सुभाषितावलि - सुभाषित २०१ - २५०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
०२०१-१ कुसुमस्तबकस्येव द्वयी मृत्तिर्मनस्विनः ।
०२०१-२ मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥
०२०२-१ उपकारेण दूयन्ते न सहन्तेनुकम्पितां ।
०२०२-२ आपत्स्वपि दुराराध्या नित्यदुःखा मनस्विनः ॥
०२०३-१ जलसेकेन वर्धन्ते तरवो नाश्मसंचयाः ।
०२०३-२ भव्यो हि द्रव्यतामेति क्रियां प्राप्य तथाविधां ॥
०२०४-१ अवृत्तिभयमन्त्यानां मध्यानां मरणाद्भयं ।
०२०४-२ उत्तमानां तु सत्त्वानामवमानात्परं भयं ॥
०२०५-१ तापं हन्ति सुखं सूते जीवयत्युज्ज्वलं यशः ।
०२०५-२ अमृतस्य प्रकारोयं दुर्लभः साधुसंगमः ॥
०२०६-१ रसायनमयी शीता परमानन्ददायिनी ।
०२०६-२ नानन्दयति कं नाम साधुसंगतिचन्द्रिका ॥
०२०७-१ साधुसङ्गतरोर्जातं विवेककुसुमं शुभं ।
०२०७-२ रक्षन्ति ये महात्मानो भाजनं ते फलश्रियः ॥
०२०८-१ शून्यमाकीर्णतामेति मृत्युरप्युत्सवायते ।
०२०८-२ आपत्संपदिवाभाति विद्वज्जनसमागमे ॥
०२०९-१ हिममापत्सरोजिन्या मोहनीहारमारुतः ।
०२०९-२ जयत्येको जगत्यस्मिन्साधुः साधुसमागमः ॥
०२१०-१ परं विवर्धनं बुद्धेरज्ञानतरुशातनं ।
०२१०-२ समुत्सारणमाधीनां विद्धि साधुसमागमं ॥
०२११-१ यः स्नातः शीतसितया साधुसंगतिगङ्गया ।
०२११-२ किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥
०२१२-१ हृदयानि सतामेव कठिनानीति मे मतिः ।
०२१२-२ खलवाग्विशिखैस्तीक्ष्णैर्भिद्यन्ते न मनाग्यतः ॥
०२१३-१ आः किमर्थमिदं चेतः सतामम्भोधिदुर्भरं ।
०२१३-२ इति क्रुधेव दुर्वेधाः परदुःखैरपूरयत् ॥
०२१४-१ काचो मणिर्मणिः काचो येषां तेन्ये हि देहिनः ।
०२१४-२ सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः ॥
०२१५-१ दोषानपि गुणीकर्तुं दोषीकर्तुं गुणानपि ।
०२१५-२ शक्तो वादी न तत्तथ्यं दोषा गुणा गुणाः ॥
०२१६-१ गुणराशिमहाभारनिर्भरापूरितान्तराः ।
०२१६-२ सन्तो गौरवमायान्ति यदि तत्र किमद्भुतं ॥
०२१७-१ स्वात्मन्येव लयं यातु तादृशो गुणिनां गुणः ।
०२१७-२ स्वयं प्रख्याप्यमानोपि यस्तृणाय न मन्यते ॥
०२१८-१ गुणवज्जनसंपर्काद्याति स्वल्पोपि गौरवं ।
०२१८-२ पुष्पमालानुषङ्गेण तृणं शिरसि धार्यते ॥
०२१९-१ सुवृत्तस्यैकरूपस्य परप्रीत्यै धृतोन्नतेः ।
०२१९-२ साधोः स्तनयुगस्येव पतनं कस्य तुष्टये ॥
०२२०-१ उदेति सविता रक्तो रक्त एवास्तमेति च ।
०२२०-२ संपतौ च विपतौ च महतामेकरूपता ॥
०२२१-१ पातेन कन्दुक इवोत्पतत्यार्यः पतन्नपि ।
०२२१-२ तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा ॥
०२२२-१ पातितोपि कराघातैरुत्पतत्येव कन्दुकः ।
०२२२-२ प्रायेण हि सुवृत्तानामस्थायिन्यो विपत्तयः ॥
०२२३-१ घ्युतोप्युद्गच्छति पुनः प्रज्ञावान्न तु मूढधीः ।
०२२३-२ कन्दुकः पतनोत्थायी न तु कान्ताकुचद्वयी ॥
०२२४-१ अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरं ।
०२२४-२ सदा लोकहिते युक्ता रत्नदीपा इवोत्तमाः ॥
०२२५-१ निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
०२२५-२ नहि संहरते ज्योत्स्नां चन्द्रश्चण्डालवेश्मनि ॥
०२२६-१ नालोकः क्रियते सूर्ये भूः प्रतीपं न धार्यते ।
०२२६-२ नहि प्रत्युपकाराणामपेक्षा सत्सु विद्यते ॥
०२२७-१ अपकुर्वन्नपि प्रायः प्राप्नोति महतः शुभं ।
०२२७-२ दहन्तमप्यौर्वमग्निं संतरपयति वारिधिः ॥ Qस्व्०२२७-३ कस्यापि
०२२७-४ सत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः दृष्ट्वापि दृश्यते दृश्यं श्रुत्वापि श्रूयते पुनः ।
०२२७-५ सत्यं न साधुवृत्तस्य दृश्यते पुनरुक्तता ॥
०२२९-१ सत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः ।
०२२९-२ तुल्यैरपि गुणैश्चित्रं सन्तः सन्तः शराः शराः ॥
०२३०-१ लाभप्रणयिनो नीचा मानकामा मनस्विनः ।
०२३०-२ मद्गुः सरसि मत्स्यार्थी हंसस्येष्टा प्रसन्नता ॥
०२३१-१ परदुःखं समाकर्ण्य स्वभावसरलो जनः ।
०२३१-२ उपकारासमर्थत्वात्प्राप्नोति हृदये व्यथां ॥
०२३२-१ ते वन्द्यास्ते कृतिनः श्लाघ्या तेषां हि जन्मनोत्पत्तिः ।
०२३२-२ यैरुज्झितात्मकार्यैः सुहृदामर्था हि साध्यन्ते ॥
०२३३-१ अशठमलोलमजिह्मं त्यागिनमनुरागिणं विशेषज्ञं ।
०२३३-२ यदि नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता तत्र ॥
०२३४-१ आरोग्यं विद्वत्ता सज्जनमैत्त्री महाकुले जन्म ।
०२३४-२ स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थैः ॥
०२३५-१ स्वल्पापि साधुसंपद्भोग्या महतां न पृथ्व्यपि खलश्रीः ।
०२३५-२ सारसमेव पयस्तृषमपहरति न वारिधेर्जातु ॥
०२३६-१ न भवति भवति च न चिरं भवति चिरं चेल्फलो विसंवदति ।
०२३६-२ मन्युः सत्पुरुषाणां तुल्यः स्नेहेन नीचानां ॥
०२३७-१ दोषो गुणाय गुणिनां महदपि दोषाय दोषिणां सुकृतं ।
०२३७-२ तृणमिव दुग्धाय गवां दुग्धमिव विषाय सर्पाणां ॥
०२३८-१ विषमगता अपि न बुधाः परिभवमिश्रां श्रियं हि वाञ्छन्ति ।
०२३८-२ न पिबन्ति भ्ॐअमम्भः सरजसमिति चातका एते ॥
०२३९-१ योग्यतयैव विनाशं प्रायोनार्येषु यान्ति गुणवन्तः ।
०२३९-२ स्फुटवचना एव शुकाः पञ्जरबन्धं निषेवन्ते ॥
०२४०-१ सकृदपि दृष्ट्वा पुरुषं प्राज्ञास्तुलयन्ति सारफल्गुत्वं ।
०२४०-२ हस्ततुलयापि निपुणाः पलपरिमाणं विजानन्ति ॥
०२४१-१ सुजनो न याति वैरं परहितनिरतो विनाशकालेपि ।
०२४१-२ छेदेपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥
०२४२-१ निर्गुणमप्यनुरक्तं प्रायो न समाश्रितं जहति सन्तः ।
०२४२-२ सहवृद्धिक्षयभाजं वहति शशाङ्कः कलङ्कमपि ॥
०२४३-१ अन्त्यावस्थोपि बुधः स्वगुणं न जहाति जातिशुद्धतया ।
०२४३-२ न श्वेतभावमुज्झति शङ्खः शिखिभुक्तमुक्तोपि ॥
०२४४-१ दोषमपि गुणवति जने दृष्ट्वा गुणरागिणो न खिद्यन्ते ।
०२४४-२ प्रीत्यैव शशिनि पतितं पश्यति लोकः कलङ्कमपि ॥
०२४५-१ साप्तपदीनं सख्यं भवेत्प्रकृत्या विशुद्धचित्तानां ।
०२४५-२ किमुतान्योन्यगुणकथाविस्रम्भनिबद्धभावानां ॥
०२४६-१ स्पृहणीयाः कस्य न ते सुमतेः सरलाशया महात्मानः ।
०२४६-२ त्रयमपि येषां सदृशं हृदयं वचनं तथाचारः ॥
०२४७-१ गुणिनः समीपवर्ती पूज्यो लोकस्य गुणविहीनोपि ।
०२४७-२ विमलेक्षणप्रसङ्कादञ्जनमाप्नोति काणाक्षि ॥
०२४८-१ सहसिद्धमिदं महतां धनेष्वनास्था गुणेषु कृपणत्वं ।
०२४८-२ परदुःखे कातरता महच्च धैर्यं स्वदुःखेषु ॥
०२४९-१ अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः ।
०२४९-२ हेम्नः कठिनस्यापि द्रवणोपायोस्ति न तृणानां ॥
०२५०-१ उपकृतिसाहसिकतया क्षतिमपि गणयन्ति नो गुणिनः ।
०२५०-२ जनयन्ति हि प्रकाशं दीपशिखाः स्वाङ्गदाहेन ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP