रसरत्नाकर - प्रकरण १.३

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत.  या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


{जारणपूर्वं मारणम्}
अथातो जारणापूर्वं बीजं मारणमुच्यते ।
अजीर्णं चाप्यबीजं च सूतकं यस्तु मारयेत् ॥३.१॥
ब्रह्महा स दुराचारो मम द्रोही महेश्वरि ।
तस्मात्सर्वप्रयत्नेन जारितं मारयेद्रसम् ॥३.२॥
{रसस्य समुखकरणम्}
संस्थाप्य गोमयं भूमौ पक्वमूषां ततः परम् ।
तन्मध्ये कटुतुम्ब्युत्थं तैलं दत्त्वा रसं क्षिपेत् ॥३.३॥
काकमाचीरसं देयं तैलं तुल्यं ततः पुनः ।
गन्धकं व्रीहिमात्रं च क्षिप्त्वा तं च निरोधयेत् ॥३.४॥
तत्पृष्ठे पावको देयः पूर्णं वा वह्निखर्परम् ।
स्वाङ्गशीतलतां ज्ञात्वा जीर्णे तैले च गन्धकम् ॥३.५॥
काकमाचीद्रवं चाग्नौ दत्त्वा दत्त्वा च जारयेत् ।
मूषाधो गोमयं चात्र दत्त्वा चोदधर्वं च पावकम् ॥३.६॥
षड्गुणं गन्धकं जार्यं सूतस्यैवं मुखं भवेत् ।
{समुखपारदस्य जारणापूर्वको मारणविधिः}
तं सूतं मर्दयेन्नीरैर्जम्बीरोत्थैः पुनः पुनः ॥३.७॥
चतुःषष्ट्यंशकैः पूर्वैर्द्वात्रिंशांशं ततः पुनः ।
षोडशांशं शुद्धहेमपत्रं सूतेषु निक्षिपेत् ॥३.८॥
शिखिपित्तेन सम्पिष्टं तैलैश्च सर्षपोद्भवैः ।
लिप्त्वा हेमं क्षिपेत्सूतं यामं जम्बीरजैर्द्रवैः ॥३.९॥
मर्द्यं तं पूर्ववत्पच्यान्मूषायां जम्बीरद्रवैः ।
पूरयेद्रोधयेच्चाग्निं दत्त्वा यत्नेन जारयेत् ॥३.१०॥
ग्रासे ग्रासे च तन्मर्द्यं जम्बीराणां द्रवैः दृढम् ।
मूलिका लवणं गन्धमभावे पित्ततैलयोः ॥३.११॥
पिष्ट्वा जम्बीरनीरेण हेमपत्रं प्रलेपयेत् ।
इत्येवं जारणा कार्या ततः सूतं च मारयेत् ॥३.१२॥
अथवा निर्मुखं सूतं विडयोगेन मारयेत् ।
{विडनिर्माणविधि}
विडमत्र प्रवक्ष्यामि साधयेद्भिषजां वरः ॥३.१३॥
शंखचूर्णं रविक्षीरैश्चातपे भावयेद्दिनम् ।
तद्वज्जम्बीरजैर्द्रावैर्दिनैकं धूमसारकम् ॥३.१४॥
सुवर्चलमजामूत्रैः क्वाथ्यं यामचतुष्टयम् ।
कण्टकारीं च संक्वाथ्यं दिनैकं नरमूत्रकैः ॥३.१५॥
सज्जीक्षारं तिन्तिडीकं काशीशं च शिलाजतुम् ।
जम्बीरोत्थैर्द्रवैर्भाव्यं पृथग्यामं चतुष्टयम् ॥३.१६॥
जयपालबीजं त्वग्घीनं मूलकानां द्रवैर्दिनम् ।
सैन्धवं टङ्कणं गुञ्जां शिग्रुमूलद्रवैर्दिनम् ॥३.१७॥
एतत्सर्वं समांशं तु मर्द्यं जम्बीरजैर्द्रवैः ।
तद्गोलं रक्षयेद्यत्नाद्विडोऽयं वाडवानलः ।
अनेन मर्दयेत्सूतं ग्रसते तप्तखल्वके ॥३.१८॥
{विडयोगेन पारदादिमारणप्रकारः}
स्वर्णाभ्रकसर्वलोहानि यथेष्टानि च जारयेत् ।
मारयेत्पूर्वयोगेन मारणं चात्र कथ्यते ॥३.१९॥
{पारदमारण (१)}
कुम्भीं समूलां उद्धृत्य गोमूत्रेण सुपेषयेत् ।
तद्द्रवैर्मर्दयेत्सूतं दिनैकं कान्तसम्पुटे ॥३.२०॥
लिप्त्वा नियामका देया ऊर्ध्वश्चाधस्तदन्वयेत् ।
मृद्वग्निना दिनैकं तु पचेच्चुल्यां मृतो भवेत् ॥३.२१॥
{पारदमारण (२)}
गोघृतं गन्धकं सूतं पिष्ट्वा पिण्डीं प्रकल्पयेत् ।
कुमारीदलमध्यस्थं कृत्वा सूत्रेण वेष्टयेत् ॥३.२२॥
तं कान्तसम्पुटे रुद्ध्वा त्रिभिर्लघुपुटैः पचेत् ।
ततो ध्माते भवेद्भस्म चान्धमूषे क्षयं ध्रुवम् ॥३.२३॥
{पारदमारण (३)}
शाकवृक्षस्य पक्वानि फलान्यादाय शोधयेत् ।
पेषयेद्रविदुग्धेन तेन मूषां प्रलेपयेत् ॥३.२४॥
आदिप्रसूतगोर्जातजरायोश्चूर्णपूरितः ।
तन्मध्ये सूतकं रुद्ध्वा ध्मातो भस्मत्वमाप्नुयात् ॥३.२५॥
{पारदमारण (४)}
कर्कोटकीं काकमाचीं च कञ्चुकीं कटुतुम्बिकाम् ।
काकजङ्घां काकतुण्डीं काकिनीं काकमञ्जरीः ॥३.२६॥
पिष्ट्वैतान्वज्रमूषास्तैर्लेपं कृत्वा रसं क्षिपेत् ।
मर्दितं दिनमेकं तु तैरेवार्द्रोत्थितै रसैः ॥३.२७॥
रुद्ध्वाथ भूधरे पच्यादष्टवारं पुनः पुनः ।
मर्दयेल्लिप्तमूषास्ता रुद्ध्वा ध्मातो मृतो भवेत् ॥३.२८॥
{पारदमारण (५)}
रसैर्नियामकैर्मर्द्यो दृढं यामचतुष्टयम् ।
द्विगुणैर्गन्धतैलैश्च पचेन्मृद्वग्निना शनैः ॥३.२९॥
यावत्खोटो भवेत्तत्तद्रोधयेल्लौहसम्पुटे ।
हरीतकीं जले पिष्ट्वा लौहकिट्टेन मूषिकाम् ॥३.३०॥
कृत्वा तन्मध्यतः क्षिप्त्वा सम्पुटं चान्धयेत्पुनः ।
तस्योर्ध्वं स्रावकाकारं हृत्वा नागद्रुतं क्षिपेत् ॥३.३१॥
कठिनेन धमेत्तावद्यावन्नागो द्रुतो भवेत् ।
न धमेच्च पुनस्तावद्यावत्कठिनतां व्रजेत् ॥३.३२॥
एवं पुनः पुनर्ध्मातस्त्रियामैर्म्रियते रसः ।
{नियामकौषध्यः}
नियामकास्ततो वक्ष्ये सूतस्य मारकर्मणि ॥३.३३॥
सर्पाक्षी क्षीरिणी वन्ध्या मत्स्याक्षी शरपुङ्खिका ।
काकजङ्घा शिखिशिखा ब्रह्मदण्ड्याखुपर्णिका ॥३.३४॥
वर्षाभूः कञ्चुकी मूर्वा पद्मकोत्पलचिञ्चिका ।
शतावरी वज्रलता वज्रकन्दा त्रिपर्णिका ॥३.३५॥
मण्डूकपर्णी पाटली चित्रको ग्रीष्मसुन्दरः ।
काकमाची महाराष्ट्री हरिद्रा तिलकर्णिका ॥३.३६॥
श्वेतार्कशिग्रुधत्तूरमृगदूर्वाहरीतकी ।
गुडूची मूषली पुङ्खा भृङ्गराड्रक्तचित्रकम् ॥३.३७॥
तगरं शूरणं मुण्डी मयङ्का पोतकोकिलम् ।
सैन्धवं श्वेतवर्षाभूः साम्भरं हिंगु माक्षिकम् ॥३.३८॥
विष्णुकान्ता सोमवल्ली व्रणघ्नी यक्षलोचनम् ।
व्याघ्रपादी हंसपदी वृश्चिकाली कुरण्टकम् ॥३.३९॥
स्वयम्भूकुसुमं कुञ्ची हस्तिशुण्डीन्द्रवारुणी ।
बीजान्यहस्करस्यापि सर्वत्रैते नियामकाः ॥३.४०॥
एताः समस्ता व्यस्ता वा देया ह्यष्टादशाधिकाः ।
मारणे मूर्च्छने बन्धे रसस्यैतानि योजयेत् ॥३.४१॥
{रसस्य जारणमारणविधिः}
अप्रसूतगवां मूत्रैः पिष्ट्वा पूर्वनियामिकाः ।
तद्द्रवैर्मर्दयेत्सूतं यथा पूर्वोदितं क्रमात् ॥३.४२॥
इत्येवं जारणं प्रोक्तं मारणं परिकीर्तितम् ।
{रसभस्मपरीक्षा}
परीक्षा मारिते सूते कर्तव्या च यथोदिता ॥३.४३॥
अधस्तुषाग्निना तप्तो ह्यक्षीणस्तिष्ठते यदा ।
तदा भस्म विजानीयाच्चुल्ल्यां यामं निरीक्षयेत् ॥३.४४॥
मूलिकामारितं सूतं सर्वयोगेषु योजयेत् ।
जारितो याति सूतोऽसौ जरादारिद्र्यरोगनुत् ॥३.४५॥
मूर्छितो व्याधिनाशाय बद्धः सर्वत्र योजयेत् ॥३.४६॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP