१ - गुणवतो राज्यम्।
२ - विद्यागुणोऽर्थगुणः सहायगुणाश्च।
३ - स्वकुलरञ्जनं च चारित्ररक्षणम्।
४ - कृषिगोरक्षवाणिज्यानि (अध्येयानि)।
५ - सर्वथा लोकायतिकमेव शास्त्रमर्थसाधनकाले, कापालिकं कामसाधने, आर्हतं धर्मे।
६ - सर्वथा लोकयतिकमसेनार्थं क्षिप्रं नश्यति तत्, कापालिकार्हतबौद्धाश्च। एतेषु तिष्ठन् शलभवह्निवत्, फलानि श्रोत्रसलिलकल्पानि।
७ - अविद्यायुक्तः पुरुषार्थं साधयितुं धर्मयुक्तवद्यदेच्छिति, तदा लोकायतिकाभिधानपाषण्डी।
८ - यदा चण्डालः उदारसुरामांसादिकामेच्छुः तदा कापालिकाभिधानपाषण्डी।
९ - यदा सन्ध्योपासनाद्यग्निहोत्रादि च परित्यज्य अहिंसाधर्मेच्छुः तदा क्षपणकाभिधानपाषण्डी।
१० - यदा वेदोक्तकर्मज्ञानं सर्वेश्वरं शिवं विष्णुं श्रियमपि परित्यज्य सर्वं शून्यमिति वदति तदा बौद्धाभिधानपाषण्डी।
११ - वृथाधर्म वदत्यर्थसाधनं लोकायतिकः पिण्डादयश्चौर्यमिति च।
१२ - सर्वमर्थार्थं करोति अग्निहोत्रसन्ध्याजपादीन्।
१३ - स्वदोषं गूहितं कामार्थं वेदं पठति, अग्निहोत्रादीम् करोति सुरापानार्थं महिलामेहन्र्थं चेति।
१४ - विष्ण््वादयः सुरापानिनः इति कापालिकाः।
१५ - दर्मार्थं मलपिण्डधारणाद्धर्मं वदति क्षपणकः, शिवादयस्तथेति वदति च। स च परापवादार्थं पेदशास्त्रधर्मादीन् पठति। सर्वान्नि न्दति महेश्वरविष्ण्वादीनपि, सोऽप्यशनार्थं वदति।
१६ - वदनार्थं परान् स्तौति स बौद्धः।
१७ - योकायतिको मृतः भवति अर्थकामधर्ममोक्षविहीन) नारकी च, तत्कुलं च तत्पुत्रपौत्रान्तरे विनश्यति।
१८ - कापाली स्वग्रामगृहस्वजनैः परित्यक्तः सर्वलोकनिन्दितो नारकी भवति, तस्मिन् काल एव कुलं विनश्यति।
१९ - त्रपणकः स्वकुलग्रमवासिभिर्निन्दितः भवति, त्रिकुलं विनश्यति।
२० - बौद्धसंचिंत कुलं पुत्रपौत्रकाले वा विनश्यति सुदुष्टो नारकी।
२१ - एवं पाषण्डिम्पर्कं मनसापि न कुर्यत्।
२२ - सुव्यवस्थितमन्त्रेण परच्छिद्रज्ञानिना धार्मिकेण राज्चं परिप्लयितुं न शक्यते।
२३ - ऐश्वर्यमदमत्तेन सलोभमानिना संचितं विनश्यति।
२४ - कार्यं निश्चित्य विष्याननुभवति यः स उत्तममर्थं साधयति।
२५ - येष्टयाकर्यज्ञानी अर्थपर इति धर्मवानिति च लोकैर्यथा न ज्ञायते तथा कर्तव्यम्, ईशवर इव चन्द्रादित्याविव च।
२६ - स्वामिचित्तानुवर्तिभिः मत्यैक्यकारि कर्मैव मन्त्रम्।
२७ - नीतेः फलं धर्मार्थकामावाप्तिः।
२८ - धर्मेण कामार्थौ परीक्ष्यौ, धर्म धर्मेण, अर्थमर्थेन, कामं कामेन, मोक्षं मोक्षेण।
२९ - गुरुशासनं कार्यमेव धर्मेण विरुद्धमपि, पाण्डवविवाह इव, अर्जुन संन्यास इव, व्यासविधवागमनमिव, कर्णोत्पादनमिव, राममातृवध इवेत्यादि।
३० - नीतिवियुक्तः पुत्र इव शत्रुः।
३१ - बालं दुष्टं साहसिकमज्ञातशास्त्रं मन्त्रे न प्रवेशयेत्।
३२ - मूढाः दुराचाराः तीक्ष्णाः ईत्मबुद्धयः क्षिप्रक्रुद्धाः बाला) न मन्त्रयोग्याः।
३३ - सर्वरत्वान्यपि दीयन्दां स्वकार्यजीवयशोरक्षणे।
३४ - मव्त्रकाले क प्रतोपयेत्।
३५ - धर्मः प्रधानं पुरुषार्थानाम्।
३६ - अधर्मेण भुज्यमानं सुखमसुहृत् स्थितिवर्धनं च।
३७ - अपथ्यभोजनः मृत्युप्रीतिकर इव।
३८ - सत्यव्रतः शास्त्रेषु निष्ठितः पुपुषः सागरमपि शोषयेत्।
३९ - स यदि क्रुद्धः सर्वे हतपौरुषाः त्रस्ता भवनिति।
४० - एक एव दुर्जनः बहून् नाशयति।
४१ - लौरुषे निष्ठितः देवः।
४२ - यस्य स्वदाररतिः यस्य च आत्मदमने शक्तिः तस्य सदृसो न।
४३ - सज्जनो न भयाद्व्यतिवर्त्े।
४४ - तस्मिन् काले हितं अवक्तव्यं अवाक्यज्ञैः सुहृद्भिः।
४५ - उत्सिक्तहृदयं धर्मे चालितगौरवं अजितात्मानं शासितुं नोत्लहेत।
४६ - दारुणरक्मभिः श्रान्तं अज्ञाननिद्रया सुपुतं च बालं धर्मवाक्यानिलैः शीतलैः प्रबोधयेत्।
४७ - दुरजनमध्ये सूर्यवत् प्रकाशते सुजनः।
४८ - अधर्मव्यवस्थितान् न्यायवृत्तेन वारयेत्।
४९ - अधर्मं अकीर्तिञ्च नार्जयेत्, न च कमपि मारयेत्।
५० - बोलाः निवार्यन्तां धर्मपाठाङ्कुशेन गजा इव।
५१ - गुरुवचनमलङ्घनीयं नयानुगतं चेत्।
५२ - गुरुमपि नितिवियुक्तं निहासयेत्—इत्येतान् गुरुराहेति।
इति द्वितीयोऽध्यायः पूर्णम् ॥