पराशरस्मृतिः - द्वादशोध्यायः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


दुःस्वप्नं यदि पश्येत्तु वान्ते तु क्षुरकर्मणि ।
मैथुने प्रेतधूमे च स्नानं एव विधीयते ॥१॥

अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टं एव च ।
पुनः संस्कारं अर्हन्ति त्रयो वर्णा द्विजातयः ॥२॥

अजिनं मेखला दण्डो भैक्ष्यचर्या व्रतानि च ।
निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणि ॥३॥

विण्मूत्रभोजी शुध्यर्थं प्राजापत्यं समाचरेत् ।
पञ्चगव्यं च कुर्वीत स्नात्वा पीत्वा शुचिर्भवेत् ॥४॥

जलाग्निपतने चैव प्रव्रज्यानाशकेषु च ।
प्रत्यावसितवर्णानां कथं शुद्धिर्विधीयते ॥५॥

प्राजापत्यद्वयेनैव तीर्थाभिगमनेन च ।
वृषैकादशदानेन वर्णाः शुध्यन्ति ते त्रयः ॥६॥

ब्राह्मणस्य प्रवक्ष्यामि वनं गत्वा चतुष्पथे ।
सशिखं वपनं कृत्वा प्राजापत्यद्वयं चरेत् ॥७॥

गोद्वयं दक्षिणां दद्याच्छुद्धिं स्वायंभुवोऽब्रवीत् ।
मुच्यते तेन पापेन ब्राह्मणत्वं च गच्छति ॥८॥

स्नानानि पञ्च पुण्यानि कीर्तितानि मनीषिभिः ।
आग्नेयं वारुणं ब्राह्मं वायव्यं दिव्यं एव च ॥९॥

आग्नेयं भस्मना स्नानं अवगाह्य तु वारुणम् ।
आपो हि ष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम् ॥१०॥

यत्तु सातपवर्षेण तत्स्नानं दिव्यं उच्यते ।
तत्र स्नात्वा तु गङ्गायां स्नातो भवति मानवः ॥११॥

स्नातुं यान्तं द्विजं सर्वे देवाः पितृगणैः सह ।
वायुभूतास्तु गच्छन्ति तृषार्ताः सलिलार्थिनः ॥१२॥

निराशास्ते निवर्तन्ते वस्त्रनिष्पीडने कृते ।
तस्मान्न पीडयेद्वस्त्रं अकृत्वा पितृतर्पणम् ॥१३॥

रोमकूपेष्ववस्थाप्य यस्तिलैर्तर्पयेत्पितॄन् ।
पितरस्तर्पितास्तेन रुधिरेण मलेन च ॥१४॥

अवधूनोति यः केशान्स्नात्वा यस्तूत्सृजेन्मलम् ।
आचामेद्वा जलस्थेऽपि स बाह्यः पितृदैवतैः ॥१५॥

शिरः प्रावृत्त्य कण्ठं वा मुक्तकच्छशिखोऽपि वा ।
विना यज्ञोपवीतेन आचान्तोऽप्यशुचिर्भवेत् ॥१६॥

जले स्थलस्थो नाचामेज्जलस्थश्च बहिःस्थले ।
उभे स्पृष्ट्वा समाचान्त उभयत्र शुचिर्भवेत् ॥१७॥

स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे ।
आचान्तः पुनराचामेद्वासो विपरिधाय च ॥१८॥

क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथानृते ।
पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥१९॥

प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ।
विप्रस्य दक्षिणे कर्णे सन्तीति मनुरब्रवीत् ॥२०॥

अग्निरापश्च वेदाश्च सोमसूर्यानिलास्तथा ।
सर्व एव तु विप्रस्य श्रोत्रे तिष्ठन्ति दक्षिणे ॥२१(२०)॥

भास्करस्य करैः पूतं दिवा स्नानं प्रशस्याते ।
अप्रशस्तं निशि स्नानम् राहोरन्यत्र दर्शनात् ॥२२(२१)॥

स्नानं दानं जपो होमः कर्तव्यो राहुदर्शने ।
अन्यदा त्वशुची रात्रिस्तस्मात्तां परिवर्जयेत् ॥२३(२२)॥

मरुतो वसवो रुद्रा आदित्याश्चैव देवताः ।
सर्वे सोमे प्रलीयन्ते तस्माद्दानं तु तद्ग्रहे ॥२४(२३)॥

खलयज्ञे विवाहे च संक्रान्तौ ग्रहणे तथा ।
शर्वर्यां दानं अस्त्येव नान्यत्रैव विधीयते ॥२५(२४)॥

पुत्रजन्मनि यज्ञे च तथा चात्ययकर्मणि ।
राहोश्च दर्शने दानं प्रशस्तं नान्यदा निशि ॥२६(२५)॥

महानिशा तु विज्ञेया मध्यस्थं प्रहरद्वयम् ।
प्रदोषपश्चिमौ यामौ दिनवत्स्नानं आचरेत् ॥२७(२६)॥

चैत्यवृक्षश्चितिर्यूपश्चण्डालः सोमविक्रयी ।
एतांस्तु ब्राह्मणः स्पृष्ट्वा सवासा जलं आविशेत् ॥२८(२७)॥

अस्थिसंचयनात्पूर्वं रुदित्वा स्नानं आचरेत् ।
अन्तर्दशाहे विप्रस्य ह्यूर्ध्वं आचमनं भवेत् ॥२९(२८)॥

सर्वं गङ्गासमं तोयं राहुग्रस्ते दिवाकरे ।
सोमग्रहे तथैवोक्तं स्नानदानादिकर्मसु ॥३०(२९)॥

कुशैः पूतं तु यत्स्नानं कुशेनोपस्पृशेद्द्विजः ।
कुशेन चोद्धृतं तोयं सोमपानसमं भवेत् ॥३१(३०)॥

अग्निकार्यात्परिभ्रष्टाः संध्योपासनवर्जिताः ।
वेदं चाइवानधीयानाः सर्वे ते वृषलाः स्मृताः ॥३२(३१)॥

तस्माद्वृषलभीतेन ब्राह्मणेन विशेषतः ।
अध्येतव्योऽप्येकदेशो यदि सर्वं न शक्यते ॥३३(३२)॥

शूद्रान्नरसपुष्टस्याप्यधीयानस्य नित्यशः ।
जपतो जुह्वतो वापि गतिरूर्ध्वा न विद्यते ॥३४(३३)॥

शूद्रान्नं शूद्रसंपर्कः शूद्रेण तु सहासनम् ।
शूद्राज्ज्ञानागमश्चैव ज्वलन्तं अपि पातयेत् ॥३५(३४)॥

यः शूद्र्या पाचयेन्नित्यं शूद्री च गृहमेधिनी ।
वर्जितः पितृदेवेभ्यो रौरवं याति स द्विजः ॥३६(३५)॥

मृतसूतकपुष्टाङ्गो द्विजः शूद्रान्नभोजनः ।
अहं तन्न विजानामि कां कां योनिं गमिष्यति ॥३७(३६)॥

गृध्रो द्वादशजन्मानि दशजन्मानि सूकरः ।
श्वयोनौ सप्तजन्मा स्यादित्येवं मनुरब्रवीत् ॥३८(३७)॥

दक्षिणार्थं तु यो विप्रः शूद्रस्य जुहुयाद्धविः ।
ब्राह्मणस्तु भवेच्छूद्रः शूद्रस्तु ब्राह्मणो भवेत् ॥३९(३८)॥

मौनव्रतं समाश्रित्य आसीनो न वदेद्द्विजः ।
भुञ्जानो हि वदेद्यस्तु तदन्नं परिवर्जयेत् ॥४०(३९)॥

अर्धे भुक्ते तु यो विप्रस्तस्मिन्पात्रे जलं पिबेत् ।
हतं दैवं च पित्र्यं च आत्मानं चोपघातयेत् ॥४१(४०)॥

भुञ्जानेषु तु विप्रेषु योऽग्रे पात्रं विमुञ्चति ।
स मूढः स च पापिष्ठो ब्रह्मघ्नः स खलूच्यते ॥४२(४१)॥

भाजनेषु च तिष्ठत्सु स्वस्तिकुर्वन्ति ये द्विजाः ।
न देवास्तृप्तिं आयान्ति निराशाः पितरस्तथा ॥४३(४२)॥

अस्नात्वा नैव भुञ्जीता अजप्त्वाग्निं अहूय च ।
पर्णपृष्ठे न भुञ्जीत रात्रौ दीपं विना तथा ॥४४(४३)॥

गृहस्थस्तु दयायुक्तो धर्मं एवानुचिन्तयेत् ।
पोष्यवर्गार्थसिद्ध्यर्थं न्यायवर्ती सुबुद्धिमान् ॥४५(४४)॥

न्यायोपार्जितवित्तेन कर्तव्यं ह्यात्मरक्षणम् ।
अन्यायेन तु यो जीवेत्सर्वकर्मबहिष्कृतः ॥४६(४५)॥

अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः ।
दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत्तु नित्यशः ॥४७(४६)॥

अरणिं कृष्णमार्जारं चन्दनं सुमणिं घृतम् ।
तिलान्कृष्णाजिनं छागं गृहे चैतानि रक्षयेत् ॥४८(४७)॥

गवां शतं सैकवृषं यत्र तिष्ठत्ययन्त्रितम् ।
तत्क्षेत्रं दशगणितं गोचर्मपरिकीर्तितम् ॥४९(४८)॥

ब्रह्महत्यादिभिर्मर्त्यो मनोवाक्कायकर्मजैः ।
एतद्गोचर्मदानेन मुच्यते सर्वकिल्बिषैः ॥५०(४९)॥

कुटुम्बिने दरिद्राय श्रोत्रियाय विशेषतः ।
यद्दानं दीयते तस्मै तद्दानं शुभकारकं ॥५१(५०)॥

वापीकूपतडागाद्यैर्वाजपेयशतैर्मुखैः ।
गवां कोटिप्रदानेन भूमिहर्ता न शुध्यति ॥५२(५१)॥

अष्टादशदिनादर्वाक्स्नानं एव रजस्वला ।
अत ऊर्ध्वं त्रिरात्रं स्यादुशना मुनिरब्रवीत् ॥५३(५२)॥

युगं युगद्वयं चैव त्रियुगं च चतुर्युगम् ।
चाण्डालसूतिकोदक्या पतितानां अधः क्रमात् ॥५४(५३)॥

ततः संनिधिमात्रेण सचैलं स्नानं आचरेत् ।
स्नात्वावलोकयेत्सूर्यं अज्ञानात्स्पृशते यदि ॥५५(५४)॥

विद्यमानेषु हस्तेषु ब्राह्मणो ज्ञानदुर्बलः ।
तोयं पिबति वक्त्रेण श्वयोनौ जायते ध्रुवम् ॥५६(५५)॥

यस्तु क्रुद्धः पुमान्ब्रूयाज्जायायास्तु अगम्यताम् ।
पुनरिच्छति चेदेनां विप्रमध्ये तु श्रावयेत् ॥५७(५६)॥

श्रान्तः क्रुद्धस्तमोऽन्धो वा क्षुत्पिपासाभयार्दितः ।
दानं पुण्यं अकृत्वा तु प्रायश्चित्तं दिनत्रयम् ॥५८(५७)॥

उपस्पृशेत्त्रिषवणं महानद्युपसंगमे ।
चीर्णान्ते चैव गां दद्याद्ब्राह्मणान्भोजयेद्दश ॥५९(५८)॥

दुराचारस्य विप्रस्य निषिद्धाचरणस्य च ।
अन्नं भुक्त्वा द्विजः कुर्याद्दिनं एकं अभोजनं ॥६०(५९)॥

सदाचारस्य विप्रस्य तथा वेदान्तवेदिनः ।
भुक्त्वान्नं मुच्यते पापादहोरात्रान्तरान्नरः ॥६१(६०)॥

ऊर्ध्वोच्छिष्टं अधोच्छिष्टं अन्तरिक्षं ऋतौ तथा ।
कृच्छ्रत्रयं प्रकुर्वीत अशौचमरणे तथा ॥६२(६१)॥

कृच्छ्रं देव्ययुतं चैव प्राणायामशतद्वयम् ।
पुण्यतीर्थेऽनार्द्रशिरः स्नानं द्वादशसंख्यया ॥६३(६२)॥

द्वियोजने तीर्थयात्रा कृच्छ्रं एकं प्रकल्पितम् ।
गृहस्थः कामतः कुर्याद्रेतसः स्खलनं भुवि ॥६४(६३)॥

सहस्रं तु जपेद्देव्याः प्राणायामैस्त्रिभिः सह ।
चतुर्विद्योपपन्नस्तु विधिवद्ब्रह्मघातके ॥६५(६४)॥

समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत् ।
सेतुबन्धपथे भिक्षां चातुर्वर्ण्यात्समाचरेत् ॥६६(६५)॥

वर्जयित्वा विकर्मस्थांश्छत्रोपानद्विवर्जितः ।
अहं दुष्कृतकर्मा वै महापातककारकः ॥६७(६६)॥

गृहद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः ।
गोकुलेषु वसेच्चैव ग्रामेषु नगरेषु वा ॥६८(६७)॥

तपो वनेषु तीर्थेषु नदीप्रस्रवणेषु वा ।
एतेषु ख्यापयन्नेनः पुण्यं गत्वा तु सागरं ॥६९(६८)॥

दशयोजनविस्तीर्णं शतयोजनं आयतम् ।
रामचन्द्रसमादिष्ट नलसंचयसंचितम् ॥७०(६९)॥

सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति ।
सेतुं दृष्ट्वा विशुद्धात्मा त्ववगाहेत सागरम् ॥७१(७०)॥

यजेत वाश्वमेधेन राजा तु पृथिवीपतिः ।
पुनः प्रत्यागते वेश्म वासार्थं उपसर्पति ॥७२(७१)॥

सपुत्रः सह भृत्यैश्च कुर्याद्ब्राह्मणभोजनम् ।
गाश्चैवैकशतं दद्याच्चतुर्विध्येषु दक्षिणाम् ॥७३(७२)॥

ब्राह्मणानां प्रसादेन ब्रह्महा तु विमुच्यते ।
सवनस्थां स्त्रियं हत्वा ब्रह्महत्याव्रतं चरेत् ॥७४(७३)॥

मद्यपश्च द्विजः कुर्यान्नदीं गत्वा समुद्रगाम् ।
चान्द्रायणे ततश्चीर्णे कुर्याद्ब्राह्मणभोजनं ॥७५(७४)॥

अनडुत्सहितां गां च दद्याद्विप्रेषु दक्षिणाम् ।
सुरापानं सकृत्कृत्वा अग्निवर्णं सुरां पिबेत् ॥७६(७५)॥

स पावयेदथात्मानं इहलोके परत्र च ।
अपहृत्य सुवर्णं तु ब्राह्मणस्य ततः स्वयं ॥७७(७६)॥

गच्छेन्मुसलं आदाय राजाभ्याशं वधाय तु ।
ततः शुद्धिं अवाप्नोति राज्ञासौ मुक्त एव च ॥७८(७७)॥

कामतस्तु कृतं यत्स्यान्नान्यथा वधं अर्हति ।
आसनाच्छयनाद्यानात्संभाषात्सह भोजनात् ॥७९(७८)॥

संक्रामन्ति हि पापानि तैलबिन्दुरिवाम्भसि ।
चान्द्रायणं यावकं तु तुलापुरुष एव च ॥८०(७९)॥

गवां चैवानुगमनं सर्वपापप्रणाशनम् ।
एतत्पाराशरं शास्त्रं श्लोकानां शतपञ्चकम् ।
द्विनवत्या समायुक्तं धर्मशास्त्रस्य संग्रहः ॥८१(८०)॥

यथाध्ययनकर्माणि धर्मशास्त्रं इदं तथा ।
अध्येतव्यं प्रयत्नेन नियतं स्वर्गगामिना ॥८२(८१)॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP