वराहपुराणम् - अध्यायः ९४
'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.
श्रीवराह उवाच ।
अथ विद्युत्प्रभो दैत्यस्तथा दूतो विसर्जितः ।
देव्याः सकाशं गत्वाऽसौ तामुवाच सुमध्यमाम् ॥१॥
प्रणम्य प्रयतो भूत्वा कुमारीशतसंकुलाम् ।
आस्थाने विनयापन्नस्ततो वचनमब्रवीत् ॥२॥
विद्युत्प्रभ उवाच ।
देवि पूर्वमृषिस्त्वासीदादिसर्गे कसंभवः ।
सखा सारस्वतो जातः सुपार्श्वो नाम वै विभुः ॥३॥
तस्याभवन्महातेजाः सिन्धुद्वीपः प्रतापवान् ।
स हि तीव्रं तपस्तेपे माहिष्मत्यां पुरोत्तमे ॥४॥
कुर्वतस्तु तपो घोरं निराहारस्य शोभने ।
आद्या तु विप्रचित्तेस्तु सुता सुरसुतोपमा ।
माहिष्मतीति विख्याता रूपेणासदृशी भुवि ॥५॥
सा सखीभिः परिवृता विहरन्ती यदृच्छया ।
आगता मन्दरद्रोणीं तत्रापश्यत् तपोवनम् ।
मुनेरम्बरसंज्ञस्य विविधद्रुममालिनम् ॥६॥
लतागृहैस्तु विविधैर्वकुलैर्लकुचैस्तथा ।
चन्दनैः स्पन्दनैः शालैः सरलैरुपशोभितम् ।
विचित्रवनखण्डैश्च भूषितं तु महात्मनः ॥७॥
दृष्ट्वाश्रमपदं रम्यं सासुरी कन्यका शुभम् ।
माहिष्मती वरारोहा चिन्तयामास भामिनी ॥८॥
भीषयित्वाहमेनं तु तापसं त्वाश्रमे स्वयम् ।
तिष्ठामि क्रीडती सार्धं सखीभिः परमार्चिता ॥९॥
एवं संचिन्त्य सा देवी महिषी संबभूव ह ।
सखीभिः सह विश्वेशि तीक्ष्णश्रृङ्गाग्रधारिणी ॥१०॥
तमृषिं भीषितुं ताभिः सह गत्वा वरानना ।
असौ बिभीषितस्ताभिस्तां ज्ञात्वा ज्ञानचक्षुषा ।
आसुरीं क्रोधसंपन्नः शशाप शुभलोचनाम् ॥११॥
यस्माद् भीषयसे मां त्वं महिषीरूपधारिणी ।
अतो भव महिष्येव पापकर्मे शतं समाः ॥१२॥
एवमुक्ता ततः सा तु सखीभिः सह वेपती ।
पादयोर्न्यपतत् तस्य शापान्तं कुरु जल्पती ॥१३॥
तस्यास्तद् वचनं श्रुत्वा स मुनिः करुणान्वितः ।
शापान्तमकरोत् तस्या वाक्यं चेदमुवाच ह ॥१४॥
अनेनैव स्वरूपेण पुत्रमेकं प्रसूय वै ।
शापान्तो भविता भद्रे मद्वाक्यं न मृषा भवेत् ॥१५॥
एवमुक्ता गता सा तु नर्मदातीरमुत्तमम् ।
यत्र तेपे तपो घोरं सिन्धुद्वीपो महातपाः ॥१६॥
तत्र चेन्दुमती नाम दैत्यकन्याऽतिरूपिणी ।
सा दृष्टा तेन मुनिना विवस्त्रा मज्जती जले ॥१७॥
चस्कन्द स मुनिः शुक्रं शिलाद्रोण्यां महातपाः ।
तच्च माहिष्मती दृष्ट्वा दिव्यगन्धि सुगन्धि च ।
ततः सखीरुवाचेदं पिबामीदं जलं शुभम् ॥१८॥
एवमुक्त्वा तु सा पीत्वा तच्छुक्रं मुनिसंभवम् ।
प्राप्ता गर्भं मुनेर्बीजात् सुषाव च तदा सतो ॥१९॥
तस्याः पुत्रोऽभवद् धीमान् महाबलपराक्रमः ।
महिषेति स्मृतो नाम्ना ब्रह्मवंशविवर्धनः ।
स त्वां वरयते देवि देवसैन्यविमर्दनः ॥२०॥
स सुरानपि जित्वाऽऽजौ त्रैलोक्यं च तवानघे ।
दास्यते देवि सुप्रोतस्तव सर्वं महासुरः ।
तस्यात्मोपप्रदानेन कुरु देवि महत् कृतम् ॥२१॥
एवमुक्ता तदा देवी तेन दूतेन शोभना ।
जहास परमा देवी वाक्यं नोवाच किञ्चन ॥२२॥
तस्या हसन्त्या दूतोऽसौ त्रैलोक्यं सचराचरम् ।
ददर्श कुक्षौ संभ्रान्तस्तत्क्षणात् समपद्यत ॥२३॥
ततो देव्याः प्रतीहारी जया नामातितेजना ।
देव्या हृदि स्थितं वाक्यमुवाच तनुमध्यमा ॥२४॥
जया उवाच ।
कन्यार्थी वदते यद्धि तत्त्वया समुदीरितम् ।
यदि नाम व्रतं चास्याः कौमारं सार्वकालिकम् ।
अपि चान्याः कुमार्योऽत्र सन्ति देव्याः पदानुगाः ॥२५॥
तासामेकाऽपि नो लभ्या किमु देवी स्वयं शुभा ।
याहि दूत त्वरन् मा ते किञ्चिदन्यद् भविष्यति ॥२६॥
एवमुक्तो गतो दूतस्तावद् व्योम्नि महामुनिः ।
आयातो नारदस्तूर्णं नृत्यन्नुच्चैर्महातपाः ॥२७॥
दिष्ट्या दिष्ट्येति वदतस्तां देवीं शुभलोचनाम् ।
उपविष्टो जगादाथ आसने परमेऽर्चितः ॥२८॥
प्रणम्य देवीं सर्वेशीमुवाच च महातपाः ।
देवि देवैरहं प्रीतैः प्रेषितोऽस्मि तवान्तिकम् ॥२९॥
विजिता देवि दैत्येन महिषाख्येन निर्जराः ।
त्वां गृहीतुं प्रयत्नं स कृतवान् देवि दैत्यराट् ॥३०॥
एवमुक्तोऽस्मि देवैस्त्वां बोधयामि वरानने ।
स्थिरीभूता महादेवि तं दैत्यं प्रतिघातय ॥३१॥
उक्त्वैवान्तर्हितः सद्यो नारदः स्वेच्छया ययौ ।
देवी च कन्यास्ताः सर्वाः सन्नह्यन्तामुवाच ह ॥३२॥
ततः कन्या महाभागाः सर्वास्ता देविशासनात् ।
बभूवुर्घोररूपिण्यः खङ्गचर्मधनुर्धराः ।
संग्रामहेतोः संतस्थुर्दैत्यविध्वंसनाय ताः ॥३३॥
तावद् दैत्यबलं सर्वं मुक्त्वा देवचमूं द्रुतम् ।
आययौ यत्र तद् देव्याः संनद्धं स्त्रीबलं महत् ॥३४॥
ततस्ता युयुधुः कन्या दानवैः सह दर्पिताः ।
क्षणेन तद् बलं ताभिश्चतुरङ्गं निपातितम् ॥३५॥
शिरांसि तत्र केषांचिच्छिन्नानि पतितानि च ।
अपरेषां विदार्योरः क्रव्यादाः पान्ति शोणितम् ॥३६॥
अन्ये कबन्धभूतास्तु ननृतुर्दैत्यनायकाः ।
एवं क्षणेन ते सर्वे विध्वस्ताः पापचेतसः ।
अपरे विद्रुताः सर्वे यत्रासौ महिषासुरः ॥३७॥
ततो हाहाकृतं सर्वं यथा दैत्यबलं महत् ।
एवं तदाकुलं दृष्ट्वा महिषो वाक्यमब्रवीत् ।
सेनापते किमेतद्धि बलं भग्नं ममाग्रतः ॥३८॥
ततो यज्ञहनुर्नामा दैत्यो हस्तिस्वरूपवान् ।
उवाच भग्नमेतद्धि कुमारीभिः समन्ततः ॥३९॥
ततो दुद्राव महिषस्ताः कन्याः शुभलोचनाः ।
गदामादाय तरसा कन्या दुद्राव वेगवान् ॥४०॥
यत्र तिष्ठति सा देवी देवगन्धर्वपूजिता ।
तत्रैव सोऽसुरः प्रायाद् यत्र देवी व्यवस्थिता ।
सा च दृष्ट्वा तमायान्तं विंशद्धस्ता बभूव ह ॥४१॥
धनुः खङ्गं तथा शक्तिं शरान् शूलं गदां तथा ।
परशुं डमरुं चैव तथा घण्टां विशालिनीम् ।
शतघ्नीं मुद्गरं घोरं भुशुण्डीं कुन्तमेव च ॥४२॥
मुसलं च तथा चक्रं भिन्दिपालं तथैव च ।
दण्डं पाशं ध्वजं चैव पद्मं चेति च विंशतिः ॥४३॥
भूत्वा विंशभुजा देवी सिंहमास्थाय दंशिता ।
सस्मार रुद्रं देवेशं रौद्रं संहारकारणम् ॥४४॥
ततो वृषध्वजः साक्षाद् रुद्रस्तत्रैव आययौ ।
तया प्रणम्य विज्ञप्तः सर्वान् दैत्यान् जयाम्यहम् ॥४५॥
त्वयि सन्निधिमात्रे तु देवदेव सनातन ।
एवमुक्त्वाऽसुरान् सर्वान् जिगाय परमेश्वरी ॥४६॥
मुक्तवा तमेकं महिषं शेषं हत्वा तमभ्ययात् ।
यावद् देवी ततः साऽपि तां दृष्ट्वा सोऽपि दुद्रुवे ॥४७॥
क्वचिद् युध्यति दैत्येन्द्रः क्वचिच्चैव पलायति ।
क्वचित् पुनर्मृधं चक्रे क्वचित् पुनरुपारमत् ॥४८॥
एवं वर्षहस्त्राणि दश तस्य तया सह ।
दिव्यानि विगतानि स्युर्युध्यतस्तस्य शोभने ।
बभ्राम सकलं त्वाजौ ब्रह्माण्डं भीतमानसम् ॥४९॥
ततः कालेन महता शतश्रृङ्गे महागिरौ ।
पद्भ्यामाक्रम्य शूलेन निहतो दैत्यसत्तमः ॥५०॥
शिरश्चिच्छेद खङ्गेन तत्र चान्तःस्थितः पुमान् ।
निर्गत्य विगतः स्वर्गं देव्याः शस्त्रनिपातनात् ॥५१॥
ततो देवगणाः सर्वे महिषं वीक्ष्य निर्जितम् ।
सब्रह्मका स्तुतिं चक्रुर्देव्यास्तुष्टेन चेतसा ॥५२॥
देवा ऊचुः ।
नमो देवि महाभागे गम्भीरे भीमदर्शने ।
जयस्थे स्थितिसिद्धान्ते त्रिनेत्रे विश्वतोमुखि ॥५३॥
विद्याविद्ये जये याज्ये महिषासुरमर्दिनि ।
सर्वगे सर्वदेवेशि विश्वरूपिणि वैष्णवि ॥५४॥
वीतशोके ध्रुवे देवि पद्मपत्रशुभेक्षणे ।
शुद्धसत्त्वव्रतस्थे च चण्डरूपे विभावरि ॥५५॥
ऋद्धिसिद्धिप्रदे देवि विद्येऽविद्येऽमृते शिवे ।
शांकरी वैष्णवी ब्राह्मी सर्वदेवनमस्कृते ॥५६॥
घण्टाहस्ते त्रिशूलास्त्रे महामहिषमर्दिनि ।
उग्ररूपे विरूपाक्षि महामायेऽमृतस्त्रवे ॥५७॥
सर्वसत्त्वहिते देवि सर्वसत्त्वमये ध्रुवे ।
विद्यापुराणशिल्पानां जननी भूतधारिणी ॥५८॥
सर्वदेवरहस्यानां सर्वसत्त्ववतां शुभे ।
त्वमेव शरणं देवि विद्येऽविद्ये श्रियेऽम्बिके ।
विरूपाक्षि तथा क्षान्ति क्षोभितान्तर्जलेऽविले ॥५९॥
नमोऽस्तु ते महादेवि नमोऽस्तु परमेश्वरि ।
नमस्ते सर्वदेवानां भावनित्येऽक्षयेऽव्यये ॥६०॥
शरणं त्वां प्रपद्यन्ते ये देवि परमेश्वरि ।
न तेषां जायते किञ्चिदशुभं रणसङ्कटे ॥६१॥
यश्च व्याघ्रभये घोरे चौरराजभये तथा ।
स्तबवमेनं सदा देवि पठिष्यति यतात्मवान् ॥६२॥
निगडस्थोऽपि यो देवि त्वां स्मरिष्यति मानवः ।
सोऽपि बन्धैर्विमुक्तस्ते सुसुखं वसते सुखी ॥६३॥
श्रीवराह उवाच ।
एवं स्तुता तदा देवी देवैः प्रणतिपूर्वकम् ।
उवाच देवान् सुश्रोणी वृणुध्वं वरमुत्तमम् ॥६४॥
देवा ऊचुः ।
देवि स्तोत्रमिदं ये हि पठिष्यन्ति तवानघे ।
सर्वकामसमापन्नान् कुरु देवि स नो वरः ॥६५॥
एवमस्त्विति तान् देवानुक्त्वा देवी पराऽपरा ।
विससर्ज ततो देवान् स्वयं तत्रैव संस्थिता ॥६६॥
एतद् द्वितीयं यो जन्म वेद देव्या धराधरे ।
स वीतशोको विरजाः पदं गच्छत्यनामयम् ॥६७॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुर्नवतितमोऽध्यायः ॥९४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP