मत्स्यपुराणम् - अध्यायः ४१
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
ययात्यष्टकसम्वादवर्णनम् ।
अष्टक उवाच ।
कतरस्त्वेतयोः पूर्व देवानामेति सात्म्यताम् ।
उभयोर्धावतो राजन्! सूर्य्या चन्द्रमसोरिव ॥१॥
ययातिरुवाच ।
अनिकेतगृहस्थेषु कामवृत्तेषु संयतः ।
ग्राम एव चरन् भिक्षुस्तयोः पूर्वतरङ्गतः ॥२॥
अप्राप्यं दीर्घमायुश्च यः प्राप्तो विकृतिं चरेत् ।
तप्येत यदितत्कृत्वा चरेत् सोग्रं तपस्ततः ॥३॥
यद्वै नृशंसन्तदपथ्यमाहुर्यः सेवते धर्ममनर्थबुद्धिः ।
असावनीशः स तथैव राजन् तदार्जवं ससमाधिस्तदार्यम् ॥४॥
अष्टक उवाच ।
केनाद्य त्वन्तु प्रहितोऽसि राजन् युवा स्रग्वी दर्शनीयः सुवर्चाः ।
कुत आगतः कतमस्यां दिशि त्वमुताहोस्वित् पार्थिवस्थानमस्ति ॥५॥
ययातिरुवाच ।
इमं भौमं नरकं क्षीणपुण्यः प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः ।
उक्त्वाऽहं व प्रपतिष्याम्यनन्तरं तरन्तुत्वमी ब्रह्मणो लोकपाये ॥६॥
सतां सकाशे तु वृतः प्रपातस्ते सङ्गता गुणवन्तस्तु सर्वे ।
शक्राच्च लब्धो हि वरो मयैष प्रतिष्यता भूमितलं नरेन्द्र! ॥७॥
अष्टक उवाच ।
पृच्छामि त्वां प्रपतन्तं प्रपातं यदि लोकाः पार्थिव सन्ति मेऽत्र ।
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥८॥
ययातिरुत्वाच ।
यावत्पृथिव्यां विहितं गवाश्वं सहारण्यैः पशुभिः पक्षिभिश्च ।
तावल्लोका दिवि ते संस्थिता वै तथा विजानीहि नरेन्द्रसिंह ॥९॥
अष्टक उवाच ।
तांस्ते ददामि मा प्रपत प्रपातं ये मे लोका दिवि राजेन्द्र सन्ति ।
यद्यन्तरिक्षे यदि वा दिवि श्रितास्तानाक्रम क्षिप्रममित्रहासि ॥१०॥
ययातिरुवाच ।
नास्मद्विधो ब्राह्मणो ब्रह्मविच्च प्रतिग्रहे वर्तते राजमुख्य! ।
यथा प्रदेयं सततं द्विजेभ्यस्तथा ददे पूर्वमहं नरेन्द्रम् ॥११॥
नाब्राह्मणः कृपणो जातु जीवेद्यद्यपि स्यात् ब्राह्मणी वीरपत्नी ।
सोऽहं सदेवाकृत पूर्वं चरेयं विवित्समानः किमु तत्र साधुः ॥१२॥
प्रतर्दन उवाच ।
पृच्छामि त्वां स्पुहणीयरूप प्रतर्दनोऽहं यदि मे सन्ति लोकाः ।
यद्यन्तरिक्षे यदि वा दिवि श्रुताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥१३॥
ययातिरुवाच ।
सन्ति लोका बहवस्ते नरेन्द्र! अप्येकैकं सप्तशताम्यहानि ।
मधुच्युतो घृतवन्तो विशोकास्तेनान्तवन्तः प्रतिपालयन्ति ॥१४॥
प्रतर्दन उवाच ।
तांस्ते ददामि पतमानस्य राजन्! ये मे लोकास्तव ते वै भवन्तु ।
यद्यन्तरिक्षे यदि वा दिवि श्रितास्तानाक्रम क्षिप्रमपेतमोहः ॥१५॥
ययातिरुवाच ।
न तुल्यतेजाः सुकृतं हि कामये योगक्षेमं पार्थिवात् पार्थिवः सन् ।
दैवादेशादापदं प्राप्य विद्वान् चरेन्नृशंसं हि न जातु राजा ॥१६॥
धर्म्यं मार्गं चिन्तयानो यशस्यं कुर्य्यात्तपो धर्ममवेक्षमाणः ।
न मद्विधो धर्मबुद्धिर्हि राजा ह्येवं कुर्य्यात् कृपणं मां यथात्थ ॥१७॥
कुर्य्यामपूर्वं न कृतं यदन्यैर्विवित्समानः किमु तत्र साधुः ।
ब्रुवाणमेवं नृपतिं ययातिं नृपोत्तमो वसुमानब्रवीत्तम् ॥१८॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP