स्मरदीपिका - सूत्र ९

स्मरदीपिका श्री मीनानाथ द्वारा संस्कृत भाषा में रचित एक अद्भुत कामशास्त्रीय काव्य है।


असाध्यायाः सुखं सिद्धिः साध्यायाश्चानुरञ्जनम्  ।
स्वेच्छया वर्धते सम्यक्कामशास्त्रप्रयोजनम् ॥२०१॥
अथ शुद्धं तथाशुद्धं समासादिततत्क्रियः ।
मन्त्रो गुरुमुखाल्लब्धः सिध्यत्यत्र न संशयः ॥२०२॥
त्रिचामुण्डे इति पदं ततः क्वनु क्वनु स्मृतम्  ।
ततः पदं छनु छनु स्वकीयं वशं आनयेत् ॥२०३॥
साध्यानाम द्वितीयान्तं दत्त्वा स्वाहेति योजयेत् ।
सामान्येनामुकीनामजपं कृत्वा वशं नयेत् ॥२०४॥
ह्रीं स्वाहेति मन्त्रेण साध्यानामान्वितेन च ।
सप्ताभिमन्त्रितं पुष्पं यैव गृह्णाति सा वशा ॥२०५॥
काकजिह्वालिपक्षौ च सुवर्णमलं अश्रु च ।
रक्तं रतेश्च लेपेन वशीकुर्युर्मनीषिणः ॥२०६॥
सम्भोगजं वचाबीजं जिह्वा चार्कदलं सितम्  ।
संचूर्ण्याञ्जितनेत्राणां भार्यापि वशतां नयेत् ॥२०७॥
हरितालं मनःशिला रक्तचन्दनं एतत्सर्वं चूर्णीकृत्य ।
पुष्पेण सह यस्याः शिरसि दीयते सा पशुवद्वश्या भवति ।
पेचकस्य हृदयं कुङ्कुमेन सह सम्पिष्य तिलकं कुर्यात्तेन लोको वश्यो भवति ॥२०८॥
अश्वगन्धा वचा कुष्ठं बला नागबला तथा ।
माहिषं नवनीतं च गजपिप्पलीसंयुतम् ॥२०९॥
पिष्ट्वा तेषां विलेपेन गाढीकरणं उत्तमम्  ।
सम्पिष्टं छागमूत्रेण शूकशिम्बीसमुद्भवम् ॥२१०॥
नूनं तस्य प्रलेपेन लिङ्गं लौहोपमं भवेत् ।
नीलोत्पलसिताम्भोजकेसरं मधु शर्करा ॥२११॥
अमीषां नाभिलेपेन रमते कामुकश्चिरम्  ।
क्षीरेण कमलं पिष्ट्वा सलिलं गुटिकाकृतम् ॥२१२॥
उपस्थे निहितं कुर्यात्प्रकीर्णं अपि च क्वचित् ।
अस्थि कृष्णबिडालस्य दक्षिणपार्श्वसम्भवम् ॥२१३॥
बद्धं कटितटे बीजं विबन्धं कुरुते ध्रुवम्  ।
सप्तपर्णस्य बीजं हि स्तम्भयेच्छुक्रं आत्मगम् ॥२१४॥
सितशरपुंषामूलं पारदसहितं करे धृत्वा ।
करञ्जबीजं मध्यस्थं समूलं बन्धयेद्बीजम् ॥२१५॥
केतकीभूमिलतासनमूलीबन्धविपक्वं कुसुम्भतैलम्  ।
पादतले लेपेनावश्यं बीजस्तम्भं नयति पुंसाम् ॥२१६॥
माहिषदधिसहदेवीतिलमधुसितपद्मकेसरं मिलितम्  ।
चूर्णं नाभिविलेपाद्वीर्यस्तम्भं करोत्यवश्यम् ॥२१७॥
बृहत्करञ्जबीजस्थं पारदं पद्मवेष्टितम्  ।
मुखे क्षिप्तं इदं बीजं स्तम्भयत्येव निश्चितम् ॥२१८॥
कुर्यादादौ परिच्छेदं मर्दनं च विशेषतः ।
सप्ताहं भावयेन्माषं निस्तुषं विदलं ततः ॥२१९॥
नालिकेरोदकेनाथ पुनस्तेषां च भावना ।
तत्पश्चाद्घनभ्रष्टं च भक्षयेत्क्षीरसाधितम् ॥२२०॥
वधूशतसहस्राणि कामी कामयते ततः ॥२२१॥
यस्तूपानहं आकुञ्च्य समानेन नियोजयेत् ।
पादाङ्गुष्ठेन भूमौ तां पीडयेत्तु समाहितः ॥२२२॥
भक्षयेदथवा दग्धैश्चम्पकीकदलीयुतम्  ।
अत्यग्रभागसंयुक्तः पुना ऋद्धिं प्रयच्छति ॥२२३॥
कल्लोलिनीकाननकन्दरादौ दुःखाश्रये चार्पितचित्तवृत्तिः ।
समृद्धं आबद्धं अभिन्नधैर्यः श्लथोऽपि दीर्घं रमते रते ॥२२४॥
पारदं टङ्कनं व्योषा काकमाची तथा मधु ।
क्षिप्तलिङ्गश्चिरं नारीं द्रावयेद्रमणः सदा ॥२२५॥
तुम्बीपत्रं च लोध्रं च समभागेन लेपयेत् ।
भगलेपप्रदत्तेऽस्मिन्प्रसूताप्यक्षता भवेत् ॥२२६॥
पलाशोदुम्बरं चापि तैलं कुसुमसम्भवम्  ।
मधुना योनिसंलेपाद्गाढीकरणं उत्तमम् ॥२२७॥
स्वीयेष्टदेवतामन्त्रो जप्तः स्वार्थं अहिंसकः ।
यथाविभूतिदानं हि ब्रह्मचर्ये च तिष्ठति ॥२२८॥
कृत्वादौ तत्र शुद्धिं तु पुनः क्षेत्रे शुभेक्षणे ।
सूर्योदयप्रदोषाभ्यां विशेषाच्च स्वयं बली ॥२२९॥
कृत्वा चैकमना विज्ञो यदि बीजं विमुञ्चति ।
सूते मासोदये नूनं गुणवन्तं यशस्विनम् ॥२३०॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP