे ण्यन्तस्य उपसङ्ख्यानम् कर्तव्यम् ।

३ - १० - अभिषावयति ।

४ - १० - किम् कारणम् ।

५ - १० - अधिकत्वात् ।

६ - १० - व्यतिरिक्तः सुनोत्यादिः इति कृत्वा उपसर्गात् सुनोत्यादीनाम् इति षत्वम् न प्राप्नोति ।

७ - १० - न वा अवयवस्य अनन्यत्वात् । न वा वक्तव्यम् ।

८ - १० - किम् कारणम् ।

९ - १० - अवयवस्य अनन्यत्वात् ।

१० - १० - अवयवः अत्र अनन्यः

१ - १६ - नामधातोः तु प्रतिषेधः ।

२ - १६ - नामधातोः तु प्रतिषेधः वक्तव्यः ।

३ - १६ - सावकम् इच्छति अभिसावकीयति परिसावकीयति ।

४ - १६ - न वा अनुपसर्गत्वात् । न वा वक्तव्यः ।

५ - १६ - किम् कारणम् ।

६ - १६ - अनुपसर्गत्वात् ।

७ - १६ - यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च अत्र सुनोतिम् प्रति क्रियायोगः ।

८ - १६ - किम् तर्हि सावकीयतिम् प्रति ।

९ - १६ - इह अपि तर्हि न प्राप्नोति अभिषावयति ।

१० - १६ - अत्र अपि न सुनोतिम् प्रति क्रियायोगः ।

११ - १६ - किम् तर्हि सावयतिम् प्रति ।

१२ - १६ - सुनोतिम् प्रति अत्र क्रियायोगः ।

१३ - १६ - कथम् ।

१४ - १६ - न असौ एवम् प्रेष्यते सुनु अभि इति ।

१५ - १६ - किम् तर्हि ।

१६ - १६ - उपसर्गविशिष्टाम् असौ क्रियाम् प्रेष्यते अभिषुणु इति

१ - १२ - अप्रतेः इति वर्तते उताहो निवृत्तम् ।

२ - १२ - निवृत्तम् इति आह ।

३ - १२ - कथम् ज्ञायते ।

४ - १२ - योगविभागकरणसामर्थ्यात् ।

५ - १२ - इतरथा हि सदिस्तम्भ्योः अप्रतेः इति एव ब्रूयात् ।

६ - १२ - अस्ति अन्यत् योगविभागकरणे प्रयोजनम् ।

७ - १२ - किम् ।

८ - १२ - अवाच्चालम्बनाविदूर्वयोः इति वक्ष्यति तत् स्तम्भेः एव यथा स्यात् सदेः मा भूत् इति ।

९ - १२ - न एतत् अस्ति प्रयोजनम् ।

१० - १२ - एकयोगे अपि सति यस्य आलम्बनाविदूर्ये स्तः तस्य भविष्यति ।

११ - १२ - कस्य च आलम्बनाविदूर्ये स्तः ।

१२ - १२ - स्तम्भेः एव

१ - ७ - अथ यः प्राणी अप्राणी च कथम् तत्र भवितव्यम् ।

२ - ७ - अनुष्यन्देते मत्स्योदके इति ।

३ - ७ - आहोस्वित् अनुस्यन्देते मत्स्योदके इति ।

४ - ७ - यदि तावत् अप्राणी विधिना आश्रीयते अस्ति अत्र अप्राणी इति कृत्वा भवितव्यम् षत्वेन ।

५ - ७ - अथ प्राणी प्रतिषेधेन आश्रीयते अस्ति अत्र प्राणी इति कृत्वा भवितव्यम् प्रतिषेएधेन ।

६ - ७ - किम् पुनः अत्र अर्थसतत्त्वम् ।

७ - ७ - देवाः ज्ञातुम् अर्हन्ति

१ - ५ - अनिष्ठायाम् इति वर्तते उताहो निवृत्तम् ।

२ - ५ - निवृत्तम् इति आह ।

३ - ५ - कथम् ज्ञायते ।

४ - ५ - योगविभागकरणसामर्थ्यात् ।

५ - ५ - इतरथा हि विपरिभ्याम् च स्कन्देः अनिष्ठायाम् इति एव ब्रूयात्

१ - ४ - इण्ग्रहणम् किमर्थम् ।

२ - ४ - इण्ग्रहणम् ढत्वे कवर्गनिवृत्त्यर्थम् ।

३ - ४ - इण्घ्रहणम् क्रियते कवर्गात् ढत्वम् मा भूत् इति ।

४ - ४ - पक्षीध्वम् यक्षीध्वम्

१ - ४५ - किम् पुनः इदम् इण्ग्रहणम् प्रत्ययविशेषणम् इणः उत्तरेषाम् षीध्वंलुङ्लिटाम् यः धकारः इति ।

२ - ४५ - आहोस्वित् धकारविशेषणम् इणः उत्तरस्य धकारस्य सः चेत् षीध्वंलुङ्लिटाम् धकारः इति ।

३ - ४५ - कः च अत्र विशेषः ।

४ - ४५ - तत्र प्रत्ययपरत्वे इटः लिटि ढत्वम् परादित्वात् । तत्र प्रत्ययपरत्वे इटः लिटि ढत्वम् न प्राप्नोति ।

५ - ४५ - लुलुविढ्वे लुलुविध्वे इति ।

६ - ४५ - किम् कारणम् ।

७ - ४५ - परादित्वात् ।

८ - ४५ - इट् परादिः ।

९ - ४५ - वचनात् भविष्यति ।

१० - ४५ - अस्ति वचने प्रयोजनम् ।

११ - ४५ - किम् ।

१२ - ४५ - अलविढ्वम् अलविध्वम् ।

१३ - ४५ - अस्तु तर्हि धकारविशेषणम् ।

१४ - ४५ - धकारपरत्वे षीध्वमि अननन्तरत्वात् इटः विभाषाभावः ।

१५ - ४५ - धकारपरत्वे षीध्वमि अननन्तरत्वात् इटः विभाषा न प्राप्नोति ।

१६ - ४५ - लविषीढ्वम् लविषीध्वम् इति ।

१७ - ४५ - वचनात् भविष्यति ।

१८ - ४५ - अस्ति वचने प्रयोजनम् ।

१९ - ४५ - किम् ।

२० - ४५ - लुलुविढ्वे लुलुविध्वे इति ।

२१ - ४५ - इण्ग्रहणस्य च अविशेषणत्वात् ष्यादिमात्रे ढत्वप्रसङ्गः । इण्ग्रहणस्य च अविशेषणत्वात् ष्यादिमात्रे ढत्वम् प्राप्नोति पक्षीध्वम् , यक्षीध्वम् इति ।

२२ - ४५ - न एषः दोषः ।

२३ - ४५ - अङ्गात् इति वक्ष्यामि ।

२४ - ४५ - अङ्गग्रहणात् च दोषः ।

२५ - ४५ - इह न प्राप्नोति उपदिदीयिध्वे , उपदिदीयिढ्वे ।

२६ - ४५ - यः हि अत्र अङ्गान्त्यः इण् न तस्मात् उत्तरः इट् यस्मात् च उत्तरः इट् न असौ अङ्गान्त्यः इण् इति ।

२७ - ४५ - यथा इच्छसि तथा अस्तु ।

२८ - ४५ - अस्तु तावत् प्रत्ययविशेषणम् ।

२९ - ४५ - ननु च उक्तम् तत्र प्रत्ययपरत्वे इटः लिटि ढत्वम् परादित्वात् लुलुविढ्वे लुलुविध्वे इति ।

३० - ४५ - वचनात् भविष्यति ।

३१ - ४५ - ननु च उक्तम् अस्ति वचने प्रयोजनम् ।

३२ - ४५ - किम् ।

३३ - ४५ - अलविढ्वम् अलविध्वम् इति ।

३४ - ४५ - यत् एतस्मिन् योगे लिड्ग्रहणम् तदनवकाशम् तस्य अनवकाशत्वात् वचनात् भविष्यति ।

३५ - ४५ - अथ वा पुनः अस्तु धकारविशेषणम् इति ।

३६ - ४५ - ननु च उक्तम् धकारपरत्वे षीध्वमि अननन्तरत्वात् इटः विभाषाभावः लविषीढ्वम् लविषीध्वम् इति ।

३७ - ४५ - वचनात् भविष्यति ।

३८ - ४५ - ननु च उक्तम् अस्ति वचने प्रयोजनम् ।

३९ - ४५ - किम् ।

४० - ४५ - लुलुविढ्वे लुलुविध्वे इति ।

४१ - ४५ - यत् एतस्मिन् योगे षीध्वङ्ग्रहणम् तत् अनवकाशम् तस्य अनवकाशत्वात् वचनात् भविष्यति ।

४२ - ४५ - यत् अपि उच्यते इण्ग्रहणस्य च अविशेषणत्वात् ष्यादिमात्रे ढत्वप्रसङ्गः इति अङ्गात् इति वक्ष्यामि ।

४३ - ४५ - ननु च उक्तम् अङ्गग्रहणात् च दोषः इति ।

४४ - ४५ - पूर्वस्मिन् योगे यत् अङ्गग्रहणम् तत् उत्तरत्र निवृत्तम् ।

४५ - ४५ - अथ वा पूर्वस्मिन् योगे इण्ग्रहणम् प्रत्ययविशेषणम् उत्तरत्र धकारविशेषणम्

१ - १६ - अग्नेः दीर्घात् सोमस्य ।

२ - १६ - अग्नेः दीर्घात् सोमस्य इति वक्तव्यम् ।

३ - १६ - अग्नीषोमौ ।

४ - १६ - इतरथा हि अनिष्टप्रसङ्गः । इतरथा हि अनिष्टम् प्रसज्येत ।

५ - १६ - अग्निसोमौ माणवकौ इति ।

६ - १६ - तत् तर्हि वक्तव्यम् ।

७ - १६ - न वक्तव्यम् ।

८ - १६ - गौणमुख्ययोः मुख्ये सम्प्रतिप्रत्तिः ।

९ - १६ - तत् यथा ।

१० - १६ - गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति न बाहीकः अनुबध्यते ।

११ - १६ - कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः ।

१२ - १६ - गौः तिष्ठति ।

१३ - १६ - गाम् आनय इति ।

१४ - १६ - अर्थाश्रये एतत् एवम् भवति ।

१५ - १६ - यत् हि शब्दाश्रयम् शब्दमात्रे तत् भवति ।

१६ - १६ - शब्दाश्रये च वृद्ध्यात्वे

१ - ९ - सान्ताभ्याम् च इति वक्तव्यम् ।

२ - ९ - इह अपि यथा स्यात् ।

३ - ९ - मातुःष्वसा मातुःस्वसा ।

४ - ९ - पितुःष्वसा पितुःस्वसेति ।

५ - ९ - मातुः पितुः इति सान्तग्रहणानर्थक्यम् एकदेशविकृतस्य अनन्यत्वात् ।

६ - ९ - मातुः पितुः इति सान्तग्रहणम् अनर्थकम् ।

७ - ९ - किम् कारणम् ।

८ - ९ - एकदेशविकृतस्य अनन्यत्वात् ।

९ - ९ - एकदेशविकृतम् अनन्यवत् भवति इति सान्तस्य अपि भविष्यति

१ - २० - अस्तिग्रहणम् किमर्थम् ।

२ - २० - इह मा भूत् ।

३ - २० - अनुसृतम् , विसृतम् इति ।

४ - २० - न एतत् अस्ति प्रयोजनम् ।

५ - २० - यद्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च एतम् सकारम् प्रति क्रियायोगः ।

६ - २० - इह अपि तर्हि न प्राप्नोति अभिषन्ति विषन्ति इति न हि अस्तिः क्रियावचनः ।

७ - २० - कः पुनः आह न अस्तिः क्रियावचनः इति ।

८ - २० - क्रियावचनः अस्तिः ।

९ - २० - आतः च क्रियावचनः व्यत्यनुषते कर्तरिकर्मव्यतिहारे इति अनेन आत्मनेपदम् भवति ।

१० - २० - कर्मव्यतिहारः च कः ।

११ - २० - क्रियाव्यतिहारः ।

१२ - २० - प्रादुःशब्दात् तर्हि मा भूत् ।

१३ - २० - प्रादुःशब्दः च नियतविषयः कृभ्वस्तियोगे एव वर्तते ।

१४ - २० - उपसर्गात् तर्हि स्यतेः मा भूत् इति ।

१५ - २० - इष्यते उपसर्गात् स्यतेः षत्वम् ।

१६ - २० - आतश् च इष्यते ।

१७ - २० - एवम् हि आह उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वङ्जाम् इति ।

१८ - २० - प्रादुःशब्दात् तर्हि स्यतेः मा भूत् इति ।

१९ - २० - प्रादुःशब्दः च नियतविषयः कृभ्वस्तियोगे एव वर्तते ।

२० - २० - इदम् तर्हि प्रयोजनम् इह मा भूत् अनुसूतेः अप्रत्ययः अनुसूः अनुस्वः अपत्यम् आनुसेयः

१ - २५ - किमर्थम् स्वपेः सुपिभूतस्य ग्रहणम् क्रियते ।

२ - २५ - सुपेः षत्वम् स्वपेः मा भूत् ।

३ - २५ - सुपेः षत्वम् उच्यते तत् स्वपेः मा भूत् इति ।

४ - २५ - सुस्वप्नः विस्वप्नक् इति ।

५ - २५ - विसुष्वाप इति केन न । विसुष्वाप इति अत्र कस्मात् न भवति ।

६ - २५ - हलादिशेषात् न सुपिः । हलादिशेषे कृते न एषः सुपिः भवति ।

७ - २५ - इदम् इह सम्प्रधार्यम् ।

८ - २५ - हलादिशेषः क्रियताम् सम्प्रसारणम् इति किम् अत्र कर्तव्यम् ।

९ - २५ - परत्वात् हलादिशेषः ।

१० - २५ - इष्टम् पूर्वम् प्रसारणम् । इष्यते हलादिशेषात् पूर्वम् सम्प्रसारणम् ।

११ - २५ - आतः च इष्यते ।

१२ - २५ - एवम् हि आह अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन इति ।

१३ - २५ - एवम् तर्हि स्थादिषु अभ्यासस्य इति एतस्मात् नियमात् न भविष्यति ।

१४ - २५ - स्थादीनाम् नियमः न अत्र प्राक् सितात् उत्तरः सुपिः । प्राक् सितसंशब्दनात् सः नियमः उत्तरः च सुपिः पठ्यते ।

१५ - २५ - एवम् तर्हि अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् एतस्य न भविष्यति ।

१६ - २५ - अनर्थके विषुषुपुः । यदि अर्थवतः ग्रहणम् विषुषुपुः इति न सिध्यति ।

१७ - २५ - न एषः दोषः ।

१८ - २५ - कथम् ।

१९ - २५ - सुपिभूतः द्विः उच्यते । सुपिभुतस्य द्विर्वचनम् ।

२० - २५ - सुपेः षत्वम् स्वपेः मा भूत् ।

२१ - २५ - विसुष्वाप इति केन न ।

२२ - २५ - हलादिशेषात् न सुपिः ।

२३ - २५ - इष्टम् पूर्वम् प्रसारणम् ।

२४ - २५ - स्थादीनाम् नियमः न अत्र प्राक् सितात् उत्तरः सुपिः ।

२५ - २५ - अनर्थके विषुषुपुः सुपिभूतः द्विः उच्यते ।

१ - ११ - कपिष्ठलः गोत्रप्रकृतौ ।

२ - ११ - कपिष्ठलः गोत्रप्रकृतौ इति वक्तव्यम् ।

३ - ११ - गोत्रे इति उच्यमाने इह एव स्यात् ।

४ - ११ - कापिष्ठलिः ।

५ - ११ - इह न स्यात् ।

६ - ११ - कपिष्ठलः कापिष्ठलायनः ।

७ - ११ - तत् तर्हि वक्तव्यम् ।

८ - ११ - न वक्तव्यम् ।

९ - ११ - न एवम् विज्ञायते कपिष्ठलः इति गोत्रे निपात्यते इति ।

१० - ११ - कथम् तर्हि ।

११ - ११ - गोत्रे यः कपिष्ठलशब्दः तस्य षत्वम् निपात्यते यत्र वा तत्र वा इति

१ - ११ - स्थः इति किम् इदम् धातुग्रहणम् आहोस्वित् रूपग्रहणम् ।

२ - ११ - किम् च अतः ।

३ - ११ - यदि धातुग्रहणम् गोस्थानम् इति अत्र प्राप्नोति ।

४ - ११ - अथ रूपग्रहणम् सव्येष्ठाः , परमेष्ठी , सव्येष्ठा सारथिः इति अत्र न प्राप्नोति ।

५ - ११ - यथा इच्छसि तथा अस्तु ।

६ - ११ - अस्तु तावत् धातुग्रहणम् ।

७ - ११ - कथम् गोस्थानम् इति ।

८ - ११ - सवनादिषु पाठः करिष्यते ।

९ - ११ - अथ वा पुनः अस्तु रूपग्रहणम् ।

१० - ११ - कथम् सव्येष्ठाः , पर्मेष्ठी , सव्येष्ठा सारथिः इति ।

११ - ११ - स्थः स्थास्थिन्स्थृ̄णाम् इति वक्तव्यम्

१ - १ - अविहितलक्षणः मूर्धन्यः सुषामादिषु द्रष्टव्यः

१ - ३ - ह्रस्वात् तादौ तिङि प्रतिषेधः ।

२ - ३ - ह्रस्वात् तादौ तिङि प्रतिषेधः वक्तव्यः ।

३ - ३ - भिन्द्युस्तराम् छिन्द्युस्तराम् इति

१ - ५ - स्तुतस्तोमयोः छन्दसि अनर्थकम् वचनम् पूर्वपदात् इति सिद्धत्वात् ।

२ - ५ - स्तुतस्तोमयोः छन्दसि वचनम् अनर्थकम् ।

३ - ५ - किम् कारणम् ।

४ - ५ - पूर्वपदात् इति सिद्धत्वात् ।

५ - ५ - पूर्वपदात् इति एव सिद्धम्

१ - २० - सनोतेः अनः इति च ।

२ - २० - किम् ।

३ - २० - वचनम् अनर्थकम् इति एव ।

४ - २० - किम् कारणम् ।

५ - २० - पूर्वपदात् इति सिद्धत्वात् ।

६ - २० - नियमार्थम् तर्हि इदम् वक्तव्यम् ।

७ - २० - सनोतेः अनकारस्य एव यथा स्यात् ।

८ - २० - इह मा भूत् ।

९ - २० - गोसनिम् इति ।

१० - २० - सनोतेः अनः इति नियमार्थम् इति चेत् सवनादिकृतत्वात् सिद्धम् । सनोतेः अनः इति नियमार्थम् इति चेत् सवनादिषु पाठः करिष्यते ।

११ - २० - सनर्थम् तु । सनर्थम् तु इदम् वक्तव्यम् ।

१२ - २० - सिसनिषति ।

१३ - २० - एतत् अपि न अस्ति प्रयोजनम् ।

१४ - २० - स्तौतिण्योरेवषण्यभ्यासात् इति एतस्मात् नियमात् न भविष्यति ।

१५ - २० - ण्यर्थम् तर्हि इदम् वक्तव्यम् ।

१६ - २० - सिसानयिषति ।

१७ - २० - कथम् पुनः अण्यन्तस्य प्रतिषेधे ण्यन्तः शक्यः विज्ञातुम् ।

१८ - २० - सामर्थ्यात् ।

१९ - २० - अण्यन्तस्य प्रतिषेधवचने प्रयोजनम् न अस्ति इति कृत्वा ण्यन्ते विज्ञास्यते ।

२० - २० - अथ वा अयम् अस्ति अण्यन्तः सिसनिषतेः अप्रत्ययः सिसनीः

१ - ११ - किमर्थम् सवादिषु अश्वसनिशब्दः पठ्यते ।

२ - ११ - पूर्वपदात् इति षत्वम् प्राप्नोति ।

३ - ११ - तद्बाधनार्थम् ।

४ - ११ - न एतत् अस्ति प्रयोजनम् ।

५ - ११ - इणन्तात् इति तत्र अनुवर्तते अनिणन्तः च अयम् ।

६ - ११ - न एव प्राप्नोति न अर्थः प्रतिषेधेन ।

७ - ११ - एवम् तर्हि सिद्धे सति यत् सवनादिषु अश्वसनिशब्दम् पठति तत् ज्ञापयति आचार्यः अनिणन्तात् अपि षत्वम् भवति इति ।

८ - ११ - किम् एतस्य ज्ञापने प्रयोजनम् ।

९ - ११ - जलाषाहम् माषः इति एतत् सिद्धम् भवति ।

१० - ११ - अथ वा एकदेशविकृतार्थः अयम् आरम्भः ।

११ - ११ - अश्वषाः इति

१ - ९ - उपसर्गात् इति या प्राप्तिः भवितव्यम् तस्याः प्रतिषेधेन उताहो न ।

२ - ९ - न भवितव्यम् ।

३ - ९ - किम् कारणम् ।

४ - ९ - उपसर्गात् षत्वम् प्रतिषेधविषये आरभ्यते तत् यथा एव पदादिलक्षणम् प्रतिषेधम् बाधते एवम् सिचः यङि इति एतम् अपि बाधते ।

५ - ९ - न बाधते ।

६ - ९ - किम् कारणम् ।

७ - ९ - येन न अप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते पदादिलक्षणे प्रतिषेधे उपसर्गात् षत्वम् आरभ्यते सिचः यङि इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च ।

८ - ९ - अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् उपसर्गात् षत्वम् पदादिलक्षणम् प्रतिषेधम् बाधिष्यते सिचः यङि इति एतम् न बाधिष्यते ।

९ - ९ - तस्मात् अभिसेसिच्यते इति भवितव्यम्

१ - ४ - किमर्थम् सहिः सोढभूतः गृह्यते ।

२ - ४ - यत्र अस्य एतत् रूपम् तत्र यथा स्यात् ।

३ - ४ - इह मा भूत् ।

४ - ४ - परिषहते इति

१ - ६ - स्तम्भुसिवुसहाम् चङि उपसर्गात् ।

२ - ६ - स्तम्भुसिवुसहाम् चङि उपसर्गात् इति वक्तव्यम् ।

३ - ६ - किम् प्रयोजनम् ।

४ - ६ - उपसर्गात् या प्राप्तिः तस्याः प्रतिषेधः यथा स्यात् ।

५ - ६ - अभ्यासात् या प्राप्तिः तस्याः प्रतिषेधः मा भूत् इति ।

६ - ६ - पर्यसीषहत्

१ - ९ - सनि किम् उदाहरणम् ।

२ - ९ - सुसूषति ।

३ - ९ - न एतत् अस्ति प्रयोजनम् ।

४ - ९ - स्तौतिण्योः एव षणि इति एतस्मात् नियमात् न भविष्यति ।

५ - ९ - इदम् तर्हि ।

६ - ९ - अभिसुसूषति ।

७ - ९ - एतत् अपि न अस्ति प्रयोजनम् ।

८ - ९ - स्थादिष्वभ्यासेनचाभ्यासस्य इति एतस्मात् नियमात् न भविष्यति ।

९ - ९ - इदम् तर्हि प्रयोजनम् अभिसुसूषतेः अप्रत्ययः अभिसुसूः

१ - ३ - सदः लिटि प्रतिषेधे स्वञ्जेः उपसङ्ख्यनम् ।

२ - ३ - सदः लिटि प्रतिषेधे स्वञ्जेः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ३ - परिषस्वजे

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP