पराशरस्मृतिः - प्रथमोध्यायः
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
अथातो हिमशैलाग्रे देवदारुवनालये ।
व्यासं एकाग्रं आसीनं अपृच्छन्नृषयः पुरा ॥१॥
मानुषाणां हितं धर्मं वर्तमाने कलौ युगे ।
शौचाचारं यथावच्च वद सत्यवतीसुत ॥२॥
तच्छ्रुत्वा ऋषिवाक्यं तु सशिष्योऽग्न्यर्कसंनिभः ।
प्रत्युवाच महातेजाः श्रुतिस्मृतिविशारदः ॥३॥
न चाहं सर्वतत्त्वज्ञः कथं धर्मं वदाम्यहम् ।
अस्मत्पितैव प्रष्टव्य इति व्यासः सुतोऽब्रवीत् ॥४॥
ततस्त ऋषयः सर्वे धर्मतत्त्वार्थकाङ्क्षिणः ।
ऋषिं व्यासं पुरस्कृत्य गता बदरिकाश्रमं ॥५॥
नानापुष्पलताकीर्णं फलवृष्कैरलंकृतम् ।
नदीप्रस्रवणोपेतं पुण्यतीर्थोपशोभितं ॥६॥
मृगपक्षिनिनादाढ्यं देवतायतनावृतम् ।
यक्षगन्धर्वसिद्धैश्च नृत्यगीतैरलंकृतम् ॥७॥
तस्मिन्नृषिसभामध्ये शक्तिपुत्रं पराशरम् ।
सुखासीनं महातेजा मुनिमुख्यगणावृतं ॥८॥
कृताञ्जलिपुटो भूत्वा व्यासस्तु ऋषिभिः सह ।
प्रदक्षिणाभिवादैश्च स्तुतिभिः समपूजयत् ॥९॥
ततः संतुष्टहृदयः पराशरमहामुनिः ।
आह सुस्वागतं ब्रूहीत्यासीनो मुनिपुङ्गवः ॥१०॥
कुशलं सम्यगित्युक्त्वा व्यासः पृच्छत्यनन्तरम् ।
यदि जानासि भक्तिं मे स्नेहाद्वा भक्तवत्सल ॥११॥
धर्मं कथय मे तात अनुग्राह्यो ह्यहं तव ।
श्रुता मे मानवा धर्मा वासिष्ठा काश्यपास्तथा ॥१२॥
गर्गेया गौतमीयाश्च तथा चोशनसा स्मृताः ।
अत्रेर्विष्णोश्च संवर्ताद्दक्षादङ्गिरसस्तथा ॥१३॥
शातातपाच्च हारीताद्याज्ञवल्क्यात्तथैव च ।
आपस्तम्बकृता धर्मा शङ्खस्य लिखितस्य च ॥१४॥
कात्यायनकृताश्चैव तथा प्राचेतसान्मुनेः ।
श्रुता ह्येते भवत्प्रोक्ताः श्रुत्यर्था मे न विस्मृताः ॥१५॥
अस्मिन्मन्वन्तरे धर्माः कृतत्रेतादिके युगे ।
सर्वे धर्माः कृते जाताः सर्वे नष्टाः कलौ युगे ॥१६॥
चातुर्वर्ण्यसमाचारं किंचित्साधारणं वद ।
चतुर्णां अपि वर्णानां कर्तव्यं धर्मकोविदैः ॥१७॥
ब्रूहि धर्मस्वरूपज्ञ सूक्ष्मं स्थूलं च विस्तरात् ।
व्यासवाक्यावसाने तु मुनिमुख्यः पराशरः ॥१८॥
धर्मस्य निर्णयं प्राह सूक्ष्मं स्थूलं च विस्तरात् ।
शृणु पुत्र प्रवक्ष्यामि शृण्वन्तु मुनयस्तथा ॥१९॥
कल्पे कल्पे क्षयोत्पत्त्या ब्रह्मविष्णुमहेश्वराः ।
श्रुतिस्मृतिसदाचार निर्णेतारश्च सर्वदा ॥२०॥
न कश्चिद्वेदकर्ता च वेदं स्मृत्वा चतुर्मुखः ।
तथैव धर्मान्स्मरति मनुः कल्पान्तरेऽन्तरे ॥२१॥
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे युगे ।
अन्ये कलियुगे नॄणां युगरूपानुसारतः ॥२२॥
तपः परं कृतयुगे त्रेतायां ज्ञानं उच्यते ।
द्वापरे यज्ञं एवाहुः दानं एव कलौ युगे ॥२३॥
कृते तु मानवा धर्मास्त्रेतायां गौतमाः स्मृताः ।
द्वापरे शाङ्खलिखिताः कलौ पाराशराः स्मृताः ॥२४॥
त्यजेद्देशं कृतयुगे त्रेतायां ग्रामं उत्सृजेत् ।
द्वापरे कुलं एकं तु कर्तारं तु कलौ युगे ॥२५॥
कृते संभाषणादेव त्रेतायां स्पर्शनेन च ।
द्वापरे त्वन्नं आदाय कलौ पतति कर्मणा ॥२६॥
कृते तात्कालिकः शापस्त्रेतायां दशभिर्दिनैः ।
द्वापरे चैकमासेन कलौ संवत्सरेण तु ॥२७॥
अभिगम्य कृते दानं त्रेतास्वाहूय दीयते ।
द्वापरे याचमानाय सेवया दीयते कलौ ॥२८॥
अभिगम्योत्तमं दानं आहूयैव तु मध्यमम् ।
अधमं याचमानाय सेवादानं तु निष्फलं ॥२९॥
जितो धर्मो ह्यधर्मेण सत्यं चैवानृतेन च ।
जिताश्चोरैश्च राजानः स्त्रीभिश्च पुरुषाः कलौ ॥३०॥
सीदन्ति चाग्निहोत्राणि गुरुपूजा प्रणश्यति ।
कुमार्यश्च प्रसूयन्ते अस्मिन्कलियुगे सदा ॥३१॥
कृते त्वस्थिगताः प्राणास्त्रेतायां मांसं आश्रिताः ।
द्वापरे रुधिरं चैव कलौ त्वन्नादिषु स्थिताः ॥३२॥
युगे युगे च ये धर्मास्तत्र तत्र च ये द्विजाः ।
तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ॥३३॥
युगे युगे तु सामर्थ्यं शेषं मुनिविभाषितम् ।
पराशरेण चाप्युक्तं प्रायश्चित्तं विधीयते ॥३४॥
अहं अद्यैव तत्सर्वं अनुस्मृत्य ब्रवीमि वः ।
चातुर्वर्ण्यसमाचारं शृण्वन्तु ऋषिपुङ्गवाः ॥३५॥
पराशरमतं पुण्यं पवित्रं पापनाशनम् ।
चिन्तितं ब्राह्मणार्थाय धर्मसंस्थापनाय च ॥३६॥
चतुर्णां अपि वर्णानां आचारो धर्मपालकः ।
आचारभ्रष्टदेहानां भवेद्धर्मः पराङ्मुखः ॥३७॥
षट्कर्माभिरतो नित्यं देवतातिथिपूजकः ।
हुतशेषं तु भुञ्जानो ब्राह्मणो नावसीदति ॥३८॥
संध्यास्नानं जपो होमो देवतातिथिपूजनम् ।
आतिथ्यं वैश्वदेवं च षट्कर्माणि दिने दिने ॥३९॥
इष्टो वा यदि वा द्वेष्यो मूर्खः पण्डित एव वा ।
संप्राप्तो वैश्वदेवान्ते सोऽतिथिः स्वर्गसंग्रमः ॥४०॥
दूराध्वोपगतं श्रान्तं वैश्वदेव उपस्थितम् ।
अतिथिं तं विजानीयान्नातिथिः पूर्वं आगतः ॥४१॥
नैकग्रामीणं अतिथिं संगृह्णीत कदाचन ।
अनित्यं आगतो यस्मात्तस्मादतिथिरुच्यते ॥४२॥
अतिथिं तत्र संप्राप्तं पूजयेत्स्वागतादिना ।
अर्घ्यासनप्रदानेन पादप्रक्षालनेन च ॥४३॥
श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च ।
गच्छन्तं चानुयानेन प्रीतिं उत्पादयेद्गृही ॥४४॥
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
पितरस्तस्य नाश्नन्ति दश वर्षाणि पञ्च च ॥४५॥
काष्ठभारसहस्रेण घृतकुम्भशतेन च ।
अतिथिर्यस्य भग्नाशस्तस्य होमो निरर्थकः ॥४६॥
सुक्षेत्रे वापयेद्बीजं सुपात्रे निक्षिपेद्धनम् ।
सुक्षेत्रे च सुपात्रे च ह्युप्तं दत्तं न नश्यति ॥४७॥
न पृच्छेद्गोत्रचरणे न स्वाध्यायं श्रुतं तथा ।
हृदये कल्पयेद्देवं सर्वदेवमयो हि सः ॥४८॥
अपूर्वः सुव्रती विप्रो ह्यपूर्वश्चातितिहिर्यथा ।
वेदाभ्यासरतो नित्यं तावपूर्वौ दिने दिने ॥४९॥
वैश्वदेवे तु संप्राप्ते भिक्षुके गृहं आगते ।
उद्धृत्य वैश्वदेवार्थं भिक्षुकं तु विसर्जयेत् ॥५०॥
यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ ।
तयोरन्नं अदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत् ॥५१॥
दद्याच्च भिक्षात्रितयं परिव्राड्ब्रह्मचारिणाम् ।
इच्छया च ततो दद्याद्विभवे सत्यवारितं ॥५२॥
यतिहस्ते जलं दद्याद्भैक्षं दद्यात्पुनर्जलम् ।
तद्भैक्ष्यं मेरुणा तुल्यं तज्जलं सागरोपमम् ॥५३॥
यस्य छत्रं हयश्चैव कुञ्जरारोहं ऋद्धिमत् ।
ऐन्द्रं स्थानं उपासीत तस्मात्तं न विचारयेत् ॥५४॥
वैश्वदेवकृतं पापं शक्तो भिक्षुर्व्यपोहितुम् ।
न हि भिक्षुकृतान्दोषान्वैश्वदेवो व्यपोहति ॥५५॥
अकृत्वा वैश्वदेवं तु भुञ्जते ये द्विजाधमाः ।
सर्वे ते निष्फला ज्ञेयाः पतन्ति नरकेऽशुचौ ॥५६॥
वैश्वदेवविहीना ये आतिथ्येन बहिष्कृताः ।
सर्वे ते नरकं यान्ति काकयोनिं व्रजन्ति च ॥५७॥
पापो वा यदि चण्डालो विप्रघ्नः पितृघातकः ।
वैश्वदेवे तु संप्राप्तः सोऽतिथिः स्वर्गसंक्रमः ॥५८॥
यो वेष्टितशिरा भुङ्क्ते यो भुङ्क्ते दक्षिणामुखः ।
वामपादे करं न्यस्य तद्वै रक्षांसि भुञ्जते ॥५९॥
अव्रता ह्यनधीयाना यत्र भैक्षचरा द्विजाः ।
तं ग्रामं दण्डयेद्राजा चोरभक्तप्रदो हि सः ॥६०॥
क्षत्रियो हि प्रजा रक्षञ् शस्त्रपाणिः प्रदण्डवान् ।
निर्जित्य परसैन्यानि क्षितिं धर्मेण पालयेत् ॥६१॥
पुष्पं पुष्पं विचिनुयान्मूलच्छेदं न कारयेत् ।
मालाकार इवारामे न यथाङ्गारकारकः ॥६२॥
लाभकर्म तथा रत्नं गवां च परिपालनम् ।
कृषिकर्म च वाणिज्यं वैश्यवृत्तिरुदाहृता ॥६३॥
शूद्रस्य द्विजशुश्रूषा परमो धर्म उच्यते ।
अन्यथा कुरुते किंचित्तद्भवेत्तस्य निष्फलं ॥६४॥
लवणं मधुतैलं च दधितक्रं घृतं पयः ।
न दुष्येच्छूद्रजातीनां कुर्यात्सर्वेषु विक्रयं ॥६५॥
विक्रीणन्मध्यमांसानि ह्यभक्षस्य च भक्षणम् ।
कुर्वन्नगम्या गमनं शूद्रः पतति तत्क्षणात् ॥६६॥
कपिलाक्षीरपानेन ब्राह्मणीगमनेन च ।
वेदाक्षरविचारेण शूद्रश्चाण्डालतां व्रजेत् ॥६७॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP