रसरत्नाकर - प्रकरण २.८
रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे.
श्रीशैले देहसिद्धिः प्रभवति सहसा वृक्षमृत्कन्दतोयैस्तच्छास्त्रं शम्भुनोक्तं प्रगहनं अखिलं वीक्षितं यत्तु सारम् ।
व्याहृत्यानेकयुक्त्या सकलसुखकरं दृष्टसिद्धं तु यद्यत्तद्वक्ष्ये साधकानामनुभवपथगं भुक्तये मुक्तये च ॥८.१॥
{Fएल्स्मित्गुग्गुलु बेइ ंअल्लिकार्जुन}
मल्लिकार्जुनदेवस्य पुरतो गजसंनिभा ।
शिला तिष्ठति या रात्रौ स्रवते गुग्गुलुं सदा ॥८.२॥
पालाशचाटुना ग्राह्यं क्षिपेदलाबुपात्रके ।
तद्गुग्गुलुसमं गन्धं निष्कैकं भक्षयेत्सदा ॥८.३॥
मासान्मृत्युजरां हन्ति जीवेदाचन्द्रतारकम् ।
तद्गुग्गुलुं द्रुते ताम्रे कोटिभागेन योजयेत् ॥८.४॥
तद्भवेत्कनकं दिव्यं जाम्बूनदसमप्रभम् ।
{ङ्लोच्के बेइ ङ्हण्टासिद्धेश्वर}
वामतो मल्लिनाथस्य घण्टासिद्धेश्वरः स्थितः ॥८.५॥
तद्द्वारे विद्यते कुण्डं तत्र घण्टा विलम्बते ।
रात्रौ कृष्णचतुर्दश्यां सोपवासैस्त्रिभिर्जनैः ॥८.६॥
कर्तव्यं साधनं तत्र निर्विकल्पैरनिद्रितैः ।
एकस्तु स्नापयेद्देवं जलमेकस्तु वाहयेत् ॥८.७॥
एकस्तु वादयेद्घण्टामविच्छिन्नं निशावधि ।
ततस्तुष्टो भवेच्छम्भुः खेचरत्वं प्रयच्छति ॥८.८॥
घण्टासिद्धेश्वरस्यैव दक्षिणे क्रोशमात्रके ।
निखनेद्दृश्यते तत्र मृद्गोरोचनसंनिभा ॥८.९॥
सिताक्षीरैः पिबेत्कर्षं सप्ताहादमरो भवेत् ।
{चन्द्रोदक इं W वोनंअल्लिनाथ}
चन्द्रोदकं प्रसिद्धं वै मल्लिनाथस्य पश्चिमे ॥८.१०॥
स्थितं वैशाखमासे तु पूर्णमास्यां सुसाधयेत् ।
साधको निर्विकल्पेन स्थित्वा तस्य समीपतः ॥८.११॥
रात्रौ जपं प्रकुर्वाणस्तत्तोयं चार्धरात्रके ।
स्प्रष्टुं चन्द्रो यदा गच्छेत्तदा क्षिप्रं कराञ्जलिम् ॥८.१२॥
कृत्वा तिष्ठेद्यदा याति तज्जलं तत्क्षणात्पिबेत् ।
वज्रकायो भवेद्वीरो जीवेदाचन्द्रतारकम् ॥८.१३॥
{ठमरिन्देन्बौं इं Oस्तेन्वोन्श्रीशैल}
श्रीशैलपूर्वद्वारे तु देवोऽस्ति त्रिपुरान्तकः ।
देवस्योत्तरदिग्भागे चिञ्चावृक्षः समीपतः ॥८.१४॥
विद्यते तस्य मूले तु भैरवो दृश्यते स्वयम् ।
तस्याग्रे निखनेद्भूमिं पुरुषस्य प्रमाणतः ॥८.१५॥
दृश्यते तप्तकुण्डं तु नीलवर्णजलान्वितम् ।
चिञ्चावृक्षस्य पत्त्राणि सम्यग्वस्त्रेण बन्धयेत् ॥८.१६॥
तस्मिन्कुण्डे विनिक्षिप्य तानि मीना भवन्ति वै ।
संगृह्य तस्य काष्ठेन पचेत्तेषां विवर्जयेत् ॥८.१७॥
कण्टकानि शिरः पुच्छं शेषं भक्षेत साधकः ।
क्षणं मूर्छा भवेत्तेन प्रबुद्धो जायते स्वयम् ॥८.१८॥
छिद्रं पश्यति मेदिन्यां जीवेद्वर्षायुतं नरः ।
त्रिपुरान्तकदेवस्य पश्चिमे गव्यूतिद्वये ॥८.१९॥
मणिपल्लिरिति ग्रामस्तस्य पश्चिमतो गिरिः ।
तस्य पश्चिमदिग्भागे कपाटं दृश्यते शुभम् ॥८.२०॥
पूर्वाभिमुखः प्रविशेत्ततो गच्छेच्च दक्षिणम् ।
दशधन्वन्तरं यावद्दृश्यन्ते ज्वलनप्रभाः ॥८.२१॥
आम्राकाराः सुपाषाणा ग्राह्या वस्त्रेण बन्धयेत् ।
रक्तवर्णं भवेद्वस्त्रं क्षीरमध्ये क्षिपेत्ततः ॥८.२२॥
तत्क्षीरं जायते रक्तं तत्क्षीरं साधकः पिबेत् ।
सप्ताहाद्वज्रकायः स्याज्जीवेच्चन्द्रार्कतारकम् ॥८.२३॥
त्रिपुरान्तकदेवस्य उत्तरे कोकिलाबिलम् ।
विख्यातं सर्वलोकेषु कृत्वा वमनरेचनम् ॥८.२४॥
साधकः प्रविशेत्तत्र दशधन्वन्तरावधि ।
पाषाणाः कोकिलाकारास्तिष्ठन्ति तांस्तु चाहरेत् ॥८.२५॥
तेषां पृष्ठे तिलाः क्षिप्ताः स्फुटन्त्येव हि तत्क्षणात् ।
इत्येवं प्रत्ययं दृष्ट्वा तांश्च घृष्ट्वा परस्परम् ॥८.२६॥
क्षीरमध्ये क्षिपेत्तान्वै क्षीरं कृष्णं प्रजायते ।
आकण्ठान्तं पिबेत्तत्तु दिव्यकाव्यो भवेन्नरः ॥८.२७॥
वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनत्रयम् ।
छिद्रं पश्यति मेदिन्यां वायुवेगो महाबलः ॥८.२८॥
त्रिपुरान्तकदेवस्य पूर्वदिग्योजनान्तरे ।
देवः स्वर्गपुरी नाम विद्यते तत्र वै खनेत् ॥८.२९॥
देवाग्रे भूमिकां जानुमात्रां तत्र फला इव ।
निर्गच्छन्ति तु पाषाणाः खरस्पर्शा भवन्ति वै ॥८.३०॥
त्रिपुरान्तकदेवस्य पश्चिमे योजनार्धके ।
विद्यते हि बिलद्वारं तन्मध्ये धनुषां त्रयम् ॥८.३१॥
गच्छेत्खर्जूरवृक्षो वै दृश्यते कृष्णवर्णकः ।
तत्फलानां रसं पीत्वा मूर्छा संजायते क्षणम् ॥८.३२॥
ततः संजायते सिद्धो जीवेच्चन्द्रार्कतारकम् ।
श्रीशैले दक्षिणे द्वारे जालेश्वरसुरेश्वरौ ॥८.३३॥
देवौ प्रसिद्धौ विद्येते निखनेत्तत्र भूमिकाम् ।
पाषाणाः श्रीफलाकारा निर्यान्ति स्पर्शभेदकाः ॥८.३४॥
देवो रामेश्वरस्तत्र विद्यते तस्य संनिधौ ।
रुद्राक्षाकारपाषाणाः खरस्पर्शा भवन्ति ते ॥८.३५॥
ज्योतिःसिद्धवटे वृक्षे एकपादेन तिष्ठति ।
आवर्तदेवको नाम तत्समीपे तु पश्चिमे ॥८.३६॥
विद्यते पर्वतस्तत्र पाषाणास्तालकोपमाः ।
आदाय तान्धमेत्तीव्रं दिव्यं भवति काञ्चनम् ॥८.३७॥
तत्रैव दक्षिणद्वारे देवः स्यात्कुण्डलेश्वरः ।
तत्समीपे खनेद्भूमिं जानुमात्रां ततो हरेत् ॥८.३८॥
पाषाणाः श्रीफलाकारा रक्ताश्च स्पर्शवेधकाः ।
पुरुषेश्वरदेवस्य कुण्डमस्ति समीपतः ॥८.३९॥
गुञ्जा च रिठ्ठकश्चैव द्वौ वृक्षौ तत्र तिष्ठतः ।
तयोः पत्त्राणि संभक्ष्य तत्क्षणादमरो भवेत् ॥८.४०॥
तथा हस्तिशिला तत्र तस्या दक्षिणतः खनेत् ।
हस्तमात्रं ततः पश्येज्जम्बूफलसमाकृतिः ॥८.४१॥
शिला तत्र समाख्याता स्पर्शग्राह्या प्रयत्नतः ।
नाम्ना हस्तिशिरः ख्यातं सैव हस्तिशिला भवेत् ॥८.४२॥
तस्या दक्षिणदिग्भागे योजनैकेन तिष्ठति ।
छायाछत्त्रं प्रसिद्धं तच्छिवरूपं शिवोदितम् ॥८.४३॥
शतहस्तप्रमाणं तु तत्क्षेत्रं परिवर्तुलम् ।
योऽसौ गच्छति तस्याधो नासौ केनापि दृश्यते ॥८.४४॥
रुद्रतुल्यो भवेत्सिद्धः क्रीडते भुवनत्रये ।
अथवा साधयेद्दूरात्ख्यातं सिद्ध्यष्टकं तु यत् ॥८.४५॥
कान्ताभ्रं काञ्चनं सूतं मर्द्यं क्रमगुणोत्तरम् ।
तद्गोलं वेष्टयेल्लोहैस्त्रिभिर्यत्नात्क्रमेण वै ॥८.४६॥
वस्त्रे बद्ध्वा तु तद्वस्त्रं वंशाग्रे बन्धयेद्दृढम् ।
मन्त्रयेत्कालीमन्त्रेण छायाछत्त्रे निवेशयेत् ॥८.४७॥
तद्वंशाग्रं क्षणैकेन जायते गुटिका तु ताम् ।
साधको धारयेद्वक्त्रे खेचरत्वप्रदायिकाम् ॥८.४८॥
तालकं कुनटीं तद्वद्वंशे बद्ध्वा निवेशयेत् ।
ताभ्यामञ्जितनेत्रो यो निधिं पश्यति भूगतम् ॥८.४९॥
वंशे बद्ध्वा क्षिपेत्खड्गं पूर्वमन्त्रेण मन्त्रितम् ।
तत्खड्गं धारयेद्धस्ते त्रैलोक्यविजयी भवेत् ॥८.५०॥
वस्त्रे गोरोचनं बद्ध्वा वंशस्थं तत्र वेशयेत् ।
तेनैव तिलकं कुर्याद्दृष्ट्वा मोहयते जगत् ॥८.५१॥
स्रोतोञ्जनं कज्जलं च क्षिप्त्वा तत्रैव पूर्ववत् ।
तेन चाञ्जितनेत्रो यो देवैरपि न दृश्यते ॥८.५२॥
पादुकां तेन योगेन क्षिप्त्वा पद्भ्यां तु धारयेत् ।
यत्रेच्छा तत्र तत्रैव गन्ता भवति तत्क्षणात् ॥८.५३॥
तद्वद्रक्तपटं तत्र क्षिप्त्वा संवेष्ट्य साधकः ।
अदृश्यो जायते सम्यक्पटे मुक्ते तु दृश्यते ॥८.५४॥
कान्ताभ्रं काञ्चनं सूतं कृत्वा गोलं तु वेशयेत् ।
वंशाग्रस्थं मन्त्रयुक्तं स्पर्शवेधी भवेत्तु तत् ॥८.५५॥
श्रीशैले पश्चिमे द्वारे नाम्ना ब्रह्मेश्वरेश्वरः ।
तल्लिङ्गं स्पर्शमित्याहुर्दुर्गा तत्रैव तादृशी ॥८.५६॥
नवमं यत्तु सोपानं नद्यां तत्तादृशं स्थितम् ।
देवस्य तिष्ठति द्वारे मुद्गवर्णं विलोकयेत् ॥८.५७॥
ब्रह्मेश्वरस्य नैरृत्ये संस्थितं तिन्तिणीवनम् ।
तस्मिन्वने स्थितं कुण्डं तत्र तिष्ठति चण्डिका ॥८.५८॥
एकपादेन चिञ्चाधस्तद्वृक्षात्पत्त्रमाहरेत् ।
बद्ध्वा वस्त्रे क्षिपेत्कुण्डे स्नानं तत्र समाचरेत् ॥८.५९॥
स्नानान्ते पोटली ग्राह्या सर्वे मत्स्या भवन्ति ते ।
तत्काष्ठैः पाचयेत्तानि कण्ठं पुच्छं शिरस्त्यजेत् ॥८.६०॥
भागं देवाय संकल्प्य द्वितीयमतिथेर्भवेत् ।
तृतीयं साधको भुक्त्वा क्षणं भवति मूर्छितः ॥८.६१॥
तत्क्षणाज्जायते सिद्धश्छिद्रां पश्यति मेदिनीम् ।
अजरामरतां याति न बाध्यस्त्रिदशैरपि ॥८.६२॥
अलम्पुरोत्तरे भागे ग्रामः स्याद्भीमपादुकः ।
तस्य ग्रामस्य पार्श्वे तु हस्तमात्रं खनेद्भुवम् ॥८.६३॥
पाषाणाः सर्पवद्वक्रा ग्राह्याः स्पर्शा भवन्ति ते ।
योगेश्वरीति विख्याता देवता या त्वलम्पुरे ॥८.६४॥
देव्या ह्यग्रे गुहा रम्या तन्मध्ये निखनेद्भुवम् ।
पाषाणा भेकसंकाशा ग्राह्या मार्जारविष्ठया ॥८.६५॥
मिश्रीकृत्य क्षिपेद्वङ्गे तद्वङ्गं तारतां व्रजेत् ।
मध्वाज्यसहितान्भक्षेत्पाषाणांस्तान्विचक्षणः ॥८.६६॥
श्रीशैलस्योत्तरद्वारे महेशो नाम देवता ।
भ्रमराम्रः स्थितस्तत्र तस्य पक्वफलानि वै ॥८.६७॥
स्फोटयेत्तत्र निर्यान्ति भ्रमरा जीवसंयुताः ।
इत्येवं प्रत्ययं ज्ञात्वा भ्रमरांस्तान्परित्यजेत् ॥८.६८॥
फलानि पाचयेत्क्षीरैः पिबेत्क्षीरं यथेष्टकम् ।
किंचिन्मूर्छा भवेत्तेन ततो बोधे पिबेत्पुनः ॥८.६९॥
एवं कुर्यात्त्रिसप्ताहं वज्रकायो भवेन्नरः ।
वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ॥८.७०॥
सर्ववाङ्मयवेत्ता च वायुवेगी भवेन्नरः ।
तेनैवाम्रफलैकेन वर्जितभ्रमरेण च ।
सहस्रपलवङ्गं तु द्रावितं स्तम्भयेद्ध्रुवम् ॥८.७१॥
क्षेपात्तारमवाप्नोति सत्यमीश्वरभाषितम् ।
तत्फलं छिद्रितं कृत्वा उत्पात्य भ्रमरं ततः ॥८.७२॥
शुद्धपारदकर्षैकं तत्तुल्यं कृष्णमभ्रकम् ।
क्षिप्त्वा तस्मिन्मुखं रुद्ध्वा लिम्पेन्मृद्गोमयेन च ॥८.७३॥
छायाशुष्कं तदाम्रोत्थैः क्वाथैर्यामं विपाचयेत् ।
स्वभावशीतला ग्राह्या गुटिका फलमध्यगा ॥८.७४॥
मुखस्था खेचरं दत्ते अदृश्यत्वं महाबला ।
क्वाथे वाक्पतितुल्यः स्याज्जीवेदाचन्द्रतारकम् ॥८.७५॥
तारं ताम्रं भुजंगं वा कोटिभागेन वेधयेत् ।
कृष्णाभ्रं शुद्धसूतं च पूर्ववत्तत्फले क्षिपेत् ॥८.७६॥
लिम्पेन्मृद्गोमयैस्तद्वदारण्योत्पलकैः पुटेत् ।
स्वभावशीतलं ग्राह्यं तद्रसं मधुसर्पिषा ॥८.७७॥
गुञ्जामात्रं सदा खादेन्मासाद्बालो भवेन्नरः ।
जीवेद्ब्रह्मदिनं वीरो नवनागबलान्वितः ॥८.७८॥
विद्यते लोकविख्यातः पूज्यः पञ्चोपचारकैः ।
ओं हुं फट्कारमन्त्रेण निर्विकल्पेन साधकैः ॥८.७९॥
वीक्ष्य पश्चिमदिग्भागे ह्यन्तरिक्षे च तत्क्षणात् ।
पश्येद्दिव्यविमानानि जायते प्रत्ययो महान् ॥८.८०॥
ततः पश्चिमदिग्भागे गच्छेन्नदीं तरेत्सुधीः ।
गह्वरं दृश्यते तत्र प्रविशेत्पश्चिममुखम् ॥८.८१॥
योजनत्रितयं गच्छेदेकाकी निर्विकल्पकः ।
पञ्चयोजनविस्तीर्णं दृश्यते कदलीवनम् ॥८.८२॥
तस्य मध्येऽतिविस्तीर्णं जलपूर्णं सरोवरम् ।
सिंहासनं तु तन्मध्ये शुद्धस्फटिकसंनिभम् ॥८.८३॥
तं दृष्ट्वा दण्डवद्भूमौ निपतेन्मन्त्रमुच्चरेत् ।
ओं ह्रीं विद्यावागीश्वराधिपतये ह्रीं ओं स्वाहा ।
स्नानं कृत्वा प्रयत्नेन लक्षमेकं जपेदनु ।
यथेष्टं भोजनं कृत्वा कन्दमूलफलादिकम् ॥८.८४॥
ततः सिंहासनस्योर्ध्वं शुद्धस्फटिकसंनिभः ।
चतुर्भुजस्त्रिनेत्रश्च दृश्यते परमेश्वरः ॥८.८५॥
स्तोत्रमन्त्रैर्नमस्कारैः प्रणिपत्य पुनः पुनः ।
वरं दत्ते यथेष्टं वै साधकस्य न संशयः ॥८.८६॥
शतमायतनं तत्र कूपानां च शतं नव ।
तावत्संख्यास्तथारामा नन्दनाख्यवनानि च ॥८.८७॥
तथा नवशतं वाप्यो विद्यन्ते कदलीवने ।
बिलद्वाराणि तावन्ति कल्पवृक्षास्तथैव च ॥८.८८॥
तत्रैव मौकली नाम यक्षिणी प्रकटा स्थिता ।
सा वक्ति भोजनं देहि यदीच्छसि समीहितम् ॥८.८९॥
ततस्तस्य प्रवक्तव्यं दास्यामि परमेश्वरि ।
क्षीरान्नं वा फलाहारं तदग्रे दापयेत्सुधीः ॥८.९०॥
सा वक्ति मम पुत्रोऽयं क्षणं वक्षसि धारय ।
यदा न मुञ्चसे भूमौ तदा सिद्ध्यष्टकं तव ॥८.९१॥
दास्येऽहं नात्र संदेहो भोजनान्तेऽथवा पुनः ।
त्यक्ते करोमि संहारं तस्माद्यत्नेन रक्षय ॥८.९२॥
इत्येवं साधको वीरः कुर्यात्सिद्धिमवाप्नुयात् ।
गच्छेदुत्तरदिग्भागे तत्सरो योजनार्धकम् ॥८.९३॥
तत्रास्ति पुष्पसम्पूर्णं दिव्याख्यं नन्दनं वनम् ।
पुष्पाणां घ्राणमात्रेण क्षुत्पिपासा न विद्यते ॥८.९४॥
अथवा भक्षयेत्तस्मात्फलमेकं यथाचितम् ।
तेन भक्षितमात्रेण वज्रकायो भवेन्नरः ॥८.९५॥
सरो दक्षिणदिग्भागं गच्छेद्योजनपादकम् ।
तत्र दाडिमसम्पूर्णं दृश्यते नन्दनं वनम् ॥८.९६॥
तत्फलं भक्षयेत्सिद्धो जीवेद्युगसहस्रकम् ।
तत्सरःपूर्वदिग्भागे गच्छेत्क्रोशार्धमात्रकम् ॥८.९७॥
तत्र धात्रीफलैः पूर्णं श्यामलं नन्दनं वनम् ।
फलानि भक्षयेत्तानि जीवेत्कल्पशतत्रयम् ॥८.९८॥
तत्सरःपश्चिमभागे गच्छेद्योजनमात्रकम् ।
तत्र बिल्वफलैः पूर्णं दृश्यते नन्दनं वनम् ॥८.९९॥
तत्फलं भक्षयेद्वीरो जीवेच्चन्द्रार्कतारकम् ।
तन्नन्दनवने रम्ये लिङ्गं स्यान्नीलवर्णकम् ॥८.१००॥
प्रविशेदुत्तरद्वारे तत्र नागो महाबलः ।
उग्रः सप्तफणाकारो दृश्यतेऽतिभयंकरः ॥८.१०१॥
तस्य कुर्यान्नमस्कारं ह्रुं ह्रुं कुर्यात्समुद्धरेत् ।
तदासौ वदते वाणीमदृश्यत्वं ददामि ते ॥८.१०२॥
गच्छ त्वं पश्चिमद्वारे तत्रास्ति दिव्यकन्यका ।
गच्छेत्तत्र महावीरः साधको मन्त्रमुच्चरन् ॥८.१०३॥
हारं दास्यति सा तुष्टा न प्रवेशं प्रयच्छति ।
तं हारं धारयेत्कण्ठे साक्षाद्वागीश्वरो भवेत् ॥८.१०४॥
ततस्तु दक्षिणं द्वारं गच्छेत्तत्र भयंकरम् ।
मुक्तकेशं वक्रनेत्रं गदाहस्तं दिगम्बरम् ॥८.१०५॥
नीलवर्णं क्षेत्रपालं दृष्ट्वा मन्त्रं समुच्चरेत् ।
ह हा हे हे हं ह्रुंकारं फतुं स्वाहान्तमेव च ॥८.१०६॥
अनेन मन्त्रपाठेन क्षेत्रपालः प्रसीदति ।
ददाति खेचरीं सिद्धिं न प्रवेशं कदाचन ॥८.१०७॥
ततस्तु पूर्वदिग्भागे द्वारं तत्र गणेश्वरः ।
दृश्यते पूजयेत्तं वै साधकः प्रविशेत्ततः ॥८.१०८॥
दृश्यते दिव्यचापं तु तथा लिङ्गं मनोहरम् ।
पूजयेच्छिवमन्त्रेण रकारेणैव नान्यथा ॥८.१०९॥
ततस्तत्र जपं कुर्यादहोरात्रमुपोषितः ।
प्रत्यक्षो जायते रुद्रो वरं दत्ते यथेप्सितम् ॥८.११०॥
इत्येवमादयः सन्ति सिद्धयः कदलीवने ।
अक्षरैर्लिखितं द्वारे तत्र पद्मावतीबिलम् ॥८.१११॥
सरसः पूर्वदिग्भागे योजनैकेन तिष्ठति ।
वमनं रेचनं कृत्वा प्रविशेत्तत्र साधकः ॥८.११२॥
धन्वन्तरं शतं यावद्गच्छेत्तत्र मृदङ्गम् ।
दृष्ट्वा तं वादयेद्वीरः सम्यक्पद्मावती ततः ॥८.११३॥
आगत्य चामृतं दत्ते यत्पानादमरो भवेत् ।
ततस्तं प्रार्थयत्येव आगच्छ मम मन्दिरम् ॥८.११४॥
दिव्यं कन्यापञ्चशतं परिवारेण स्वीकुरु ।
अहं पत्नी भविष्यामि यावद्ब्रह्मा च जीवति ॥८.११५॥
तदन्ते परमं स्थानं गच्छामो नात्र संशयः ।
कदम्बेश्वरदेवस्तु आग्नेय्यां दिशि विद्यते ॥८.११६॥
तस्य पूर्वतटाकाग्रे स्थितो वृक्षः कदम्बकः ।
तस्य पत्त्राणि संगृह्य कटुतैलेन लेपयेत् ॥८.११७॥
तद्वृक्षबीजतैलैर्वा तत्काष्ठैः पाचयेत्सुधीः ।
मत्स्या भवन्ति ते सर्वे ताम्रपात्रे विनिक्षिपेत् ॥८.११८॥
कण्ठपुच्छशिरोवर्जं मध्वाज्याभ्यां तु भक्षयेत् ।
तत्क्षणाज्जायते सिद्धो रुद्रतुल्यो महाबलः ॥८.११९॥
नदीस्थाने च यो वृक्षो विद्यते कुण्डलेश्वरे ।
पूर्ववत्क्रमयोगेन सिद्धिः स्यान्नात्र संशयः ॥८.१२०॥
कपोतेश्वरदेवस्योत्तरे पुष्पगिरिः स्थितः ।
तस्य कुर्यात्प्रयत्नेन त्रिवारं तु प्रदक्षिणम् ॥८.१२१॥
ततः शिरः समारुह्य खेचरत्वं लभेन्नरः ।
तत्पूर्वोत्तरदिग्भागे छेलिकाद्वारस्थितम् ॥८.१२२॥
उत्तराभिमुखं तत्र प्रविशेद्धनुषां त्रयम् ।
मूषिकाकारपाषाणास्तिष्ठन्ति तान्समाहरेत् ॥८.१२३॥
तक्रैः पिष्ट्वा तदेकं तु पिबेन्मूर्छामवाप्नुयात् ।
क्षणादुत्तिष्ठते सिद्धो जीवेद्ब्रह्मदिनत्रयम् ॥८.१२४॥
स एव सर्वलोहानां स्पर्शवेधकरो भवेत् ।
अहोरात्रोषितो भूत्वा देवाग्रे सिद्धिमाप्नुयात् ॥८.१२५॥
कपोतेश्वरदेवस्य दक्षिणे देवताद्वयम् ।
तन्मध्ये कटिमात्रं तु खनेद्गोरोचनोपमाः ॥८.१२६॥
पाषाणास्तान्समादाय मध्वाज्याभ्यां प्रपेषयेत् ।
तत्पानाज्जायते मर्त्यः कल्पायुर्नात्र संशयः ॥८.१२७॥
कपोतेश्वरदेवस्य वायव्ये हस्तमात्रकम् ।
खनेत्पारावतप्रख्याः पाषाणाः स्पर्शभेदकाः ॥८.१२८॥
तिष्ठन्ति ग्राहयेदेकं देवताराधने कृते ।
मल्लिकार्जुनदेवस्य ऐशान्यां भृगुपातनम् ॥८.१२९॥
विद्यते तत्समीपस्थं कुण्डं तस्मान्मृदाहरेत् ।
पञ्चगव्येन सम्मिश्रां खदिराङ्गारकैर्धमेत् ॥८.१३०॥
नीलोत्पलसमं लोहं पतत्येवाथ सेचयेत् ।
मध्वाज्याभ्यां सुतप्तं तत्सप्तवारं पुनः पुनः ॥८.१३१॥
तद्गोलं धारयेद्वक्त्रे विष्णुतुल्यो भवेन्नरः ।
भृगुपातात्पूर्वभागे क्रोशोदधिकपाटके ॥८.१३२॥
तस्याग्रे अच्छतैलाख्यः पर्वतो नाम विश्रुतः ।
तत्पश्चिमे बिलद्वारं तन्मध्ये धन्वपञ्चकम् ॥८.१३३॥
गते तु दृश्यते कुण्डं रसो लाक्षारसप्रभः ।
अलाबुपात्रे संगृह्य कोटिवेधी भवेत्तु सः ॥८.१३४॥
{स्पर्शवेधः: रोच्क्नेअर तेम्पुल्}
मल्लिकार्जुनदेवस्य पूर्वतो लोकविश्रुतः ।
प्राकारश्चन्द्रगुप्तस्य विद्यते तत्र मन्दिरम् ॥८.१३५॥
तस्य पूर्वे स्थितश्चैत्यश्चैत्यपूर्वे महाशिला ।
मुद्गवर्णा च सा ख्याता स्पर्शवेधकरा तु सा ॥८.१३६॥
गजस्तत्रैव विख्यातस्तमारुह्य समाहितः ।
तस्य पृष्ठात्तृणं ग्राह्यं तत्सर्वं कनकं भवेत् ॥८.१३७॥
गजस्य चोत्तरे पार्श्वे जानुमात्रं खनेद्भुवम् ।
जम्बूफलसमाकाराः सन्ति ते स्पर्शवेधकाः ॥८.१३८॥
गजस्याधः खनेद्वाथ जानुमात्रं लभेत्ततः ।
त्रिकोणगुटिकां सिद्धां लक्षवेधकरां पराम् ॥८.१३९॥
श्रीशैलस्य तु वायव्ये तीर्थं देवह्रदः स्थितम् ।
तत्र कुण्डे मुद्गवर्णाः पाषाणाः स्पर्शवेधकाः ॥८.१४०॥
तत्र कूर्मोपमं लिङ्गं स्पर्शवेधकरं परम् ।
कृत्तिकायां सुपूर्णायां कृत्वा पूजां समाहरेत् ॥८.१४१॥
गव्यूतिद्वयतस्तस्मान्नाम्ना नीलवनं स्मृतम् ।
तत्र लिङ्गं नीलवर्णं जलं चैव तु तादृशम् ॥८.१४२॥
अश्वाभ्रकाकसदृशाः पाषाणाः स्पर्शवेधकाः ।
सन्ति देवगृहस्यान्तः खनेज्जान्वन्तराद्धरेत् ॥८.१४३॥
श्रीशैलस्य तु नैरृत्ये नाम्ना गुण्डिप्रभा स्थिता ।
तस्याग्राद्गर्तमृद्ग्राह्या पीतवर्णा पुटैर्दहेत् ॥८.१४४॥
तस्मान्निःसरते हेम स्फुरद्रूपं न संशयः ।
तत्रैव भ्रमराः स्युश्च पूर्ववत्फलदायकाः ॥८.१४५॥
तथा तम्बीपुरे नाम्नि तीर्थे च विपुले शुभम् ।
सदाफलं तु विख्यातं पूर्ववत्साधयेत्सुधीः ॥८.१४६॥
महानन्देश्वरं नाम श्रीशैलस्य तु नैरृते ।
तस्य पूर्वोत्तरे पार्श्वे गच्छेद्राजपथेन तु ॥८.१४७॥
कालवर्णेश्वरो नाम देवस्तस्याग्रकुण्डकम् ।
इन्द्रगोपकसंकाशस्तन्मध्ये विद्यते रसः ॥८.१४८॥
तप्तानि सप्तलोहानि तत्सेकात्काञ्चनं भवेत् ।
श्रीशैलस्य तु ईशाने देवः स्यात्तुरलेश्वरः ॥८.१४९॥
तस्योत्तरे सुविख्यात उमापर्वत उत्तमः ।
तस्य मूर्ध्नि त्रिशूलाभा दर्भास्तिष्ठन्ति शोभनाः ॥८.१५०॥
तस्याधः कटिमात्रं तु खात्वा नीलां मृदं हरेत् ।
तां पचेदक्षजैः काष्ठैर्भागं देवाय कल्पयेत् ॥८.१५१॥
अतिथेश्च तथाग्नेश्च भागं भागं प्रकल्पयेत् ।
भागमात्मनि भुञ्जीत जीवेत्कल्पायुतं नरः ॥८.१५२॥
तत्र कोटीश्वरं ख्यातमिलेश्वरसमीपतः ।
तस्याग्रे पुष्पमात्रं तु स्पर्शवेधकरं भवेत् ॥८.१५३॥
अचलेशश्च तत्रैव स्पर्शवेधकरः परः ।
दक्षिणे लेशस्य योजनैकेन विद्यते ॥८.१५४॥
अमरेश्वरदेवाख्यस्तत्र स्वर्णशिला शुभा ।
तस्य पृष्ठे च गोमांसं महामांसं च वा क्षिपेत् ॥८.१५५॥
प्रज्वाल्य बदरीकाष्ठैः प्रातः स्वर्णोपमा तु सा ।
दृश्यते रजसा स्त्रीणां भावितं वस्त्रखण्डकम् ॥८.१५६॥
तच्छिलालोडितं कुर्याद्रक्षेदलाबुपात्रके ।
तेन संस्पर्शमात्रेण लोहं भवति हाटकम् ॥८.१५७॥
श्रीशैले तत्र तत्रैव पाषाणाः पिण्डभूस्थिताः ।
तच्चूर्णं त्रिफलासार्धं कर्षैकं भक्षयेत्सदा ॥८.१५८॥
मासार्धं तु जरां हन्ति जीवेदाचन्द्रतारकम् ।
नैरृत्ये शैलराजस्य पटाहकर्ण ईश्वरः ॥८.१५९॥
तस्य चेशानदिग्भागे पञ्चविंशतिधन्वके ।
द्विहस्तमात्रोर्ध्वशिला तत्र हस्तद्वयं खनेत् ॥८.१६०॥
श्रावसम्पुटसंकाशान्पाषाणांस्त्रिंशदाहरेत् ।
कृत्वा तानग्निवर्णांश्च सिञ्चेत्कूष्माण्डजैर्द्रवैः ॥८.१६१॥
तन्मध्यान्नवनीतं तु गृह्णीयाद्देवाय भागकम् ।
अतिथेर्भागैकं तु भागैकं भक्षयेद्बुधः ॥८.१६२॥
मूर्छा भवेद्दिवारात्रं प्रबुद्धो जायते नरः ।
जीवेद्वर्षायुतं वीरो वलीपलितवर्जितः ॥८.१६३॥
तस्य देवस्य सोपानं द्वितीयं स्पर्शवेधकम् ।
तस्य देवस्य पार्श्वे तु पाषाणाः श्वेतपीतकाः ॥८.१६४॥
सर्वस्पर्शा न संदेह एकमेव समाहरेत् ।
तस्य देवस्य पूर्वे तु कूपः स्यान्नातिदूरतः ॥८.१६५॥
तन्मध्ये भेकसंकाशाः पाषाणाः स्पर्शवेधाः ।
उत्तरे तस्य देवस्य विख्यातो लिङ्गपर्वतः ॥८.१६६॥
तस्य चोत्तरपार्श्वे तु नदी स्यात्पूर्ववाहिनी ।
नद्याः पश्चिमदिग्भागे लिङ्गं पिङ्गलवर्णकम् ॥८.१६७॥
तत्र शैलोदकैः कुण्डं पूर्णं स्यात्क्षणवेधकम् ।
महेशाद्दक्षिणे भागे चण्डिका योजनद्वये ॥८.१६८॥
पिण्डादेवीति विख्याता तस्या वायव्यकोणतः ।
कूपस्तिष्ठति तन्मध्ये पाषाणा मुद्गवर्णकाः ॥८.१६९॥
तथा पथ्यानिभाश्चैव सर्वे ते स्पर्शवेधकाः ।
स्पर्शनादत्र सर्वेषां वेधयुक्तिर्विधीयते ॥८.१७०॥
स्थूलश्चेत्पेषयेच्छ्लक्ष्णं तेन मूषां तु कारयेत् ।
अष्टलोहानि तन्मध्ये समावर्त्यानि कारयेत् ॥८.१७१॥
तत्सर्वं जायते स्वर्णमेवं कुर्याद्यथेप्सितम् ।
सूक्ष्मश्चेदष्टलोहानां द्रुतानां यत्र कुत्रचित् ॥८.१७२॥
तं सर्वं निक्षिपेन्मध्ये सर्वं तत्काञ्चनं भवेत् ।
मल्लिकार्जुनवायव्ये तीर्थं सर्वेश्वरं स्थितम् ॥८.१७३॥
तस्य दक्षिणदिग्भागे जलमार्गेऽर्धयोजने ।
गते डाङ्गरिकं तत्र दृश्यते तस्य मूर्धनि ॥८.१७४॥
धात्रीफलानि कृष्णानि विद्यन्ते तानि भक्षयेत् ।
यथेष्टानि तु सप्ताहं वज्रकायो भवेन्नरः ॥८.१७५॥
वलीपलितनिर्मुक्तो जीवेत्कल्पशतत्रयम् ।
तस्माच्च दक्षिणे भागे काकलेरीमहानवम् ॥८.१७६॥
तत्रास्ति स्तम्भकदली प्रविशेत्तत्र साधकः ।
गच्छेत्क्रोशार्धमात्रं तु दृश्यते रसकुण्डकम् ॥८.१७७॥
गृहीत्वालाबुपात्रे तु कोटिवेधी भवेद्रसः ।
तस्मिन्वने मयूरः स्यान्नीलवर्णशिलामयः ॥८.१७८॥
मुखाग्रे तस्य कुण्डं तु द्वादशाङ्गुलनीलकम् ।
तन्मध्ये शुष्कवंशं तु क्षिप्त्वा स्यान्नूतनः क्षणात् ॥८.१७९॥
दिने पत्त्रं फलं पुष्पं जायते तस्य नान्यथा ।
तत्र पारदप्रस्थैकं क्षिप्त्वा तावज्जलं हरेत् ॥८.१८०॥
क्षौद्रतुल्यं पिबेत्तं वै तत्क्षणान्मूर्छितो भवेत् ।
मुहूर्ताल्लब्धराज्यःस्याज्जीवेद्युगसहस्रकम् ॥८.१८१॥
शैलस्याग्नेयभागे तु गुटिकासिद्धकेश्वरः ।
विद्यते तस्य पुरतः पञ्चहस्तां खनेद्भुवम् ॥८.१८२॥
पाषाणा बदराकाराः सन्ति खेगतिदायकाः ।
एकमेव समाहृत्य वक्त्रे धार्यः खगामिभिः ॥८.१८३॥
श्रीशैले सर्वयोगानां उक्तानां विधिरुच्यते ।
मन्त्रन्यासं पुरा कृत्वा पश्चाल्लक्षं जपेदनु ॥८.१८४॥
अघोरं तेन वै शीघ्रं तत्तत्सिद्धिमवाप्नुयात् ।
क्षेत्रदेवतामावाहयेत् ।
तत्र स्वप्ने देवता प्रत्यक्षीभूय वरं ददाति ।
एवं मन्त्रपरैः सुनिश्चलतरैर्भक्तैश्च तत्साधकैः शम्भोः पूजनतत्परैः प्रतिदिनं पूजाविधेः पालकैः ।
कार्यं श्रीगिरिसाधनं जपपरैराम्नायपारंगतैर्नो चेत्क्लेशकरं पराकृतमहो व्यर्थं भवेन्निश्चितम् ॥८.१८५॥
N/A
References : N/A
Last Updated : June 24, 2015
TOP