१ - जितक्लेशस्य पौरुषस्य पौरुषम्।
२ - देशान्तरवासेन जितकलेशो भवति।
३ - सर्वबलकालदेशसामप्रकृतिसहायामवयसां ज्ञानं उपवासादिसहिष्णुत्वं च सम्पादयेत्।
४ - सुगन्धवासान् कोसान् कुर्यात्।
५ - बहुवादमपि मधुरमेव कुर्यात्।
६ - शमबुद्वीन् मणीन् सरवान् सर्वदाऽऽराधयेत्।
७ - नवानि मन्त्राणि विद्य़ात्।
८ - तानि त्रिविधानि प्रभिन्नानि—शाक्तवैष्णवशैवानि।
९ - मोक्षपुर्याः त्वारं त्रयं –शाक्तं वैष्णवं शैवमिति।
१० - पोतयानमार्गवत् शाक्तं, महापथवद्वैष्णवम्।
११ - केवलप्रधानिकं शैवं अश्वरथयानवत्।
१२ - लोकायतिकक्षपणकबौद्धादि बहुशार्दूलदुष्टमृगाकीर्णशून्याटवी गुहामार्गवत्।
१३ - एतान् निरूप्यैकमाश्रयेत्।
१४ - ज्योतिर्नाथस्थितं सदा निरूपयेत्।
१५ - चातुर्वर्ण्यंरक्षेत्।
१६ - यौषधानि सेवेत।
१७ - बलवर्णतेजोमददबुद्धिशौर्यदयावर्धनानि दोषधातुशमनानि।
१८ - दानमानालङ्कारविद्याभिः सिद्धिं लभेत।
१९ - अष्टदशतीर्थानि निरूपयेत।
२० - षट्प्रकृतयस्तीर्थं शत्रुमित्रोदासीनाश्च, अन्तश्शत्रुः अन्तर्मित्रं अन्तरुदासीन इति तेऽपि अनुजीविसखिसुहृदश्च; भार्यापुत्रबान्धवाश्च, अन्येऽपि देवालयनृत्तयागभूमिसन्ध्यावापीचतुष्पथ-पाषण्डालयापण-बालविद्यापाठशेखलूरीशालीचन्द्रदर्शनाद्युत्सव-वेश्यागृह-समुद्रतीरयतिसंनिधि-राज्यसन्धिसुरा-विक्रयस्थान-पान्थनिवासाश्च।
२१ - शृङ्गारवेषं कुर्यत्।
२२ - पुरद्वारे सर्वनिरोधनं कार्यम्, सर्वान् न निषेधयेच्च।
२३ - इतिहासपुराणानि तत्पाकान् शाक्तागमन् वैखानसागमान् सांख्यान् शैवांश्च मानयेत्।
२४ - सर्वानपि स्वाध्यायं कुर्यात् कारयेच्च।
२५ - ब्राह्मणं न हन्याद्दोषदुष्टमपि ।
२६ - निर्दयस्य दया कर्तव्या।
२७ - ग्रामणीन् नगरेन्द्रांश्च सम्भावयेत्।
२८ - दुर्बलमपि साम कुर्यात् , दान्न बहु, न स्वल्पं च, नोत्तमेषु गुणबाहुल्यक्रमेण।
२९ - अक्षैर्दीव्यात्, नैव दीव्याच्च।
३० - सर्पदीन् हन्यात्।
३१ - उत्तमान् नानामन्त्रसिद्धान् विद्याबहुलान् द्विजाल् मालयेत्।
३२ - अन्यराष्ट्रजान् द्विजान् क्षत्रबन्धून् कुमारसामन्तादीन् आत्मवत् सम्भावयेत् भोजनाच्छादनादिभिः।
३३ - शरणागतं सर्वपातकयुक्तमपि रक्षेत्।
३४ - दुष्टनिग्रहं कुर्यात्, शिष्टपरिपालनं च।
३५ - ग्रामं नगरं दैवालयानि च न बाधेत।
३६ - आसवानि सेवयेत्, अति न, मांसानि च।
३७ - घृणा कार्या, बौद्धादयो न ग्राह्याः।
३८ - न मत्तकाशिन्यः सेव्याः।
३९ - पञ्चाशतकोटियोजना पृथ्वी, सप्तद्वीपवती च, सप्त समुद्रावृता च।
४० - करमभोगातिभोगदिव्यश्रृङ्गारसिद्धकैवल्या इति द्वीपाभिधानाः।
४१ - मध्यः कर्मभूमिः, तन्मध्ये मेरूराजम्बूः, तत्रोत्तरे हिमवान्, तस्य दक्षिणे नवसाहस्रीभूः।
४२ - तत्र दाक्षिणात्यो भारतः खण्डः , तत्र साक्षाद्धर्माधर्मफलाः सिद्धयन्ति।
४३ - तत्र दण्डनीतिः पूर्वभारतीयैः पठितव्या भविष्यैर्वर्तमानैः चातुर्वर्णिकैश्च।
४४ - दण्डनीत्या भगवान् भानुर्नृपतिः, वायुः सर्वे देवाश्च जन्तवश्च।
४५ - सहस्रयोजना बदरिका सेत्वन्ता।
४६ - द्वारकादि पुरुषोत्तमसालग्रामान्ता सप्तशतयोजना।
४७ - तत्रापि रैवतकविन्ध्यसह्यकुमारमलयश्रीपरवतपारियात्राः। सप्त कुलाचलाः।
४८ - गङ्गासरस्वतीकालिन्दीगोदावरीकावेरीताम्रपर्णीघृतमालाः कुलनद्यः।
४९ - अष्टादश विषयाः, अष्टादशसागराः नृपाः, अष्टादश पार्वतीयाः।
५० - रामसृष्टिः चत्वारिंशच्छतं दक्षिणोत्तरे आसह्यं द्वादह्यं, विश्वामित्रसृष्टिरेकादश।
५१ - नेपालं चतुश्शतं, पूर्वसमुद्रतो वरणतः समुत्रान्तं अष्टयोजनम्, पञ्चशतद्वितयं इत्तरवाटं पूर्वलाटञ्च, काशीपञ्चालद्वितीयं अशीतिः, केकयसृञ्चयं सृष्टिः, मात्स्यमागधं शतम्, मावशकुन्तमशीतिः, कोसलावन्तिः षष्टिः, सैह्यवैदर्भद्वितयं शतद्वितयम्, वैदेहकौरवं शतम्, कम्बोजदशारणमशीतिः, एते महाविषयाः; एते खलु चतुरश्राः।
५२ - आरदृबाह्लीकौ दक्षिणोत्तरतः शतमात्रौ पूर्वपश्चात् द्वादशौ, शाकसौराष्ट्रे चतुरश्रौ चत्वीरिंशत्, अङ्गवङ्गकलिङ्गाः शतमात्राः चतुरश्राश्च, काश्मीरहूणाम्बदृसिन्धवः शतमात्रशचतुरश्राश्च, किरातसौवीरचोलपाण्ड्याः उत्तरे दक्षिणे स्थिताः शतोत्तरं षष्टिमात्राः, यादवकाञ्चीविषयं चत्वारिंशच्छतमात्रं, एत उपविषयाः।
५३ - सप्तकोङ्कणाः चतुश्शतमात्राः द्वादशषडष्टौ च अनूपाः, एते अनूपाः।
५४ - सह्याद्रौ चत्वारो गिरिविषयाः, श्रीपर्वते द्वयम्, रैवतक एकः विन्ध्ये पञ्च, कुमारे एकम्, महेन्द्रे त्रयम्, पारियात्रे त्रयम्।
५५ - सर्वे दक्षिणोत्तरतः पञ्चाशन्मात्राः पूर्वतः पश्चात् पञ्चयोजनाः समाः।
५६ - म्लेच्छे यवनविषयाः पार्वतीयाः।
५७ - ग्रामनगरोद्यानादिभिरलङ्कृताः पुण्यक्षेत्रादिभिश्च अष्ट वैष्णवक्षेत्राः बदरिकासालग्रामपुरुषोत्तमद्वारकाबिलिवाचलानन्तसिंहश्रीरङ्गाः।
५८ - अष्टौ शैवाः एविमुक्तागङ्गाद्वारशिवक्षेत्ररामेश्वरयमुनाशिनसरस्वतीमव्यशार्दूलगजक्षेत्राः।
५९ - शाक्ता अष्टौ च—ओग्घीणजालपूरणकामकोल्लश्रीशैलकाञ्चीमहेन्द्राः।
६० - एते महाक्षेत्राः सर्वसिद्धिकराश्च वन्द्याश्च।
६१ - विन्ध्ये नित्यं वसति दुर्गा भद्रकाली च, कुमारे कुमारो वसति, सह्ये गणपतिः, रैवतके शास्ता, महेन्द्रे गरुडः, पारियात्रे क्षेत्रपालः।
६२ - कर्मभूमौ भारत मनुष्यैः बहवो देवाः।
६३ - सुरासुरयक्षराक्षसभूतप्रेतविनायककूश्माण्डाः विकृताननाः निरुद्धाः भारवेषाः सौम्यभैरवाः योगिन्यश्च नागाश्च मानवैस्सह पूपरमा असंख्याताश्चरन्ति, मानवैः कृतपालनाश्च।
६४ - तस्मिन्नमृतमय्यः ओषध्यः सन्ति।
६५ - अत्र युगसंख्या कृतत्रेताद्वापरतिष्याश्च, कृते-ज्ञानिनः दण्डनीति कोविदाः, त्रेतायां-कर्मिणः नीतिविशारदाः, द्वापरे-तान्त्रिकानुसाराः घनरसाश्च नीतिकोविदाश्च, तिष्ये-ज्ञानकर्मघनाः दण्डनीतिकोविदानराः, तदुत्तरं विरुद्धधर्मवर्णवेषाः दण्डनीतिवर्जिताः पश्यन्ति प्रजा अनृतवादतत्पराश्चेत्याह गुरूः।
इति तृतीयोऽध्यायः पूर्णम् ॥