धर्मपदम् - मार्गवर्गः विंशः
धर्मपदम्
मार्गाणामष्टाङ्गिकः श्रेष्ठः सत्यानां चत्वारि पदानि । विरागः श्रेष्ठो धर्माणां द्विपदानां च चक्षुष्मान् ॥१॥
एष वो मार्गो नाऽस्त्यन्यो दर्शनस्य विशुद्धये । एतं हि यूयं प्रतिपद्यध्वं मारस्यैष प्रमोहनः ॥२॥
एतं हि यूयं प्रतिपन्ना दुःखस्यान्तं करिष्यथ । आख्यातो वै मया मार्गः आज्ञाय शल्य- संस्थानम् ॥३॥
युष्माभिः कार्यं आतप्यं आख्यातारस्तथागताः । प्रतिपन्नाः प्रमोक्ष्यन्ते ध्यायिनो मारबन्धनात् ॥४॥
सर्वे संस्कारा अनित्या इति यदा प्रज्ञया पश्यति । अथ निर्विन्दति दुःखानि एष मार्गो विशुद्धये ॥५॥
सर्वे संस्कारा दुःखा इति यदा प्रज्ञया पश्यति । अथ निर्विन्दति दुःखानि एष मार्गो विशुद्धये ॥६॥
सर्वे धर्मा अनात्मान इति यदा प्रज्ञया पश्यति । अथ निर्विन्दति दुःखानि एष मार्गो विशुद्धये ॥७॥ उत्थानकालेऽनुत्तिष्ठन् युवा बलि आलस्यमुपेतः । संसन्न- सङ्कल्प- मनाः कुसीदः प्रज्ञया मार्गं अलसो न विन्दति ॥८॥
वाचाऽनुरक्षी मनसा सुसंकृतः कायेन चाऽकुशलं न कुर्यात् । एतान् त्रीन् कर्मपथान् विशोधयेत् आराधयेत् मार्गं ऋषिप्रवेदितम् ॥९॥
योगाद् वै जायते भूरि अयोगाद् भूरिसंक्षयः । एतं द्वेधापथं ज्ञात्त्वा भवाय विभवाय च । तथाऽऽत्मानं निवेशयेद् यथाभूरि प्रवर्धते ॥१०॥
वनं छिन्धि मा वृक्षं वनतो जायते भयम् । छित्त्वा वनं च वनथं च निर्वना भवथ भिक्षवः ॥११॥
यावद्धि वनथो न छिद्यतेऽणुमात्रोऽपि नरस्य नारीषु । प्रतिबद्धमनाः नु तावत् स वत्सः क्षीरप इव मातरि ॥१२॥ उच्छिन्धि स्नेहमात्मनः कुमुदं शारदीकमिव पाणिना । शान्तिमार्गमेव बृंहय निर्वाणं सुगतेन देशितम् ॥१३॥
इह वर्षासु वसिष्यामि इह हेमन्तग्रीष्मयोः । इति बालो विचिन्तयति अन्तरायं न बुध्यते ॥१४॥
तं पुत्र- पशु- सम्मतं व्यासक्तमनसं नरम् । सुप्तं ग्रामं महौघ इव मृत्युरादाय गच्छति ॥१५॥
न सन्ति पुत्रास्त्राणाय न पिता नाऽपि बान्धवाः । अन्तकेनाधिपन्नस्य नाऽस्ति ज्ञातिषु त्राणता ॥१६॥
एतमर्त्थवशं ज्ञात्वा पण्डितो शीलसंवृतः । निर्वाणगमनं मार्गं क्षिप्रमेव विशोधयेत् ॥१७॥
॥इति मार्गवर्गः समाप्तः ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP