मत्स्यपुराणम् - अध्यायः २१
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
श्राद्धमाहात्म्ये पिपीलिकावहासवर्णनम् |
ऋषय ऊचुः ।
कथं सत्वरुतज्ञोऽभूद् ब्रह्मदत्तो धरातले ।
तच्चाभवत् कस्य कुले चक्रवाक चतुष्टयम् ॥१॥
तस्मिन्नेवपुरे जातास्ते च चक्राह्वयास्तदा ।
वृद्धद्विजस्य दायादा विप्रा जातिस्मराः पुरा ॥२॥
धृतिमांस्तत्त्वदर्शी च विद्या चण्डस्तपोत्सुकः ।
नामतः कर्म्मतश्चैते सुदरिद्रस्य ते सुताः ॥३॥
तपसे बुद्धिरभवत्तदा तेषां द्विजन्मनाम् ।
यास्यामः परमां सिद्धिमित्यूचुस्ते द्विजोत्तमाः ॥४॥
ततस्तद्वचनं श्रुत्वा सुदरिद्रो महातपाः ।
उवाच दीनया वाचा किमेतदिति पुत्रकाः ॥५॥
अधर्म्म एष इति वः पिता तानभ्यवारयत् ।
वृद्धं पितरमुत्सृज्य दरिद्रं वनवासिनः ॥६॥
कोनुधर्मोऽत्रभवितामत्त्यगाद् गतिरेव वा ।
ऊचुस्ते कल्पिता वृत्तिस्तवतात! वदस्व तत् ॥७॥
वित्तमेतत् पुरो राज्ञः स ते दास्यति पुष्कलम् ।
धनं ग्रामसहस्रापि प्रभाते पठतस्तव ॥८॥
ये विप्रमुख्याः कुरुजाङ्गलेषु दासास्तथा दासपुरे मृगाश्च ।
कालञ्जरे सप्त च चक्रवाका ये मानसे ते वयमत्र सिद्धाः ॥९॥
इत्युक्त्वा पितरं जग्मुस्ते वनं तपसे पुनः ।
वृद्धोऽपि राजभवनं जगामात्मार्थ सिद्धये ॥१०॥
अनघो नाम वैभ्राजः पाञ्चालाधिपतिः पुरा ।
पुत्रार्थी देवदेवेशं हरिं नारायणं प्रभुम् ॥११॥
आराधयामास विभुं तीव्र व्रतपरायणः ।
ततः कालेन महता तुष्टस्तस्य जनार्दनः ॥१२॥
वरं वृणीष्व भद्रं ते हृदयेनेप्सितं नृप!
एवमुक्तस्त देवेन वव्रे स वरमुत्तमम् ॥१३॥
पुत्रं मे देहि देवेश! महाबलपराक्रमम् ।
पारगं सर्वशास्त्राणां धार्मिकं योगिनां परम् ॥१४॥
सर्वसत्वरुतज्ञं मे देहि योगिनमात्मजम् ।
एवमस्त्विति विश्वात्मा तमाह परमेश्वरः ॥१५॥
पश्यतां सर्वदेवानां तत्रैवान्तरधीयत ।
ततः स तस्य पुत्रोऽभूत् ब्रह्मदत्तः प्रतापवान् ॥१६॥
सर्वसत्वानुकम्पी च सर्वसत्व बलाधिकः ।
सर्वसत्त्वरुतज्ञश्च सर्वसत्वेश्वरेश्वरः ॥१७॥
अहसत्तेन योगात्मा स पिपीलिकरागतः ।
यत्र तत् कीटमिथुनं रममाणमवस्थितम् ॥१८॥
ततः सा सन्नतिर्द्रृष्ट्वा तं हसन्तं सुविस्मिता ।
किमप्याशङ्क्य मनसा तमपृच्छन्नरेश्वरम् ॥१९॥
अकस्मात् इतिहासस्ते किमर्थमभवन्नृप! ।
हास्यहेतुं न जानामि यदकाले कृतं त्वया ॥२०॥
सूत उवाच ।
अवदद्राजपुत्रोऽपि स पिपीलिकभाषितम् ।
रागवाग्भिः समुत्पन्नमेतद्धास्यं वरानने! ॥२१॥
न चान्यत् कारणं किञ्चिद्धास्यहेतौ शुचिस्मिते ।
न सामन्यत्तदा देवी प्राहालीकमिदं वचः ॥२२॥
अहमेवाद्यहसिता न जीविष्ये त्वयाऽधुना ।
कथं पिपीलिकालापं मर्त्यो वेत्ति विना सुरान् ॥२३॥
तस्मात्त्वयाहमेवेह हसिता किमतः परम् ।
ततो निरुत्तरो राजा जिज्ञासुस्तत् पुरो हरेः ॥२४॥
आस्थाय नियमन्तस्थौ सप्तरात्रमकल्मषः ।
स्वप्ने प्राह हृषीकेशः प्रभाते पर्यटन् पुरम् ॥२५॥
वृद्धद्विजोयस्तद्वाक्यात् सर्वं ज्ञास्यस्यशेषतः ।
इत्युक्त्वान्तर्दधो विष्णुः प्रभातेऽथ नृपः पुरात् ॥२६॥
निर्गच्छन्मन्त्रिसहितः सभार्यो वृद्धमग्रतः ।
गदन्तं विप्रमायान्तं तं वृद्धं सन्ददर्श ह ॥२७॥
ये विप्रमुख्याः कुरुजाङ्गलेषु दासास्तथा दासपुरे मृगाश्च ।
कालञ्जरे सप्त च चक्रवाका ये मानसे ते वयमन्त्र सिद्धाः ॥२८॥
सूत उवाच ।
इत्याकर्ण्य वचस्ताभ्यां स पपात शुचा ततः ।
जातिस्मरत्वमगमत्तौ च मन्त्रिवरावुभौ ॥२९॥
कामशास्त्रप्रणेता च वाभ्रव्यस्तु सुबालकः ।
पाञ्चाल इति लोकेषु विश्रुतः सर्वशास्त्रवित् ॥३०॥
कण्डरीकोऽपि धर्मात्मा वेदशास्त्रप्रवर्तकः ।
भूत्वा जातिस्मरौ शोकात् पतितावग्रतस्तदा ॥३१॥
हा वयं योगविभ्रष्टाः कामतः कर्मबन्धनाः ।
एवं विलप्य बहुशस्त्रयस्ते योगपारगाः ॥३२॥
विस्मयाच्छ्राद्धमाहात्म्यमभिनंद्य पुनः पुनः ।
ततस्तस्मै धनं दत्त्वा प्रभूतग्रामसंयुतम् ॥३३॥
विसृज्य ब्राह्मणन्तञ्च वृद्धं धन मुदान्वितम् ।
आत्मीयं नृपतिः पुत्रं नृपलक्षणसंयुतम् ॥३४॥
विष्वक् सेनाभिधानन्तु राजा राज्येऽभ्यषेचयत् ।
मानसे मिलिताः सर्वे ततस्ते योगिनो वराः ॥३५॥
ब्रह्मदत्तादयस्तस्मिन् पितृसक्ता विमत्सराः ।
सन्नतिश्चाभवद् भ्रष्टा मयैतत् किल कारितम् ॥३६॥
राज्यत्यागफलं सर्वं यदेतदभिलष्यते ।
तथेति प्राह राजा तु पुनस्तामभिनन्दयन् ॥३७॥
त्वत् प्रसादादिदं सर्वं मयैतत् प्राप्यते फलम् ।
ततस्ते योगमास्थाय सर्व एव वनौकसः ॥३८॥
ब्रह्मरन्ध्रेण परमं पदमापुस्तपोधनाः ।
एवमायुर्धनं विद्यां स्वर्गं मोक्षं सुखानि च ॥३९॥
प्रयच्छन्ति सुतान् राज्यं नृणां प्रीताः पितामहाः ।
य इदं पितृमाहात्म्यं ब्रह्मदत्तस्य च द्विजाः ॥४०॥
द्विजेभ्यः श्रावयेद्यो वा श्रृणोत्यथ पठेत वा ।
कल्पकोटिशतं साग्रं ब्रह्मलोके महीयते ॥४१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP