पराशरस्मृतिः - एकादशोध्यायः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अमेध्यरेतो गोमांसं चण्डालान्नं अथापि वा ।
यदि भुक्तं तु विप्रेण कृच्छ्रं चान्द्रायणं चरेत् ॥१॥

तथैव क्षत्रियो वैश्योऽप्यर्धं चान्द्रायणं चरेत् ।
शूद्रोऽप्येवं यदा भुङ्क्ते प्राजापत्यं समाचरेत् ॥२॥

पञ्चगव्यं पिबेच्छूद्रो ब्रह्मकूर्चं पिबेद्द्विजः ।
एकद्वित्रिचतुर्गा वा दद्याद्विप्राद्यनुक्रमात् ॥३॥

शूद्रान्नं सूतकान्नं च अभोज्यस्यान्नं एव च ।
शङ्कितं प्रतिषिद्धान्नं पूर्वोच्छिष्टं तथैव च ॥४॥

यदि भुक्तं तु विप्रेण अज्ञानादापदापि वा ।
ज्ञात्वा समाचरेत्कृच्छ्रं ब्रह्मकूर्चं तु पावनम् ॥५॥

बालैर्नकुलमार्जारैरन्नं उच्छिष्टितं यदा ।
तिलदर्भोदकैः प्रोक्ष्य शुध्यते नात्रसंशयः ॥६॥

एकपङ्क्त्युपविष्टानां विप्राणां सह भोजने ।
यद्येकोऽपि त्यजेत्पात्रं शेषं अन्नं न भोजयेत् ॥७॥

मोहाद्भुञ्जीत यस्तत्र पङ्क्तावुच्छिष्टभोजने ।
प्रायश्चित्तं चरेद्विप्रः कृच्छ्रं सांतपनं तथा ॥८॥

पीयूषं श्वेतलशुनं वृन्ताकफलगृञ्जने ।
पलाण्डुवृक्षनिर्यास देवस्वकवकानि च ॥९॥

उष्ट्रीक्षीरं अविक्षीरं अज्ञानाद्भुञ्जते द्विजः ।
त्रिरात्रं उपवासेन पञ्चगव्येन शुध्यति ॥१०॥

मण्डूकं भक्षयित्वा तु मूषिकामांसं एव च ।
ज्ञात्वा विप्रस्त्वहोरात्रं यावकान्नेन शुध्यति ॥११॥

क्षत्रियश्चापि वैश्यश्च क्रियावन्तौ शुचिव्रतौ ।
तद्गृहे तु द्विजैर्भोज्यं हव्यकव्येषु नित्यशः ॥१२॥

घृतं तैलं तथा क्षीरं भक्ष्यं स्नेहेन पाचितम् ।
गत्वा नदीतटे विप्रो भुञ्जीयाच्छूद्रभोजनं ॥१३॥

मद्यमांसरतं नित्यं नीचकर्मप्रवर्तकम् ।
तं शूद्रं वर्जयेद्विप्रः श्वपाकं इव दूरतः ॥१४॥

द्विजशुश्रूषणरतान्मद्यमांसविवर्जितान् ।
स्वकर्मणि रतान्नित्यं न तान्शूद्रान्त्यजेद्द्विजः ॥१५॥

अज्ञानाद्भुञ्जते विप्राः सूतके मृतकेऽपि वा ।
प्रायश्चित्तं कथं तेषां वर्णे वर्णे विनिर्दिशेत् ॥१६॥

गायत्र्यष्टसहस्रेण शुद्धिः स्याच्छूद्रसूतके ।
वैश्ये पञ्चसहस्रेण त्रिसहस्रेण क्षत्रिये ॥१७॥

ब्राह्मणस्य यदा भुङ्क्ते द्वे सहस्रे तु दापयेत् ।
अथवा वामदैव्येन साम्नैवैकेन शुध्यति ॥१८॥

शुष्कान्नं गोरसं स्नेहं शूद्रवेश्मन आगतम् ।
पक्वं विप्रगृहे भुक्तं भोज्यं तन्मनुरब्रवीत् ॥१९॥

आपत्कालेषु विप्रेण भुक्तं शूद्रगृहे यदि ।
मनस्तापेन शुध्येत द्रुपदां वा जपेच्छतम् ॥२०॥

दासनापितगोपाल कुलमित्रार्धसीलिणः ।
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥२१॥

शूद्रकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः ।
संस्कारात्तु भवेद्दासः असंस्कारात्तु नापितः ॥२२॥

क्षत्रियाच्छूद्रकन्यायां समुत्पन्नस्तु यः सुतः ।
स गोपाल इति ज्ञेयो भोज्यो विप्रैर्न संशयः ॥२३॥

वैश्यकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः ।
स ह्यार्धिक इति ज्ञेयो भोज्यो विप्रैर्न संशयः ॥२४॥

भाण्डस्थितं अभोज्येषु जलं दधि घृतं पयः ।
अकामतस्तु यो भुङ्क्ते प्रायश्चित्तं कथं भवेत् ॥२५॥

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा उपसर्पति ।
ब्रह्मकूर्चोपवासेन याज्यवर्णस्य निष्कृतिः ॥२६॥

शूद्राणां नोपवासः स्याच्छूद्रो दानेन शुध्यति ।
ब्रह्मकूर्चं अहोरात्रं श्वपाकं अपि शोधयेत् ॥२७॥

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
निर्दिष्टं पञ्चगव्यं तु पवित्रं पापशोधनं ॥२८॥

गोमूत्रं कृष्णवर्णायाः श्वेतायाश्चैव गोमयम् ।
पयश्च ताम्रवर्णाया रक्ताया गृह्यते दधि ॥२९॥

कपिलाया घृतं ग्राह्यं सर्वं कापिलं एव वा ।
मूत्रं एकपलं दद्यादङ्गुष्ठार्धं तु गोमयं ॥३०॥

क्षीरं सप्तपलं दद्याद्दधि त्रिपलं उच्यते ।
घृतं एकपलं दद्यात्पलं एकं कुशोदकम् ॥३१॥

गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राव्णस्तथा दधि ॥३२॥

तेजोऽसि शुक्रं इत्याज्यं देवस्य त्वा कुशोदकम् ।
पञ्चगव्यं ऋचा पूतं स्थापयेदग्निसंनिधौ ॥३३॥

आपोहिष्ठेति चालोड्य मानस्तोकेति मन्त्रयेत् ।
सप्तावरास्तु ये दर्भा अछिन्नाग्राः शुकत्विषः ॥३४॥

एतैरुद्धृत्य होतव्यं पञ्चगव्यं यथाविधि ।
इरावती इदं विष्णुर्मानस्तोकेति शंवती ॥३५॥

एताभिश्चैव होतव्यं हुतशेषं पिबेद्द्विजः ।
आलोड्य प्रणवेनैव निर्मन्थ्य प्रणवेन तु ॥३६॥

उद्धृत्य प्रणवेनैव पिबेच्च प्रणवेन तु ।
यत्त्वस्थिगतं पापं देहे तिष्ठति देहिनाम् ॥३७॥

ब्रह्मकूर्चो दहेत्सर्वं प्रदीप्ताग्निरिवेन्धनम् ।
पवित्रं त्रिषु लोकेषु देवताभिरधिष्ठितं ॥३८॥

वरुणश्चैव गोमूत्रे गोमये हव्यवाहनः ।
दध्नि वायुः समुद्दिष्टः सोमः क्षीरे घृते रविः ॥३९॥

पिबतः पतितं तोयं भाजने मुखनिःसृतम् ।
अपेयं तद्विजानीयात्पीत्वा चान्द्रायणं चरेत् ॥४०॥

कूपे च पतितं दृष्ट्वा श्वसृगालौ च मर्कटम् ।
अस्थिचर्मादि पतितं पीत्वामेध्या अपो द्विजः ॥४१॥

नारं तु कुणपं काकं विड्वराहखरोष्ट्रकम् ।
गावयं सौप्रतीकं च मायूरं खाड्गकं तथा ॥४२॥

वैयाघ्रं आर्क्षं सैंहं वा कूपे यदि निमज्जति ।
तटाकस्याथ दुष्टस्य पीतं स्यादुदकं यदि ॥४३॥

प्रायश्चित्तं भवेत्पुंसः क्रमेणैतेन सर्वशः ।
विप्रः शुध्येत्त्रिरात्रेण क्षत्रियस्तु दिनद्वयात् ॥४४॥

एकाहेन तु वैश्यस्तु शूद्रो नक्तेन शुध्यति ।
परपाकनिवृत्तस्य परपाकरतस्य च ॥४५॥

अपचस्य च भुक्त्वान्नं द्विजश्चान्द्रायणं चरेत् ।
अपचस्य च यद्दानं दातुश्चास्य कुतः फलम् ॥४६॥

दाता प्रतिग्रहीता च तौ द्वौ निरयगामिनौ ।
गृहीत्वाग्निं समारोप्य पञ्चयज्ञान्न निर्वपेत् ॥४७॥

परपाकनिवृत्तोऽसौ मुनिभिः परिकीर्तितः ।
पञ्चयज्ञान्स्वयं कृत्वा परान्नेनोपजीवति ॥४८॥

सततं प्रातरुत्थाय परपाकरतस्तु सः ।
गृहस्थधर्मा यो विप्रो ददाति परिवर्जितः ॥४९॥

ऋषिभिर्धर्मतत्त्वज्ञैरपचः परिकीर्तितः ।
युगे युगे तु ये धर्मास्तेषु तेषु च ये द्विजाः ॥५०॥

तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ।
हुंकारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः ॥५१॥

स्नात्वा तिष्ठन्नहः शेषं अभिवाद्य प्रसादयेत् ।
ताडयित्वा तृणेनापि कण्ठे बद्ध्वापि वाससा ॥५२॥

विवादेनापि निर्जित्य प्रणिपत्य प्रसादयेत् ।
अवगूर्य त्वहोरात्रं त्रिरात्रं क्षितिपातने ॥५३॥

अतिकृच्छ्रं च रुधिरे कृच्छ्रोऽभ्यन्तरशोणिते ।
नवाहं अतिकृच्छ्री स्यात्पाणिपूरान्नभोजनः ॥५४॥

त्रिरात्रं उपवासी स्यादतिकृच्छ्रः स उच्यते ।
सर्वेषां एव पापानां संकरे समुपस्थिते ॥५५॥

दशसाहस्रं अभ्यस्ता गायत्री शोधनं परम् ॥५६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP