सुभाषितावलि - सुभाषित ५५१ - ६००
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
०५५१-१ वर्तते येन पातङ्गिः षण्मासान्द्वौ च वत्सरौ ।
०५५१-२ राशिः स एव चन्द्रस्य न याति दिवसत्रयं ॥
०५५२-१ शिरसा धार्यमाणोपि स्ॐअः स्ॐएन शंभुना ।
०५५२-२ तथापि कृशतां धत्ते कष्टः खलु पराश्रयः ॥ Qस्व्०५५२-३ प. पाजकस्य
०५५२-४ पततु वारिणि यातु दिगन्तरं
०५५२-५ विशतु वह्निमथो व्रजतु क्षितिं कथं स दन्तरहितः सूर्यः सूरिभिरुच्यते ।
०५५२-६ यो मीनराशिं भुक्त्वैव मेषं भोक्तुं समुद्यतः ॥
०५५४-१ पततु वारिणि यातु दिगन्तरं
०५५४-२ विशतु वह्निमथो व्रजतु क्षितिं ।
०५५४-३ रविरसावियतास्य गुणेषु का
०५५४-४ सकललोकचमत्कृतिषु क्षतिः ॥
०५५५-१ तत्तावदेव शशिनः स्फुरितं महीयो
०५५५-२ यावन्नो तीक्ष्णरुचिमण्डलमभ्युपैति ।
०५५५-३ अभ्युद्यते सकलधामनिधौ च तस्मिन्-
०५५५-४ निन्दोः सिताभ्रशकलस्य च को विशेषः ॥
०५५६-१ सद्वृत्तयः सदसदर्थविवेकिनो ये
०५५६-२ ते पश्य कीदृशममुं समुदाहरन्ति ।
०५५६-३ चौरासतीप्रभृतयो ब्रुवते यदस्य
०५५६-४ तद्गृह्यते यदि कृतं तदहस्करेण ॥
०५५७-१ एकैव सामृतमयी सुतरामनर्घा
०५५७-२ काप्यस्त्यसौ शशधरस्य कला ययैव ।
०५५७-३ आरोपितो गुणविदा परमेश्वरेण
०५५७-४ चूडामणौ न गणितोस्य कलङ्कदोषः ॥
०५५८-१ उद्यन्त्यमूनि सुबहूनि महामहांसि
०५५८-२ चन्द्रोप्यलं भुवनमण्डलमण्डनाय ।
०५५८-३ सूर्यादृते न तदुदेति न चास्तमेति
०५५८-४ येनोदितेन दिनमस्तमितेन रात्रिः ॥
०५५९-१ लोकानन्दाद्विरमति न यः क्षीयमाणोपि भूयः
०५५९-२ स्वःस्थे तस्मिन्किल दिनमुखं नूतनं नाभविष्यत् ।
०५५९-३ दैवं कीदृक्कथमपि यथा भर्तुमात्मानमेव
०५५९-४ व्यग्रः कालं गमयति सखे सोप्ययं पश्य चन्द्रः ॥
०५६०-१ क्षीणश्चन्द्रो विशाति तरणेर्मण्डलं मासि मासि
०५६०-२ लब्ध्वा कांचित्पुनरपि कलां दूरदूरानुवर्ती ।
०५६०-३ संपूर्णश्चेत्कथमपि तथा स्पर्धयोदेति भानोर्-
०५६०-४ नो दौर्जन्याद्विरमति जडो नापि दैन्याद्व्यरंसीत् ॥
०५६१-१ पादन्यासं क्षितिधरगुरोर्मूर्ध्नि कृत्वा सुमेरोः
०५६१-२ क्रान्तं येन क्षपिततमसा मध्यमं धाम विष्णोः ।
०५६१-३ सोयं चन्द्रः पतति गगनादल्पशेषैर्मयूखैर्-
०५६१-४ दूरारोहो भवति महतामप्युपभ्रंशनिष्ठः ॥ Qस्व्०५६१-५ कलशकस्य
०५६१-६ पातः पूष्णो भवति महते नोपतापाय यस्मात्-
०५६१-७ कालेनास्तं क इव न गता यान्ति यास्यन्ति चान्ये क्व तत्तेजस्तादृग्ज्वलनमहसो नाशपिशुनं
०५६१-८ पराभूतिः क्वासौ विसदृशतराद्राहुशिरसः ।
०५६१-९ विधेर्योगादेतत्समुचितमिदं तु व्यथयति
०५६१-१० त्रपाहीनो मित्रात्तदपि गगने यद्विहरति ॥
०५६३-१ पातः पूष्णो भवति महते नोपतापाय यस्मात्-
०५६३-२ कालेनास्तं क इव न गता यान्ति यास्यन्ति चान्ये ।
०५६३-३ एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभिस्-
०५६३-४ तस्मिन्नेव प्रकृतिमहति व्य्ॐनि लब्धोवकाशः ॥
०५६४-१ आ सर्गात्प्रतिवासरं रसशतैर्या बोधिता पोषिता
०५६४-२ कल्पान्तावसरेथ सैव पृथिवी स्वैरेव दग्धा करैः ।
०५६४-३ कृत्वेत्थं किमपि स्वकर्म नियतेः पूर्वापरोपप्लुतं
०५६४-४ कष्टं सोपि दिनान्तवीतकिरणस्तिग्मांशुरस्तं गतः ॥
०५६५-१ येनोन्मथ्य तमांसि मांसलघनस्पर्धीनि सर्वं जगच्-
०५६५-२ चक्षुष्मत्परमार्थतः कृतमिदं देवेन तिग्मत्विषा ।
०५६५-३ तस्मिन्नस्तमिते विवस्वति कियान्क्रूरो जनो दुर्जनो
०५६५-४ यद्बध्नाति धृतिं शशाङ्कशकलालोकेथ दीपेथवा ॥
०५६६-१ शोच्यस्तावदुमापतिः प्रभुतया यो मूर्ध्नि गङ्गोक्षिते
०५६६-२ सच्छिद्रं नृशिरःकपालममलं चन्द्रं च धत्ते समं ।
०५६६-३ चन्द्रः शोच्यतरस्ततः परिभवेप्येवंविधे यः सति
०५६६-४ ज्योत्स्नाहासविकासपाण्डुरवपुर्मुख्यां मुदं पुष्यति ॥
०५६७-१ पूर्णं वीचिभुजैः स्ववृद्धिरभसादिन्न्दुं समालिङ्गति
०५६७-२ क्षीणं दूरत एव मुञ्चति पिता भूत्वा जलानां निधिः ।
०५६७-३ प्रक्षीणस्य तु येन तस्य वसुना कृत्वा क्रमेणोदयं
०५६७-४ पूर्णत्वे च दवीयसि स्थितमहो मित्राय तस्मै नमः ॥
०५६८-१ ध्वान्तेन ग्रथितैर्ग्रहक्षितिपतेर्देवस्य दूरस्थितेः
०५६८-२ सच्चक्रप्रमदावहाभ्युदितता कैर्नाम नाकाङ्क्षिता ।
०५६८-३ एतेनाभ्युदितेन संप्रति पुनः कष्टं तथा चेष्टितं
०५६८-४ लोकस्तीक्ष्णकरोयमित्यभिमुखं नैनं यथा प्रेक्षते ॥
०५६९-१ दृष्टैव यं करसहस्रहृतान्धकारं
०५६९-२ भीत्यापयान्त्यनुदिनं शतशः पिशाचाः ।
०५६९-३ क्षीणे विधौ हरिविलूनकरोति चित्रं
०५६९-४ गृह्णाति तं द्युमणिमभ्रपिशाच एकः ॥
०५७०-१ तमोग्रस्तं जगत्सर्वं त्रातुं भानुः सदोद्यतः ।
०५७०-२ तं तु त्रातुं तमोग्रस्तं जगत्येकोपि न क्षमः ॥
०५७१-१ रात्रौ गुणनिधेः पद्मात्कुमुदं यदनक्षरं ।
०५७१-२ प्राप्ता लक्ष्मीः स महिमा राज्ञो जडनिधेर्ध्रुवं ॥
०५७२-१ आभाति चन्द्ररहिता न कदापि रात्रिश्-
०५७२-२ चन्द्रोपि रात्रिरहितो गतकान्तिरेव ।
०५७२-३ किं कारणं यदनयोः प्रतिमासमेको
०५७२-४ जातो निस्तरतया परिरम्भयोगः ॥
०५७३-१ गगनशयनलीनां रात्रिमुत्सृज्य चन्द्रो
०५७३-२ व्रजति धवलपक्षे कृष्णपक्षे तु रात्रिः ।
०५७३-३ अपसरति यदीन्दोर्व्य्ॐअतल्पे प्रसुप्तात्-
०५७३-४ त्रुटति तदनयोः किं तावता दम्पतित्वं ॥
०५७४-१ आशाः प्रकाशयति यस्तिमिराणि भङ्क्त्वा
०५७४-२ बोधं दृशां दिशति भूरिगुणेष्वभीष्टः ।
०५७४-३ खेदाय यस्य न परोपकृतिष्वटाट्या
०५७४-४ धीमान्नमस्यति न कस्तमिनं प्रशस्यं ॥
०५७५-१ विचारस्तथ्यो वा भवतु वितथो वा किमपरं
०५७५-२ तथाप्युच्चैर्धाम्नो भवति बहुजल्पो जनरवः ।
०५७५-३ तुलोत्तीर्णस्यापि प्रथितमहिमध्वस्ततमसो
०५७५-४ रवेस्तादृक्तेजो न भवति हि कन्यां गत इति ॥
०५७६-१ उडुगणपरिवारो नायकोप्योषधीनाम्-
०५७६-२ अमृतमयशरीरः कान्तियुक्तोपि चन्द्रः ।
०५७६-३ भवति विगतरश्मिर्मण्डलं प्राप्य भानोः
०५७६-४ परसदननिविष्टः को लघुत्वं न याति ॥
०५७७-१ उच्चः सत्फलदो यथायमहमप्येतादृगेतावता
०५७७-२ स्पर्धां मन्द मदोद्धतः स्वजनकेनार्केण मा मा कृथाः ।
०५७७-३ दूरादेव भवादृशोस्य महसा ध्वस्ताः समस्ताः स्वयं
०५७७-४ नैवेच्छत्ययमत्ययं गुणिसखः कस्यापि तेजोनिधिः ॥
०५७८-१ तुल्या सुखस्थितिरमुष्य ममेति राज्ञि
०५७८-२ स्पर्धां निजेपि जनके जनकेलिहेतौ ।
०५७८-३ मा राजनन्दन कृथाः स हि सर्वलोक-
०५७८-४ ध्वान्तान्तकृद्गिरिशहस्तपवित्रितात्मा ॥
०५७९-१ मात्सर्येण जहद्ग्रहान्विसदृशे धूमध्वजे योग्यतां
०५७९-२ ज्ञात्वा स्वां विदधत्त्विषं दिनपतिर्हास्यप्रशान्त्युन्मुखः ।
०५७९-३ दैवं वेत्ति न यः शिखी स परतो नामास्तु तत्संभवाः
०५७९-४ स्युर्दीपा अपि यद्वशेन जगतां तिग्मांशुविस्मारकाः ॥
०५८०-१ पाद्मा ये मदनुव्रता दधति ते क्लान्तिं तुषाराहता
०५८०-२ येप्येते दिवसा मदेकशरणाः कार्श्यं परं यान्ति ते ।
०५८०-३ गच्छन्नित्थमसौ समाश्रितजनप्रीत्येव दूरां दिशं
०५८०-४ हेमन्ते भगवानहर्पतिरहो लोके गतः सेव्यतां ॥
०५८१-१ नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।
०५८१-२ विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥
०५८२-१ एकोहमसहायोहं कृशोहमपरिच्छदः ।
०५८२-२ स्वप्नेप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ॥
०५८३-१ मत्तेभकुम्भनिर्भेदकठोरनखराशनिः ।
०५८३-२ मृगारिरिति नाम्नैव लघुत्वं याति केसरी ॥
०५८४-१ पतन्ति नैव मातङ्गकुम्भपाटनलम्पटाः ।
०५८४-२ वल्गत्स्वपि कुरङ्गेषु मृगारेर्नखराः खराः ॥
०५८५-१ किं किर्मः क उपालभ्यो यत्रेदमसमञ्जसं ।
०५८५-२ काकिण्यपि न सिंहस्य मूल्यं कोटिस्तु दन्तिनः ॥
०५८६-१ लीलादलितधृष्टेभकुम्भपीठस्य निर्भयैः ।
०५८६-२ कथं केसरिणः क्रान्तं सुप्तस्यापि मृगैः पदं ॥
०५८७-१ मत्तेभकुम्भनिर्भेदरुधिरारुणपाणिना ।
०५८७-२ हरिणा हरिणः स्पर्धां वराकः कुरुते कथं ॥
०५८८-१ तावद्गर्जति मातङ्गो वने मदभरालसः ।
०५८८-२ शिरोविलग्नलाङ्गूलो यावन्नायाति केसरी ॥
०५८९-१ शौर्यदर्पबलाध्मातश्वसद्गण्डान्तशोभिनः ।
०५८९-२ सटामुत्पाट्य सिंहस्य किं नराः सुखमासते ॥
०५९०-१ कोपोदेकतलाघातनिपतन्मत्तदन्तिनः ।
०५९०-२ हरेर्हरिणयुद्धेस्य कियान्व्याक्षेपविस्तरः ॥
०५९१-१ यावदस्थिषु संलग्नाः कराः केसरिणः क्षणं ।
०५९१-२ यूथस्य प्राणितं तावत्तदरण्यनिवासिनः ॥
०५९२-१ सग्र्वगर्जद्गजगण्डमण्डली-
०५९२-२ विखण्डनोड्डामरविक्रमक्रमः ।
०५९२-३ अनन्तविश्रान्तकुरङ्गसंगर-
०५९२-४ प्रसङ्गमङ्गीकुरुते कथं हरिः ॥
०५९३-१ सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
०५९३-२ प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ॥
०५९४-१ एकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रेज्ञे ।
०५९४-२ सत्त्वोच्छ्रिते मृगपतौ राजेति गिरः परिणमन्ति ॥
०५९५-१ सिंहः करोति विक्रममलिझाङ्काराङ्किते करे करिणः ।
०५९५-२ न पुनर्नखमुखविलिखितभूधरकुहरस्थिते नकुले ॥
०५९६-१ समदकरिकुम्भदारणमदपङ्कच्छुरितकेसरसटस्य ।
०५९६-२ सिंहस्य क इव वक्त्रे करतलमाधातुमुत्सहते ॥
०५९७-१ निष्प्रग्रहेषु करिपोतशतेषु मोहाद्-
०५९७-२ वल्गत्सु बालिशतया पुरतोप्यटत्सु ।
०५९७-३ मत्तेभकुम्भदलनोचितचित्तवृत्तेः
०५९७-४ सिंहस्य लोचननिमीलनमेव युक्तं ॥
०५९८-१ दृष्ट्वैव रोषवशघूर्णितकेसरांस-
०५९८-२ मायान्तमन्तकसमं पुरतो मृगारिं ।
०५९८-३ मांसं चिखादिषुभिरेत्य पतत्रिपूगैर्-
०५९८-४ भ्रान्तं मदान्धगजयूथपमस्तकेषु ॥
०५९९-१ यः केसरी खरनखक्रकचोग्रपाणि-
०५९९-२ निर्दारितेभवरकुम्भसमुद्भवेन ।
०५९९-३ नव्येन शोणितचयेन निरस्ततृष्णो
०५९९-४ नित्यं बभूव धिगहोद्य तृणेन सोर्थी ॥
०६००-१ विस्रं वपुः परवधप्रवणा च बुद्धिस्-
०६००-२ तिर्यक्तयैव कथितः सदसद्विवेकः ।
०६००-३ इत्थं न किंचिदपि साधु मृगाधिपस्य
०६००-४ तेजस्तु तत्स्फुरति येन जगद्वराकं ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP