सुभाषितावलि - सुभाषित १००१ - १०४०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
१००१-१ आहूतेषु विहंगमेषु मशको नायान्पुरोवार्यते
१००१-२ मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां रुचं ।
१००१-३ खद्योतोपि न कम्पते प्रचलितुं मध्येपि तेजस्विनां
१००१-४ धिक्सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरं ॥
१००२-१ एवं चेत्सरसस्वभावपरता जाड्यं किमेतादृशं
१००२-२ यद्यस्त्येव निसर्गतः सरलता किं ग्रन्थिमत्तेदृशी ।
१००२-३ मूलं चेच्छुवि पङ्कजश्रुतिरियं कस्माद्गुणा यद्यमी
१००२-४ किं छिद्राणि सखे मृणाल भवतस्तत्त्वं न मन्यामहे ॥
१००३-१ त्वं भोगी यदि कुण्डली यदि भवांस्त्वं चेद्भुजंगः सखे
१००३-२ धत्से चेन्मुकुटं सरत्नमुरग स्वस्त्यस्तु ते किं ततः ।
१००३-३ अस्थाने यदि कञ्चुकं त्यजसि तन्नास्माकमत्र स्पृहा
१००३-४ किं तु क्रूरविषोल्कया दहसि यद्भ्रातः क एष ग्रहः ॥
१००४-१ मौलौ सन्मणयो गृहं गिरिगुहा त्यागः किलात्मत्वचो
१००४-२ निर्यत्नोपनतैश्च वृत्तिरनिलैरेकत्र चर्येदृशी ।
१००४-३ अन्यत्रानृजु वर्त्म वाग्वितसना दृष्टौ विषं दृश्यते
१००४-४ यादृक्तामनु दीपको ज्वलति किं भोगिन्सखे किन्विदं ॥
१००५-१ भूयांस्यस्य मुखानि नाम विदितैवास्ते महासत्त्वता
१००५-२ कद्र्वाः प्राक्प्रसवोयमत्र कुपिते चिन्त्यं यथेदं जगत् ।
१००५-३ त्रैलोक्याद्भुतमीदृशं तु चरितं शोषस्य येनास्य सा
१००५-४ प्रोन्मृज्येव निवर्तिता विषधरज्ञानेपि दुर्वर्णिका ॥
१००६-१ किं तेन हेमगिरिणा रजताद्रिणा वा
१००६-२ यस्याश्रयेण तरवस्तरवस्त एव ।
१००६-३ मन्यामहे मलयमेव यदाश्रितानि
१००६-४ शाहोटनिम्बकुटजान्यपि चन्दनानि ॥
१००७-१ यान्दिग्ध्वैव कृता विषेण कुसृतिर्येषां कियद्गण्यते
१००७-२ लोकं हन्तुमनागसं द्विरसना रन्ध्रेषु ये जाग्रति ।
१००७-३ व्यालास्तेपि दधत्यमी सदसतोर्मूढा मणीन्मूर्धभिर्-
१००७-४ नौचित्याद्गुणशालिनां क्वचिदपि भ्रंशोस्त्यलं चिन्तया ॥
१००८-१ तत्प्रत्यस्त्रतया धृतो न तु कृतः सम्यक्स्वतन्त्रो भयात्-
१००८-२ स्वस्थस्तान्प्रतिघातयेदिति यथाकामं न संपोषितः ।
१००८-३ संशुष्यन्वृषदंश एष कुरुतां मूकः स्थितोप्यत्र किं
१००८-४ गेहे किं बहुनाधुना गृहपतेश्चौराश्चरन्त्याखवः ॥
१००९-१ स्वात्मीयान्न ददासि चेत्फणमणीन्मा दाः परार्थं परैर्-
१००९-२ यत्किंचिन्निहितं रुणत्सि किमिदं निध्यादि दुष्टाशया ।
१००९-३ एतत्तावदलं भवन्तमपरं पृच्छामि कस्मादहे
१००९-४ फूत्कारैर्विषवह्निवेगगुरुभिर्दन्दह्यसेमुं जनं ॥
१०१०-१ निःसाराः सुतरां लघुप्रकृतयो योग्या न कार्ये क्वचिच्-
१०१०-२ छुष्यन्तोद्य जरत्तृणाद्यवयवाः प्राप्ताः स्वतन्त्रेषु ये ।
१०१०-३ अन्तःसारपराङ्मुखेण धिगहो ते मारुतेनामुना
१०१०-४ पश्यात्यन्तचलेन वर्त्म महतामाकाशमारोपिताः ॥
१०११-१ ये जात्या लघवः सदैव गणनां याता न ये कुत्रचित्-
१०११-२ पद्भ्यामेव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्चिरं ।
१०११-३ उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षे सखे
१०११-४ तुङ्गानामुपरि स्थितं क्षितिभृतां कुर्वन्त्यमी पांसवः ॥
१०१२-१ अनीर्ष्याः श्रोतारो मम वचसि चेद्वच्मि तदहं
१०१२-२ स्वपक्षाद्भेतव्यं बहु न तु विपक्षात्प्रभवतः ।
१०१२-३ तमस्याक्रान्ताशे कियदपि हि तेजोवयविनः
१०१२-४ स्वशक्त्या भासन्ते दिवसकृति सत्येव न पुनः ॥
१०१३-१ सांमुख्यं वस्तुजातं नयति ननु चिदीशस्य यद्दर्शनाढ्यं
१०१३-२ नेत्रद्वन्द्वं किलैतद्विमलमिति ततोन्याङ्गसङ्गं विहाय ।
१०१३-३ घ्राणं वंशाभिरामं परिमलनिरतं चक्षुषोर्मध्यभागे
१०१३-४ नित्यं लीनं न चास्मिन्मृगसि नयनयोः श्वासमामुञ्च खिन्ने ॥
१०१४-१ एतत्तस्य मुखात्कियत्कमलिनीपत्त्रे कणं पाथसो
१०१४-२ यन्मुक्ताफलमित्यमंस्त स जडः शृण्वन्यदस्मादपि ।
१०१४-३ अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैस्-
१०१४-४ तत्रोड्डीय गते हहेत्यनुदिनं निद्राति नान्तःशुचा ॥
१०१५-१ आस्तेत्रैव सरस्यहो बत कियान्संतोषपक्षग्रहो
१०१५-२ हंसस्यास्य मनाङ्न धावति मतिः श्रीधाम्नि पद्मे क्वचित् ।
१०१५-३ सुप्तोद्यापि विबुध्यते न तदितस्तावत्प्रतीक्षामहे
१०१५-४ वेलामित्युषसि प्रिया मधुलिहः सोढुं तु एव क्षमाः ॥
१०१६-१ वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं
१०१६-२ ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्बर्हिभिः ।
१०१६-३ तेपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकैर्-
१०१६-४ दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ॥
१०१७-१ नामाप्यन्यतरोर्निमीलितमभूत्तत्तावदुन्मीलितं
१०१७-२ प्रस्थाने स्खलतः स्ववर्त्मनि विधेरन्यैर्गृहीतः करः ।
१०१७-३ लोकश्चायमदृष्टदर्शनदशादृग्वैशसादुद्धृतो
१०१७-४ युक्तं काष्ठिक लूनवान्यदसितामाम्रालिमाकालिकीं ॥
१०१८-१ ऊढा येन महाधुरः सुविषमे मार्गे सदैकाकिना
१०१८-२ सोढो येन कदाचिदेव न निजे गोष्ठेन्यशौण्डध्वनिः ।
१०१८-३ आसीद्यश्च गवां गणस्य तिलकस्तस्यैव संप्रत्यहो
१०१८-४ धिक्कष्टं धवलस्य जातजरसो गोः पण्यमुद्धोष्यते ॥
१०१९-१ भेकेन क्वणता सरोषपरुषं यत्कृष्णसर्पानने
१०१९-२ दातुं कर्णचपेटमुज्झितभिया हस्तः समुल्लासितः ।
१०१९-३ यच्चाध्ॐउखमक्षिणी पिदधता नागेन तत्र स्थितं
१०१९-४ तत्सर्वं विषमन्त्रिणो भगवतः कस्यापि लीलायितं ॥
१०२०-१ नित्यं तीर्थे निवासः प्रकृतिरतितरां स्निग्धमुग्धस्वभावा
१०२०-२ वृत्तिर्दैवाद्धि वक्त्रे गगननिपतितैर्निर्मलैर्वारिलेशैः ।
१०२०-३ इत्थं सर्वं विलोक्य प्रकटमिह तिमे मुग्धलोकेन लोके
१०२०-४ साधुत्वं दर्शितं ते बहिरबहिरमी कण्टकाः केन दृष्टाः ॥
१०२१-१ मृत्योरास्यमिवाततं धनुरमी चाशीविषाभाः शराः
१०२१-२ शिक्षा सापि जितार्जुना प्रतिभयं सर्वाङ्गनिम्ना गतिः ।
१०२१-३ अन्तः क्रौर्यमहो शठस्य मधुरं हा हारि गेयं मुखे
१०२१-४ व्याधस्यास्य यथा भविष्यति तथा मन्ये वनं निर्मृगं ॥
१०२२-१ धिग्व्य्ॐनो महिमानमेतु दलशः प्रोच्चैस्तदीयं पदं
१०२२-२ निन्द्यां दैवगतिं प्रयात्वभवनिस्तस्यास्तु शून्यस्य वा ।
१०२२-३ येनोत्क्षिप्तकरस्य नष्टमहसः श्रान्तस्य संतापिनो
१०२२-४ मित्रस्यापि निराश्रयस्य न कृतं धृत्यै करालम्बनं ॥
१०२३-१ दिग्दाहैकरते वनान्तकर ते ज्वाला न मे रोचते
१०२३-२ दुग्धं स्वाश्रयमुद्यतस्य भवतो नेच्छन्ति वृद्धिं जनाः ।
१०२३-३ मूलान्यस्य महीभृतो दलयितुं दुर्वेधसा निर्मितः
१०२३-४ को वा न त्वयि शङ्कते खल जगत्खेदावहे दाव हे ॥
१०२४-१ क्षुत्क्षामेण कथं कथंचिदनिशं गात्रं कृशं बिभ्रता
१०२४-२ भ्रान्तं येन गृहे गृहे गृहवतामुच्छिष्टपिण्डार्थिना ।
१०२४-३ अस्थ्नः खण्डमवाप्य दैवपतितं शून्यां त्रिलोकीमिमां
१०२४-४ मन्वानो धिगहो स एव सरमापुत्रोद्य सिंहायते ॥
१०२५-१ शुष्कस्नायुवसावसेकमलिनं निर्मांसमप्यस्थि गोः
१०२५-२ श्वा लब्धा परितोषमेति न तु तत्तस्य क्षुधः शान्तये ।
१०२५-३ सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं
१०२५-४ सर्वः कृछ्रगतोपि वाञ्छति जनः सत्त्वानुरूपं फलं ॥
१०२६-१ कालुष्यं पयसां विलोक्य शनकैरुड्डीय हंसा गता
१०२६-२ धाराजर्जरकेसरास्फुटरुचः पद्मा निमिग्ना जले ।
१०२६-३ सा सर्वर्तुसुखावतारपदवी छन्ना तृणैर्नूतनैः
१०२६-४ कष्टं तादृगपि स्वभावविमलं वृद्छ्यैव नष्टं सरः ॥
१०२७-१ ये संतोषसुखप्रबुद्धमनसस्तेषामभिन्नो मृदो
१०२७-२ येप्येते धनलोभसंकुलधियस्तेषां तु दूरे नृणां ।
१०२७-३ इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदां
१०२७-४ स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥
१०२८-१ द्रव्याणामधरोत्तरव्यतिकरो भग्नाशयानामधो
१०२८-२ बीजानां नयनं स्वयं च निजवच्छिद्रक्रियान्वेषणं ।
१०२८-३ व्यूहाबन्धविधायिभिर्गतभयैर्मुग्धप्रसुप्तार्भकं
१०२८-४ शून्यं प्राप्य निवासमाखुभिरहो किं किं न यद्यत्कृतं ॥
१०२९-१ अन्योन्यस्य लयं भयादिव महाभूतेषु यातेष्वलं
१०२९-२ कल्पान्ते परमेक एव स तरुः स्कन्धोच्चयैर्जृम्भते ।
१०२९-३ विन्यस्य त्रिजगन्ति कुक्षिकुहरे देवेन यस्यास्यते
१०२९-४ शाखाग्रे शिशुनेव सेवितजलक्रीडाविलासालसं ॥त्रिविक्रमस्य
१०३०-१ त्रैलोक्योपकृतिप्रसक्तमनसो देवस्य शंभोः प्रिया
१०३०-२ जाता शैलकुले वरैरभिमतैरानन्दयन्ती सुरान् ।
१०३०-३ म्लेच्छानामपि वाञ्छितार्पणपरा स्वस्यास्पदस्याम्बिका
१०३०-४ विन्ध्यस्योन्नतिमातनोति न निजां दैवस्य कीदृग्बलं ॥भा. अमृतदत्तस्य
१०३१-१ किं त्वं हालिक मूढधीर्हतफलं मा मा कृथा लाङ्गलं
१०३१-२ क्षेत्रं नैव भवत्यधः कठिनता नैवात्र दृष्टा त्वया ।
१०३१-३ उल्लेखोपि न जायतेत्र विरम क्लेशः फलं केवलं
१०३१-४ निर्बीजा बहवो गताश्च सततं दृष्टाः श्रुता वा न किं ॥कस्यापि
१०३२-१ कोयं भ्रान्तिप्रकारस्तव पवन घनावस्करस्थानजातं
१०३२-२ तेजस्विव्रातसेव्ये नभसि नयसि यत्पांसुपूरं प्रतिष्ठां ।
१०३२-३ यस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां
१०३२-४ केनोपायेन सह्यो वपुषि मलिनतादोष एष त्वयैव ॥भा. अमृतदत्तस्य
१०३३-१ जातः कूर्मः स एकः पृथुभुवनभरायार्पितं येन पृष्ठं
१०३३-२ श्लाघ्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजस्विचक्रं ।
१०३३-३ संजातव्यर्थपक्षाः परहितकरणे नोपरिष्टान्न चाधो
१०३३-४ ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः ॥कस्यापि
१०३४-१ कटु रटसि किमेवं कर्णयोः कुञ्जरारे-
१०३४-२ रविदितनिजबुद्धे किं न विज्ञातमस्ति ।
१०३४-३ शिरतरकरदंष्ट्राटङ्कनिर्भिन्नकुम्भं
१०३४-४ मशक गलकरन्ध्रे हस्तियूथं ममज्ज ॥कस्यापि
१०३५-१ उद्रर्जन्कुटिलस्तटाश्रयतरुप्रोन्मूलनोड्डामरो
१०३५-२ मा गर्वीः सरितः प्रवाह जलधिं प्रक्षोभयामीति भोः ।
१०३५-३ स्वां सत्तां यदि वाञ्छसि भ्रम मरुष्वेवाःस्व तत्रैव वा
१०३५-४ दूरे वाडववह्निरत्र तु महासत्त्वैर्विशन्पीयसे ॥
१०३६-१ स्थैर्यं तुङ्गशिरा जगत्स्थितिकृते वेलामहीभृच्छ्रितो
१०३६-२ दूरात्प्रेरणया कलावत इमं क्रान्तुं जलानां पते ।
१०३६-३ मिथ्या वाञ्छसि किं ततस्तव परं स्याद्रत्नसत्त्वक्षयो
१०३६-४ नूनं घट्टनमाप्य पादतलगस्त्वस्यैव चान्ते लुठेः ॥
१०३७-१ आन्दोलयस्यविरतं गगनार्कमङ्के
१०३७-२ तारागणं च शशिनं च तथेतराणि ।
१०३७-३ तेजांसि भासुरतडित्प्रभृतीनि साधो
१०३७-४ चित्रं तथापि न जहासि यदान्ध्यमन्तः ॥
१०३८-१ अयं स भुवनत्रयप्रथितसंयमः शंकरो
१०३८-२ बिभर्ति वपुषाधुना विरहकातरः कामिनीं ।
१०३८-३ अनेन किल निर्जिता वयमिति प्रियायाः करं
१०३८-४ करेण परिपीडयञ्जयति जातहासः स्मरः ॥
१०३९-१ भ्रूशार्ङ्गाकृष्टमुक्ताः कुवलयमधुपव्य्ॐअलक्ष्मीमुषो ये
१०३९-२ क्षीवा ये कृष्णशारा नरहृदयभिदस्तारकक्रूरशल्याः ।
१०३९-३ ते दीर्घापाङ्गपुङ्खाः स्मितविषविषमाः पक्ष्मलाः स्त्रीकटाक्षाः
१०३९-४ पायासुर्वोतिवीर्यास्त्रिभुवनजयिनः पञ्चबाणस्य बाणाः ॥
१०४०-१ गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः ।
१०४०-२ ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP