संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| अत्त्वादिवर्ग राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - अत्त्वादिवर्ग नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत अत्त्वादिवर्ग Translation - भाषांतर सत्त्वं रजस्तमश्चेति पुंसां उक्तास्त्रयो गुणाः ।तेषु क्रमादमी दोषाः कफपित्तानिलाः स्थिताः ॥२१.१सत्त्वं श्लेष्मा रजः पित्तं तमश्चापि समीरणः ।द्रव्यस्य मानमुद्रिक्तं पुंसि पुंस्यनुवर्तते ॥२१.२सत्त्वं मनोविकाशः स्यात्सत्त्वायत्ता तथा स्थितिः ॥२१.३रजो रूषणमुद्रेकः कालुष्यं मतिविभ्रमः ॥२१.४तमस्तिमिरं आन्ध्यं च चित्तोन्मादश्च मूढता ।हृदयावरणं ध्वान्तमन्धकारो विमोहनं ॥२१.५वातो गन्धवहो वायुः पवमानो महाबलः ।स्पर्शनो गन्धवाही च पवनो मरुदाशुगः ॥२१.६श्वसनो मातरिश्वा च नभस्वान्मारुतोऽनिलः ।समीरणो जगत्प्राणः समीरश्च सदागतिः ॥२१.७जवनः पृषदश्वश्च तरस्वी च प्रभञ्जनः ।प्रधावनोऽनवस्थानो धूननो मोटनः खगः ॥२१.८अन्येऽपि वायवो देहे नाडीचक्रप्रवाहकाः ।मया वितत्य नोक्तास्ते ग्रन्थगौरवभीरुणा ॥२१.९सत्त्वादिगुणसंभिन्नदोषत्रयवशात्मना ।आभ्यन्तरं च बाह्यं च स्वरूपं संनिरुच्यते ॥२१.१०सत्त्वाढ्यः शुचिरास्तिकः स्थिरमतिः पुष्टाङ्गको धार्मिकः कान्तः सोऽपि बहुप्रजः सुमधुरक्षीरादिभोज्यप्रियः ।दाता पात्रगुणादृतो द्रुततमं वाग्मी कृपालुः समो गौरः श्यामतनुर्घनाम्बुतुहिनस्वप्नेक्षणः श्लेष्मलः ॥२१.११राजसो लवणाम्लतिक्तकटुकप्रायोष्णभोजी पटुः प्रौढो नातिकृशोऽप्यकालपलिती क्रोधप्रपञ्चान्वितः ।द्राघीयान्महिलाशयो वितरिता सोपाधिकं याचितो गौराङ्गः कनकादिदीप्तिललितः स्वप्नी च पित्तात्मकः ॥२१.१२निद्रालुर्बहुभाषकः सुकुटिलः क्रूराशयो नास्तिकः प्रायः पर्युषितातिशीतविरसाहारैकनिष्ठोऽलसः ।कार्येष्वत्यभिमानवानसमये दाता यथेच्छं कृशः स्वप्ने व्योमगतिः सितेतरतनुर्वातूलकस्तामसः ॥२१.१३सत्त्वादयो गुणा यत्र मिश्रिताः सन्ति भूयसा ।मिश्रप्रकृतिकः सोऽयं विज्ञातव्यो मनीषिभिः ॥२१.१४सत्त्वादिरजसा मिश्रे श्रेष्ठं सत्त्वादितामसे ।मध्यमं रजसा मिश्रे कनीयो गुणमिश्रणं ॥२१.१५सत्त्वं चित्तविकाशमाशु तनुते दत्ते प्रबोधं परं कालुष्यं कुरुते रजस्तु मनसः प्रस्तौति चाव्याकृतिं ।आन्ध्यं हन्त हृदि प्रयच्छति तिरोधत्ते स्वतत्त्वे धियं संधत्ते जडतां च संततं उपाधत्ते प्रमीलां तमः ॥२१.१६वातः स्वैरः स्याल्लघुः शीतरूक्षः सूक्ष्मस्पर्शज्ञानकस्तोदकारी ।माधुर्यान्ने सोऽभ्रकालेऽपराह्णे प्रत्यूषेऽन्ने याति जीर्णे च कोपं ॥२१.१७पित्तं च तिक्ताम्लरसं च सारकं चोष्णं द्रवं तीक्ष्णं इदं मधौ बहु ।वर्षान्तकाले भृशं अर्धरात्रे मध्यंदिनेऽन्नस्य जरे च कुप्यति ॥२१.१८श्लेष्मा गुरुः श्लक्ष्णमृदुः स्थिरस्तथा स्निग्धः पटुः शीतजडश्च गौल्यवान् ।शीते वसन्ते च भृशं निशामुखे पूर्वेऽह्नि भुक्तोपरि च प्रकुप्यति ॥२१.१९दोषत्रयस्य ये भेदा वृद्धिक्षयविकल्पतः ।तानतः सम्प्रवक्ष्यामि संक्षेपार्थं समञ्जसं ॥२१.२०एकैकवृद्धौ स्युर्भेदास्त्रयो ये वृद्धिदास्त्रयः ।तत्राप्येकतरा ह्यर्थे षडेवं द्वादशैव ते ॥२१.२१वृद्धान्योन्यव्यत्ययाभ्यां षट्त्रिवृद्ध्या तु सप्तमः ।वृद्धोऽन्योन्यो वृद्धतरः परो वृद्धतमस्त्विति ॥२१.२२तारतम्येन षड्भेदास्त एवं पञ्चविंशतिः ।एवं क्षयेऽपि तावन्तस्ततः पञ्चाशदीरिताः ॥२१.२३वृद्धोऽन्योन्यः समोऽन्यश्च क्षीणस्त्विति पुनश्च षट् ।द्विवृद्ध्यैकक्षयादुक्तव्यत्ययाच्च पुनश्च षट् ॥२१.२४एते द्वादशतः सर्वे द्विषष्टिः समुदाहृताः ।त्रिषष्टिस्त्वन्तिमो भेदस्त्रयाणां प्रकृतौ स्थितिः ॥२१.२५एवं दोषत्रयस्यैतान्भेदान्विज्ञाय तत्त्वतः ।ततो भिषक्प्रयुञ्जीत तदवस्थोचिताः क्रियाः ॥२१.२६कालस्तु वेला समयोऽप्यनेहा दिष्टश्चलश्चावसरोऽस्थिरश्च ।सोऽप्येष भूतः किल वर्तमानस्तथा भविष्यन्निति च त्रिधोक्तः ॥२१.२७भूते वृत्तमतीतं च ह्यस्तनं निसृतं गतं ।वर्तमाने भवच्चाद्यतनं स्यादधुनातनं ॥२१.२८अनागतं भविष्ये स्यात्श्वस्तनं च प्रगेतनं ।वर्त्स्यद्वर्तिष्यमाणं च स्यादागामि च भावि च ॥२१.२९साधारणं तु सामान्यं तत्सर्वत्रानुवर्तते ।विशेषणं विशेषश्च सकृत्स्थाने च वर्तते ।तुर्यं पादं चतुर्थांशं ईषत्किंचित्तथोच्यते ॥२१.३०भूषापीयुषांशुस्वच्छोद्योतप्रस्यन्दामन्दस्वच्छन्दापूराम्भःस्वर्गङ्गासङ्गोन्मीलनमौलिं ।मेरुश्रीकैलासक्रीडासङ्घाटीशोभनाम्भःश्लाघाजङ्घालश्रीगौरीगूढाङ्गं वन्दे शम्भुं ॥२१.३१शब्दोच्चारे सकलगुरुके षष्टिवर्णप्रमाणे मानं काले पलमिति दश स्यात्क्षणस्तानि तैस्तु ।षड्भिर्नाडी प्रहर इति ताः सप्त सार्धास्तथाहोरात्रो ज्ञेयः सुमतिभिरसावष्टभिस्तैः प्रदिष्टः ॥२१.३२पक्षः स्यात्पञ्चदशभिरहोरात्रैरुभाविमौ ।मासो द्वादशभिर्मासैः संवत्सर उदाहृतः ॥२१.३३द्विशश्चैत्रादिभिर्मासैर्विज्ञेया ऋतवश्च षट् ॥२१.३४त्रिभिस्त्रिभिः क्रमादेतैः स्यातां च विषुवायने ॥२१.३५पलं विघटिका प्रोक्ता नाडी तास्तु त्रिविंशतिः ।नाडी तु घटिका प्रोक्ता तद्द्वयं च मुहूर्तकं ॥२१.३६यामः प्रहर इत्युक्तो दिनभागो दिनांशकः ॥२१.३७अहोरात्रदिवारात्राहर्दिवाहर्निशानि च ॥२१.३८घस्रो दिनोऽपि दिवसो वासरो भास्वरो दिवा ॥२१.३९प्राह्णापराह्णमध्याह्नसायाह्नाः स्युस्तदंशकाः ॥२१.४०प्रातर्दिनादिः प्रत्यूषो निशान्तः प्रत्युषोऽप्युषः ।व्युष्टं चाहर्मुखं कल्यं प्रगे प्राह्णं प्रभातकं ॥२१.४१आतपस्तु दिनज्योतिः सूर्यालोको दिनप्रभा ।रविप्रकाशः प्रद्योतस्तमोरिस्तपनद्युतिः ॥२१.४२रोचिर्दीप्तिर्द्युतिः शोचिस्त्विडोजो भा रुचिः प्रभा ।विभा लोकप्रकाशश्च तेज ओजायितं च रुक् ॥२१.४३सायंसंध्या दिनान्तश्च निशादिर्दिवसात्ययः ।सायं पितृप्रसूश्चाथ प्रदोषः स्यान्निशामुखं ॥२१.४४छाया विभानुगा श्यामा तेजोभीरुरनातपः ।अभीतिरातपाभावो भावालीना च सा स्मृता ॥२१.४५शर्वरी क्षणदा रात्रिर्निशा श्यामा तमस्विनी ।तमी त्रियामा शयनी क्षपा यामवती तमा ॥२१.४६नक्तं निशीथिनी दोषा ताराभूषा विभावरी ।ज्योतिष्मती तारकिणी काली सापि कलापिनी ॥२१.४७सा ज्यौत्स्नी चन्द्रिकायुक्ता तमिस्रा तु तमोऽन्विता ॥२१.४८अर्धरात्रो निशीथे स्यान्मध्यरात्रश्च स स्मृतः ॥२१.४९ज्योत्स्ना तु चन्द्रिका चान्द्री कौमुदी कामवल्लभा ।चन्द्रातपश्चन्द्रकान्ता शीतामृततरङ्गिणी ॥२१.५०कान्तिस्तु सुषमा शोभा छविश्छाया विभा शुभा ।श्रीर्लक्ष्मीर्दक्प्रियाभिख्या भानं भातिरुमा रमा ॥२१.५१तमस्तमिस्रं तिमिरं ध्वान्तं संतमसं तमः ।अन्धकारश्च भूछायं तच्चान्धतमसं घनं ॥२१.५२आतपः कटुको रूक्षश्छाया मधुरशीतला ।त्रिदोषशमनी ज्योत्स्ना सर्वव्याधिकरं तमः ॥२१.५३पक्षादिः प्रथमाद्या च पक्षतिः प्रतिपच्च सा ॥२१.५४पक्षान्तोऽर्केन्दुविश्लेषः पर्व पञ्चदशी तथा ।द्वितीयं तु भवेत्पर्व चन्द्रार्कात्यन्तसंगमः ॥२१.५५प्रतिपदमारभ्यैताः क्रमात्द्वितीयादिकाश्च पञ्चदश ।पक्षे तिथयो ज्ञेयाः पक्षश्च सितोऽसितो द्विविधः ॥२१.५६सितस्त्वापूर्यमाणः स्यात्शुक्लश्च विशदः शुदि ॥२१.५७असितो मलिनः कृष्णो बहुलो वदि च स्मृतः ॥२१.५८दिवसैर्यत्र तत्रापि वसुसागरसम्मितैः ।भिषक्क्रियोपयोगाय मण्डलं भिषजां मतं ॥२१.५९पूर्णिमा पौर्णमासी च ज्यौत्स्नी चेन्दुमती सिता ।सा पूर्वानुमतिर्ज्ञेया राका स्यादुत्तरा च सा ॥२१.६०दर्शस्तु स्यादमावास्यामावस्यार्केन्दुसंगमः ।सा पूर्वा तु सिनीवाली द्वितीया तु कुहूर्मता ॥२१.६१मासार्धस्तु भवेत्पक्षः स पञ्चदशरात्रकः ॥२१.६२द्विपक्षस्तु भवेन्मासश्चैत्राद्या द्वादशाश्च ते ॥२१.६३चैत्रस्तु चैत्रिकश्चैत्री मधुः कालादिकश्च सः ॥२१.६४वैशाखो माधवो राधो ज्यैष्ठः शुक्रस्तपस्तथा ॥२१.६५आषाढः शुचिरुक्तः श्रावणिकः श्रावणो नभाश्चापि ॥२१.६६भाद्रो भाद्रपदोऽपि प्रौष्ठपदः स्यान्नभो नभस्यश्च ॥२१.६७इषस्त्वाश्वयुजश्च स्यादाश्विनः शारदश्च सः ॥२१.६८कार्त्तिको बाहुलोऽपि स्यादूर्जः कार्त्तिकिकश्च सः ॥२१.६९मार्गः सहा मार्गशीर्ष आग्रहायणिकोऽपि सः ॥२१.७०पौषस्तु पौषिकस्तैषः सहस्यो हैमनोऽपि च ॥२१.७१माघस्तपाः तपस्यस्तु फाल्गुनो वत्सरान्तकः ॥२१.७२चैत्रादिमासौ द्वौ द्वौ स्युर्नाम्ना षडृतवः क्रमात् ॥२१.७३भवेद्वसन्तो मधुमाधवाभ्यां स्यातां तथा शुक्रशुची निदाघः ।नभोनभस्यौ जलदागमः स्यादिषोर्जकाभ्यां शरदं वदन्ति ॥२१.७४हेमन्तकालस्तु सहःसहस्यौ तपस्तपस्यौ शिशिरः क्रमेण ।मासद्विकेनेति वसन्तकाद्या धीमद्भिरुक्ता ऋतवः षडेते ॥२१.७५ऋतुराजो वसन्तः स्यात्सुरभिर्माधवो मधुः ।पुष्पमासः पिकानन्दः कान्तः कामरसश्च सः ॥२१.७६निदाघस्तूष्मको घर्मो ग्रीष्म ऊष्मागमस्तपः ।तापनश्चोष्णकालः स्यादुष्णश्चोष्णागमश्च सः ॥२१.७७वर्षाः प्रावृड्वर्षकालो घर्मान्तो जलदागमः ।मयूरोल्लासकः कान्तश्चातकाह्लादनोऽपि सः ॥२१.७८शरद्वर्षावसायः स्यान्मेघान्तः प्रावृडत्ययः ॥२१.७९ऊष्मापहस्तु हेमन्तः शरदन्तो हिमागमः ॥२१.८०शिशिरः कम्पनः शीतो हिमकूटश्च कोटनः ।इत्येतन्नामतः प्रोक्तमृतुषट्कं यथाक्रमं ॥२१.८१इह सुरभिनिदाघमेघकालाः शरद्धिमशिशिरहायनाः क्रमेण ।प्रतिदिनमृतवः स्युरूर्ध्वं अर्कोदयसमयाद्दशकेन नाडिकानां ॥२१.८२मकरक्रान्तिमारभ्य भानोः स्यादुत्तरायणं ॥२१.८३कर्कटक्रमणादूर्ध्वं दक्षिणायनं उच्यते ॥२१.८४यदा तुलायां मेषे च सूर्यसंक्रमणं क्रमात् ।तदा विषुवती स्यातां विषुवे अपि ते स्मृते ॥२१.८५कालज्ञैः षष्टिराख्याता वत्सराः प्रभवादयः ।शरत्संवत्सरोऽब्दश्च हायनो वत्सरः समाः ॥२१.८६वसन्ते दक्षिणो वातो भवेद्वर्षासु पश्चिमः ।उत्तरः शारदे काले पूर्वो हैमन्तशैशिरे ॥२१.८७पूर्वस्तु मधुरो वातः स्निग्धः कटुरसान्वितः ।गुरुर्विदाहशमनो वातदः पित्तनाशनः ॥२१.८८दक्षिणः षड्रसो वायुश्चक्षुष्यो बलवर्धनः ।रक्तपित्तप्रशमनः सौख्यकान्तिबलप्रदः ॥२१.८९पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः ।सद्यः प्राणापहो दुष्टः शोषकारी शरीरिणां ॥२१.९०उत्तरः पवनः स्निग्धो मृदुर्मधुर एव च ।सकषायरसः शीतो दोषाणां च प्रकोपणः ॥२१.९१कृत्वैकं अवधिं तस्मादिदं पूर्वं च पश्चिमं ।इति देशौ निदिश्येते यया सा दिगिति स्मृता ॥२१.९२दिगाशा च हरित्काष्ठा ककुप्सा च निदेशिनी ।सा च देशविभागेन दशधा परिकल्प्यते ॥२१.९३ज्योतींषि तपनादीनि ज्योतिश्चक्रभ्रमीक्रमात् ।यतो नित्यं उदीयन्ते सा पूर्वाख्या दिगुच्यते ॥२१.९४पूर्वा च दक्षिणा चैव पश्चिमा चोत्तरापि च ।प्रादक्षिण्यक्रमेणैताश्चतस्रः स्युर्महादिशः ॥२१.९५पूर्वा प्राची पुरो मघोन्यैन्द्री माघवती च सा ।शामनी दक्षिणावाची यामी वैवस्वती च सा ॥२१.९६पश्चिमा तु प्रतीची स्याद्वारुणी प्रत्यगित्यपि ।उत्तरा दिक्तु कौबेरी दैवी सा स्यादुदीच्यपि ॥२१.९७दिशोर्द्वयोर्द्वयोर्मध्ये यो भागः कोणसंज्ञकः ।विदिशस्ताश्चतस्रश्च प्रोक्ता उपदिशस्तथा ॥२१.९८आग्नेयी स्यात्प्राच्यवाच्योस्तु मध्ये नैरृत्याख्या स्यादवाचीप्रतीच्योः ।वायव्यापि स्यादुदीचीप्रतीच्योरैशानी स्यादन्तरा प्राच्युदीच्योः ॥२१.९९उपरिष्टाद्दिगूर्ध्वं स्यादधस्तादधरा स्मृता ।अन्तस्त्वभ्यन्तरं प्रोक्तं अन्तरं चान्तरालकं ॥२१.१००स्पष्टस्त्वष्टयवैर्देशो मितो ज्ञेयोऽङ्गुलाह्वयः ।स्याच्चतुर्विंशकैस्तैस्तु हस्तो हस्तचतुष्टयं ॥२१.१०१दण्डो दण्डैर्द्विसाहस्रैः क्रोशस्तेषां चतुष्टयं ।योजनं स्यादिति ह्येष देशस्योक्तो मितिक्रमः ॥२१.१०२इति प्रस्तावतो वैद्यस्योपयुक्ततया मया ।परिमाणं तथोन्मानमिति द्वितयं ईर्यते ॥२१.१०३धान्ये सा निष्टिका पुंसो यत्तु मुष्टिचतुष्टयं ।तद्द्वयेनाष्टिका ज्ञेया कुडवस्तद्द्वयेन तु ॥२१.१०४प्रस्थस्तु तच्चतुष्केण तच्चतुष्केण चाढकी ।ताश्चतस्रो भवेद्द्रोणः खारी तेषां तु विंशतिः ॥२१.१०५गोधूमद्वितयोन्मितिस्तु कथिता गुञ्जा तया सार्धया वल्लो वल्लचतुष्टयेन भिषजां माषो मतस्तच्चतुः ।निष्को निष्कयुगं तु सार्धं उदितः कर्षः पलं तच्चतुस्तद्वत्तच्छतकेन चाथ च तुला भारस्तुलाविंशतिः ॥२१.१०६इत्थं सत्त्वरजस्तमस्त्रिगुणिकानुक्रान्तदोषत्रयप्रक्रान्तोचितकालदेशकलनाभिख्यानसुख्यापितं ।वर्गं स्वर्गसभासु भास्वरभिषग्वर्यातिवीर्यामयध्वंसाश्चर्यकरीं प्रयाति मतिमानेनं पठित्वा प्रथां ॥२१.१०७संग्रामोत्संगरिङ्गत्तुरगसुरपटोद्धूतधात्रीरजोभिः संरम्भं याति सान्द्रे तमसि किल शमं यद्द्विषां याति सत्त्वं ।तस्यैषोऽप्येकविंशः श्रयति खलु कृतौ नामनिर्माणचूडारत्नापीडे प्रशान्तिं नरहरिकृतिनः कोऽपि सत्त्वादिवर्गः ॥२१.१०८ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP