संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - भिक्षुवर्गः पञ्चविंशः

धर्मपदम्


चक्षुषा संवरः साधुः साधुः श्रेत्रेण संवरः । घ्राणेन संवरः साधुः साधुः जिह्वया संवरः ॥१॥
कायेन संवरः साधुः साधुः वाचा संवरः । मनसा संवरः साधुः साधुः सर्वत्र संवरः । सर्वत्र संवृतो भिक्षुः सर्वदुःखात् प्रमुच्यते ॥२॥
हस्तसंयतः पादसंयतो वाचा संयतः संयतोत्तमः । अध्यात्मरतः समाहित एकः सन्तुष्टस्तमाहुर्भिक्षुम् ॥३॥
यो मुखसंयतो भिक्षुः मन्त्रभाणी अनुद्धतः । अर्थं धर्मं च दीपयति मधुरं तस्य भाषितम् ॥४॥
धर्मारामो धर्मरतो धर्मं अनुविचिन्तयन् । धर्ममनुस्मरन् भिक्षुः सद्धर्मान्न परिहीयते ॥५॥
स्वलाभं नाऽतिमन्येत नाऽन्येष्यः स्पृहयन् चरेत् । अन्येषां स्पृहयन् भिक्षुः समाधिं नाऽधिगच्छति ॥६॥ अल्पलाभोऽपि चेद् भिक्षुः स्वलाभं नाऽतिमन्यते । तं वै देवाः प्रशंसन्ति शुद्धाऽऽजीवं अतन्द्रितम् ॥७॥
सर्वशो नामरूपे यस्य नाऽस्ति ममायितम् । असति च न शोचति स वै भिक्षुरित्युच्यते ॥८॥
मैत्रीविहारी यो भिक्षूः प्रसन्नो बुद्धशासने । अधिगच्छेत् पदं शान्तं संस्कारोपशमं सुखम् ॥९॥
सिञ्च भिक्षो ! इमां नावं सिक्ता ते लघुत्वं एष्यति । छित्त्वा रागं च द्वेषं च ततो निर्वाणमेष्यसि ॥१०॥
पञ्च छिन्धि पञ्च जह्ये पञ्चोतरं भावय । पञ्चसंगाऽतिगो भिक्षुः ओघतीर्ण इत्युच्यते ॥११॥
ध्याय भिक्षो मा च प्रमादः मा ते कामगुणे भ्रमतु चित्तम् । मा लोहगोलं गिल प्रमत्तः मा क्रन्दीः दुःखमिदमिति दह्यमानः ॥१२॥
नाऽस्ति ध्यानमप्रज्ञस्य प्रज्ञा नाऽस्त्यध्यायतः । यस्मिन् ध्यानं च प्रज्ञा च स वै निर्वाणाऽन्तिके ॥१३॥
शून्यागारं प्रविष्टस्य शान्तचित्तस्य भिक्षोः । अमानुषी रतिर्भवति सम्यग् धर्मं विपश्यतः ॥१४॥
यतो यतः संमृशति स्कन्धानां उदयव्ययम् । लभते प्रीतिप्रामोद्यं अमृतं तद्विजानताम् ॥१५॥
तत्राऽयमादिर्भवतीह प्राज्ञस्य भिक्षोः । इन्द्रियगुप्तिः सन्तुष्टिः प्रातिमोक्षे च संवरः । मित्राणि भजस्व कल्याणानि शुद्धाजीवान्यतन्द्रितानि ॥१६॥
प्रतिसंस्तारवृत्तस्याऽऽचारकुशलः स्यात् । ततः प्रामोद्यबहुलो दुःखस्याऽन्तं करिष्यति ॥१७॥
वर्षिका इव पुष्पाणि मर्दितानि प्रमुञ्चति । एवं रागं च द्वेषं च विप्रमुञ्चत भिक्षवः ॥१८॥
शान्तकायो शान्तवाक् शान्तिमान् सुसमाहितः । वान्तलोकाऽऽमिषो भिक्षुः उपशान्त इत्युच्यते ॥१९॥
आत्मना चोदयेदात्मानं प्रतिवसेदात्मनां आत्मना । स आत्मगुप्तः स्मृतिमान् सुखं भिक्षो विहरिष्यसि ॥२०॥
आत्मा ह्यात्मनो नाथः आत्मा ह्यात्मनो गतिः । तस्मात् संयमयात्मानं अश्वं भद्रमिव वाणिक् ॥२१॥
प्रामोद्यबहुलो भिक्षुः प्रसन्नो बुद्धशासने । अधिगच्छेत् पदं शान्तं संस्कारोपशमं सुखम् ॥२२॥
यो ह वै दहरो भिक्षुर्युक्त्ते बुद्धशासने । स इमं लोकं प्रभासयत्यभ्रान् मुक्त इव चन्द्रमा ॥२३॥

॥इति भिक्षुवर्गः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP