स्मरदीपिका - सूत्र ७

स्मरदीपिका श्री मीनानाथ द्वारा संस्कृत भाषा में रचित एक अद्भुत कामशास्त्रीय काव्य है।


बालेति गीयते नारी यावत्षोडशवत्सरम्  ।
तस्मात्परं च योग्या सा यावद्विंशतिवत्सरम् ॥१५१॥
विद्वद्भिः सर्वजगति तरुणीत्यभिधीयते ।
तदूर्ध्वं अतिरूढा स्याद्यावत्पञ्चाशतं पुनः ॥१५२॥
वृद्धा ततः परं ज्ञेया सुरतोत्सववर्जिता ।
प्रीणाति बाला मालाद्यैस्तरुणी वस्त्रदानतः ॥१५३॥
प्रेमवाक्यादिभिः प्रौढा वृद्धा च दृढताडनात् ।
फलताम्बूलवासोभिर्बाला वश्या भवेन्नृणाम् ॥१५४॥
विविधाभरणैः स्नेहैस्तरुणी वशवर्तिनी ।
गाढालिङ्गनचुम्बनैश्च अतिरूढास्तु योषितः ॥१५५॥
गौरवैर्मधुरालापैर्भवेद्वृद्धा प्रियंवदा ।
तथा कुसुमधर्मिण्यः स्त्रियो वृद्धपरिग्रहाः ॥१५६॥
उपक्रामन्ति विश्वासाद्द्विषन्ति पुरुषं क्षणात् ।
निदाघशरदोर्बाला सेव्या विषयिणां भवेत् ॥१५७॥
हेमन्ते शिशिरे योग्या प्रौढा वर्षावसन्तयोः ।
सततं सेव्यमानापि बाला वर्धयते बलम् ॥१५८॥
क्षेमं नयति योग्या स्त्री वृद्धा प्रकुरुते जराम्  ।
उत्साहहानिं वृद्धा स्त्री दिशेद्रोगक्षयादिकम् ॥१५९॥
बाला च प्राणदा प्रोक्ता तरुणी प्राणहारिणी ।
प्रौढा करोति वृद्धत्वं वृद्धा मरणं आदिशेत् ॥१६०॥
आसीने लालयेद्बालां तरुणीं शयने तथा ।
उत्थाने त्वतिरूढां च लालनं त्रिविधं मतम् ॥१६१॥
अध्वक्लान्ता ऋतुस्नाता प्रथमज्वरिता तथा ।
मधुपानप्रसन्ना च नर्तिता विरही तथा ॥१६२॥
षण्मासगर्भिणी मासप्रसूता नवरङ्गिणी ।
एता वहन्ति सुतरां स्त्रियो न सुरतोत्सवम् ॥१६३॥
आलिङ्गनविहीनं तु यो वेत्ति सुरतोत्सवम्  ।
पशोरिव भवेत्तस्य सिद्धिः स्वार्थैकसिद्धये ॥१६४॥
आलिङ्गचुम्बने दंशो भगस्तनविमर्दनम्  ।
नखदानं च घातश्च ग्रहणं कुचकेशयोः ॥१६५॥
करोति चिन्मयं हास्यं जिह्वाकण्ठाधरग्रहः ।
एतद्दशप्रभेदं हि क्षरणस्य प्रकीर्तितम् ॥१६६॥
नारीणां मोहनं तावद्यावन्नोत्कण्ठिता प्रिया ।
अन्यथा तत्सुखोच्छितिरशीतार्ककरादिव ॥१६७॥
शीत्कारं चाथ हुंकारं हसितं च त्रपाक्षयः ।
प्रस्विन्नवदनं चैव विकारोऽथ भगस्य च ॥१६८॥
बुद्ध्वा चैतानि लिङ्गानि योषितां सुरते बुधः ।
तया तुल्यसुखं वाञ्छन्ननुरागं समाचरेत् ॥१६९॥
पुष्पं माल्यं सुवर्णं च राजतं तरुणीसुखम्  ।
तरुणीरहिते कान्ते व्यर्थं देशविचेष्टितम् ॥१७०॥
दैवाद्यदि कदाचिद्धि विच्छेदः क्रमशस्तदा ।
दशमीं मन्मथावस्थां प्राप्नोत्येव न संशयः ॥१७१॥
अभिलाषश्चिन्तनं चानुस्मृतिर्गुणकीर्तनम्  ।
उन्मादो विप्रलापश्च उद्वेगो व्याधिरष्टमः ॥१७२॥
जरता मरणं चेति दशावस्था मनोभुवः ।
प्रमदानां नराणां च स्मरोन्मथितचेतसाम् ॥१७३॥
लक्षयित्वेङ्गितं स्त्रीणां हृदि विज्ञः प्रवर्तते ।
सत्यं वल्लभतां याति सुमध्यानां च योषिताम् ॥१७४॥
विज्ञः साध्यां यत्नसाध्यां वचसा चैव साधयेत् ।
साधनं कठिनं स्त्रीणां दुर्निरूप्या भवन्ति ताः ॥१७५॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP