श्रीकृष्णकर्णामृतं - प्रथमाश्वासः

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.


चिन्तामणिर्जयति सोमगिरिर्गुरुर्मे शिक्षागुरुश्च भगवान् शिखिपिञ्छमौलिः । यत्पादकल्पतरुपल्लवशेखरेषु लीलास्वयंवररसं लभते जयश्रीः ॥१॥ अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतं वस्तुप्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम् । स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृतं हस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति ॥२॥ चातुर्यैकनिधानसीमचपलाऽपाङ्गच्छटामन्दरं लावण्यामृतवीचिलालितदृशं लक्ष्मीकटक्षादृतम् । कालिन्दीपुलिनाङ्गणप्रणयिनं कामावताराङ्कुरं बालं नीलममी वयं मधुरिमस्वाराज्यमाराध्नुमः ॥३॥ बर्होत्तंसविलासिकुन्तलभरं माधुर्यमग्नाननं प्रोन्मीलन्नवयौवनं प्रविलसद्वेणुप्रणादामृतम् । आपीनस्तनकुड्मलाभिरभितो गोपीभिराराधितं ज्योतिश्चेतसि नश्चकास्ति जगतामेकाभिरामाद्भुतम् ॥४॥ मधुरतरस्मितामृतविमुग्धमुखाम्बुरुहं मदशिखिपिञ्छलाञ्छितमनोज्ञकचप्रचयम् । विषयविषामिषग्रसनगृध्नुषि चेतसि मे विपुलविलोचनं किमपि धाम चकास्ति चिरम् ॥५॥ मुकुलायमाननयनाम्बुजं विभोर्मुरलीनिनादमकरन्दनिर्भरम् । मुकुरायमाणमृदुगण्डमण्डलं मुखपङ्कजं मनसि मे विजृम्भताम् ॥६॥ कमनीयकिशोरमुग्धमूर्तेः कलवेणुक्वणितादृताननेन्दोः । मम वाचि विजृम्भतां मुरारेर्मधुरिम्णः कणिकापि कापि कापि ॥७॥ मदशिखण्डिशिखण्डविभूषणं मदनमन्थरमुग्धमुखांबुजम् । व्रजवधूनयनाञ्जनरञ्जितं विजयतां मम वाङ्मयजीवितम् ॥८॥ पल्लवारुणपाणिपङ्कजसङ्गिवेणुरवाकुलं फुल्लपाटलपाटलीपरिवादिपादसरोरुहम् । उल्लसन्मधुराधरद्युतिमञ्जरीसरसाननं वल्लवीकुचकुम्भकुङ्कुमपङ्किलं प्रभुमाश्रये ॥९॥ अपाङ्गरेखाभिरभङ्गुराभिरनङ्गलीलारसरञ्जिताभिः । अनुक्षणं वल्लवसुन्दरीभिरभ्यर्चमानं विभुमाश्रयामः ॥१०॥ हृदये मम हृद्यविभ्रमाणां हृदयं हर्षविशाललोलनेत्रम् । तरुणं व्रजबालसुन्दरीणां तरलं किञ्चन धाम सन्निधत्ताम् ॥११॥ निखिलभुवनलक्ष्मीनित्यलीलास्पदाभ्यां कमलविपिनवीथीगर्वसर्वङ्कषाभ्याम् । प्रणमदभयदानप्रौढगाढोद्धताभ्यां किमपि वहतु चेतः कृष्णपादाम्बुजाभ्याम् ॥१२॥ प्रणयपरिणताभ्यां प्राभवालम्बनाभ्यां प्रतिपदललिताभ्यां प्रत्यहं नूतनाभ्याम् । प्रतिमुहुरधिकाभ्यां प्रस्नुवल्लोचनाभ्यां प्रभवतु हृदये नः प्राणनाथः किशोरः ॥१३॥ माधुर्यवारिधिमदान्धतरङ्गभङ्गीशृङ्गारसंकलितशीतकिशोरवेषम् । आमन्दहासललिताननचन्द्रबिम्बमानन्दसंप्लवमनुप्लवतां मनो मे ॥१४॥ अव्याजमञ्जुलमुखाम्बुजमुग्धभावैरास्वाद्यमाननिजवेणुविनोदनादम् । आक्रीडतामरुणपादसरोरुहाभ्यामार्द्रे मदीयहृदये भुवनार्द्रमोजः ॥१५॥ मणिनूपुरवाचालं वन्दे तच्चरणं विभोः । ललितानि यदीयानि लक्ष्माणि व्रजवीथिषु ॥१६॥ मम चेतसि स्फुरतु वल्लवीविभोर्मणिनूपुरप्रणयिमञ्जुशिञ्जितम् । कमलावनेचरकलिन्दकन्यकाकलहंसकण्ठकलकूजितादृतम् ॥१७॥ तरुणारुणकरुणामयविपुलायतनयनं कमलाकुचकलशीभरपुलकीकृतहृदयम् । मुरलीरवतरलीकृतमुनिमानसनलिनं मम खेलति मदचेतसि मधुराधरममृतम् ॥१८॥ आमुग्धमर्धनयनाम्बुजचुम्ब्यमान- हर्षाकुलव्रजवधूमधुराननेन्दोः । आरब्धवेणुरवमादिकिशोरमूर्ते- राविर्भवन्ति मम चेतसि केऽपि भावाः ॥१९॥ कलक्वणितकङ्कणं करनिरुद्धपीताम्बरं क्रमप्रसृतकुन्तलं कलितबर्हभूषं विभोः । पुनः प्रसृतिचापलं प्रणयिनीभुजायन्त्रितं मम स्फुरतु मानसे मदनकेलिशय्योत्थितम् ॥२०॥ स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितं प्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमम् । श्रोतृश्रोत्रमनोहरव्रजवधूलीलामिथो जल्पितं मिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलद्दृशः ॥२१॥ विचित्रपत्राङ्कुरशालिबालास्तनान्तरं मौनिमनोऽन्तरं वा । अपास्य वृन्दावनपादपास्यमुपास्यमन्यन्न विलोकयामः ॥२२॥ सार्धं समृद्धैरमृतायमानैराध्यायमानैर्मुरलीनिनादैः । मूर्धाभिषिक्तं मधुराकृतीनां बालं कदा नाम विलोकयिष्ये ॥२३॥ शिशिरीकुरुते कदा नु नः शिखिपिञ्छाभरणश्शिशुर्दृशोः । युगलं विगलन्मधुद्रवस्मितमुद्रामृदुना मुखेन्दुना ॥२४॥ कारुण्यकर्बुरकटाक्षनिरीक्षणेन तारुण्यसंवलितशैशववैभवेन । आपुष्णता भुवनमद्भुतविभ्रमेण श्रीकृष्णचन्द्र शिशिरीकुरु लोचनं मे ॥२५॥ कदा वा कालिन्दीकुवलयदलश्यामलतराः कटाक्षा लक्ष्यन्ते किमपि करुणावीचिनिचिताः । कदा वा कन्दर्पप्रतिभटजटाचन्द्रशिशिराः किमप्यन्तस्तोषं ददति मुरलीकेलिनिनदाः ॥२६॥ अधीरमालोकितमार्द्रजल्पितं गतं च गंभीरविलासमन्थरम् । अमन्दमालिङ्गितमाकुलोन्मदस्मितं च ते नाथ वदन्ति गोपिकाः ॥२७॥ अस्तोकस्मितभरमायतायताक्षं निःशेषस्तनमृदितं व्रजाङ्गनाभिः । निस्सीमस्तबकितनीलकान्तिधारं दृश्यासं त्रिभुवनसुन्दरं महस्ते ॥२८॥ मयि प्रसादं मधुरैः कटाक्षैर्वंशीनिनादानुचरैर्विधेहि । त्वयि प्रसन्ने किमिहापरैर्नस्त्वय्यप्रसन्ने किमिहापरैर्नः ॥२९॥ निबद्धमुग्धाञ्जलिरेष याचे नीरन्ध्रदैन्योन्नतमुक्तकण्ठम् । दयाम्बुधे देव भवत्कटाक्षदाक्षिण्यलेशेन सकृन्निषिञ्च ॥३०॥ पिञ्छावतंसरचनोचितकेशपाशे पीनस्तनीनयनपङ्कजपूजनीये । चन्द्रारविन्दविजयोद्यतवक्त्रबिम्बे चापल्यमेति नयनं तव शैशवे नः ॥३१॥ त्वच्छैशवं त्रिभुवनाद्भुतमित्यवैमि यच्चापलं च मम वागविवादगम्यम् । तत् किं करोमि विरणन्मुरलीविलासमुग्धं मुखाम्बुजमुदीक्षितुमीक्षणाभ्याम् ॥३२॥ पर्याचितामृतरसानि पदार्थभङ्गीफल्गूनि वल्गितविशालविलोचननानि । बाल्याधिकानि मदवल्लवभावितानि भावे लुठन्ति सुदृशां तव जल्पितानि ॥३३॥ पुनः प्रसन्नेन मुखेन्दुतेजसा पुरोऽवतीर्णस्य कृपामहाम्बुधेः । तदेव लीलामुरलीरवामृतं समाधिविघ्नाय कदा नु मे भवेत् ॥३४॥ भावेन मुग्धचपलेन विलोकनेन मन्मानसे किमपि चापलमुद्वहन्तम् । लोलेन लोचनरसायनमीक्षणेन लीलाकिशोरमुपगूहितुमुत्सुकोऽस्मि ॥३५॥ अधीरबिम्बाधरविभ्रमेण हर्षार्द्रवेणुस्वरसम्पदा च । अनेन केनापि मनोहरेण हा हन्त हा हन्त मनो धुनोति ॥३६॥ यावन्न मे निखिलमर्मदृढाभिघातनिस्सन्धिबन्धनमुदेत्यसवोपतापः । तावद्विभो भवतु तावकवक्त्रचन्द्रचन्द्रातपद्विगुणिता मम चित्तधारा ॥३७॥ यावन्न मे नरदशा दशमी दृशोऽपि रन्ध्रादुदेति तिमिरीकृतसर्वभावा । लावण्यकेलिभवनं तव तावदेतु लक्ष्म्याः समुत्क्वणितवेणुमुखेन्दुबिम्बम् ॥३८॥ आलोललोचनविलोकितकेलिधारानीराजिताग्रसरणेः करुणाम्बुराशेः । आर्द्राणि वेणुनिनदैः प्रतिनादपूरैराकर्णयामि मणिनूपुरशिञ्जितानि ॥३९॥ हे देव हे दयित हे जगदेकबन्धो के कृष्ण हे चपल हे करुणैकसिन्धो । हे नाथ हे रमण हे नयनाभिराम हा हा कदा नु भवितासि पदं दृशोर्मे ॥४०॥ अमून्यधन्यानि दिनान्तराणि हरे त्वदालोकनमन्तरेण । अनाथबन्धो करुणैकसिन्धो हा हन्त हा हन्त कथं नयामि ॥४१॥ किमिव शृणुमः कस्य ब्रूमः कथं कृतमाशया कथयत कथां धन्यामन्यामहो हृदयेशयः । मधुरमधुरस्मेराकारे मनोनयनोत्सवे कृपणकृपणा कृष्णे तृष्णा चिरं बत लम्बते ॥४२॥ आभ्यां विलोचनाभ्यामम्बुजदलललितलोचनं बालम् । द्वाभ्यामपि परिरब्धुं दूरे मम हन्त दैवसमाग्री ॥४३॥ अश्रान्तस्मितमरुणारुणाधरोष्ठं हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम् । विभ्राम्यद्विपुलविलोचनार्धमुग्धं वीक्षिष्ये तव वदनाम्बुजं कदा नु ॥४४॥ लीलायताभ्यां रसशीतलाभ्यां नीलारुणाभ्यां नयनाम्बुजाभ्याम् । आलोकयेदद्भुतविभ्रमाभ्यां बालः कदा कारुणिकः किशोरः ॥४५॥ बहुलचिकुरभारं बद्धपिञ्छावतंसं चपलचपलनेत्रं चारुबिम्बाधरोष्ठम् । मधुरमृदुलहासं मन्थरोदारलीलं मृगयति नयनं मे मुग्धवेषं मुरारेः ॥४६॥ बहुलजलदच्छायाचोरं विलासभरालसं मदशिखिशिखालीलोत्तंसं मनोज्ञमुखाम्बुजम् । कमपि कमलापाङ्कोदग्रप्रपन्नजगज्जितं मधुरिमपरीपाकोद्रेकं वयं मृगयामहे ॥४७॥ परामृश्यं दूरे परिषदि मुनीनां व्रजवधू- दृशां दृश्यं शश्वत् त्रिभुवनमनोहारिवपुषम् । अनामृश्यं वाचामनिदमुदयानामपि कदा दरीदृश्ये देव दरदलितनीलोत्पलनिभम् ॥४८॥ लीलाननाम्बुजमधीरमुदीक्षमाणं नर्माणि वेणुविवरेषु निवेशयन्तम् । डोलायमाननयनं नयनाभिरामं देवं कदा नु दयितं व्यतिलोकयिष्ये ॥४९॥ लग्नं मुहुर्मनसि लम्पटसंप्रदायि- लेखाविलेखनरसज्ञमनोज्ञवेषम् । लज्जन्मृदुस्मितमधुस्नपिताधरांशु- राकेन्दुलालितमुखेन्दुमुकुन्दबाल्यम् ॥५०॥ अहिमकरकरनिकरमृदुमृदितलक्ष्मी- सरसतरसरसिरुहसदृशदृशि देवे । व्रजयुवतिरतिकलहविजयिनिजलीला- मदमुदितवदनशशिमधुरिमणि लीये ॥५१॥ करकमलदलदलितललिततरवंशी कलनिनदगलदमृतघनसरसि देवे । सहजरसभरभरितदरहसितवीथी- सततवहदधरमणिमधुरिमणि लीये ॥५२॥ कुसुमशरशरसमरकुपितमदगोपी- कुचकलशघुसृणरसलसदुरसि देवे । मदलुलितमृदुहसितमुषितशशिशोभा- मुहुरधिकमुखकमलमधुरिमणि लीये ॥५३॥ आनम्रामसितभ्रुवोरुपचितामक्षीणपक्ष्माङ्कुरे- ष्वालोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते । आताम्रामधरामृते मदकलामम्लानवंशीरवे- ष्वाशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम् ॥५४॥ तत्कैशोरं तच्च वक्त्रारविन्दं तत्कारुण्यं ते च लीलाकटाक्षाः । तत्सौन्दर्यं सा च मन्दस्मितश्रीः सत्यं सत्यं दुर्लभं दैवतेषु ॥५५॥ विश्वोपप्लवशमनैकबद्धदीक्षं विश्वासस्तवकितचेतसां जनानाम् । पश्यामः प्रतिनवकान्तिकन्दलार्द्रं पश्यामः पथि पथि शैशवं मुरारेः ॥५६॥ मौलिश्चन्द्रकभूषणा मरकतस्तम्भाभिरामं वपु- र्वक्त्रं चित्रविमुग्धहासमधुरं बाले विलोले दृशौ । वाचश्शैशवशीतलामदगजश्लाघ्या विलासस्थिति- र्मन्दं मन्दमये क एष मथुरावीथीमितो गाहते ॥५७॥ पादौ पादविनिर्जिताम्बुजवनौ पद्मालयालङ्कृतौ पाणी वेणुविनोदनप्रणयिनौ पर्यन्तशिल्पश्रियौ । बाहू दोहदभाजनं मृगदृशां माधुर्यधारा गिरो वक्त्रं वाग्विभवातिलङ्घितमहो बालं किमेतन्महः ॥५८॥ बर्हं नाम विभूषणं बहुमतं वेषाय शेषैरलं वक्त्रं द्वित्रिविशेषकान्तिलहरीविन्यासधन्याधरम् । शीलैरल्पधियामगम्यविभवैः शृङ्गारभङ्गीमयं चित्रं चित्रमहो विचित्रमहहो चित्रं विचित्रं महः ॥१५९॥ अग्रे समग्रयति कामपि केलिलक्ष्मी- मन्यासु दिक्ष्वपि विलोचनमेव साक्षी । हा हन्त हस्तपथदूरमहो किमेत- दासीत् किशोरमयमम्ब जगत्त्रयं मे ॥६०॥ चिकुरं बहुलं विरलं भ्रमरं मृदुलं वचनं विपुलं नयनम् । अधरं मधुरं वदनं ललितं चपलं चरितन्तु कदाऽनुभवे ॥६१॥ परिपालय नः कृपालयेत्यसकृज्जल्पितमात्मबान्धवः । मुरलीमृदुलस्वनान्तरे विभुराकर्णयिता कदा नु नः ॥६२॥ कदा नु कस्यां नु विपद्दशायां कैशोरगन्धिः करुणाम्बुधिर्नः । विलोचनाभ्यां विपुलायताभ्यां व्यालोकयिष्यन् विषयीकरोति ॥६३॥ मधुरमधरबिम्बे मञ्जुलं मन्दहासे शिशिरममृतवाक्ये शीतलं दृष्टिपाते । विपुलमरुणनेत्रे विश्रुतं वेणुनादे मरकतमणिनीलं बालमालोकये नु ॥६४॥ माधुर्यादपि मधुरं मन्मथतातस्य किमपि कैशोरम् । चापल्यादपि चपलं चेतो मम हरति हन्त किं कुर्मः ॥६५॥ वक्षःस्थले च विपुलं नयनोत्पले च मन्दस्मिते च मृदुलं मदजल्पिते च । बिम्बाधरे च मधुरं मुरलीरवे च बालं विलासनिधिमाकलये कदा नु ॥६६॥ आर्द्रावलोकितदयापरिणद्धनेत्रमाविष्कृतस्मितसुधामधुराधरोष्ठम् । आद्यं पुमांसमवतंसितबर्हिबर्हमालोकयन्ति कृतिनः कृतपुण्यपुञ्जाः ॥६७॥ मारः स्वयं नु मधुरद्युतिमण्डलं नु माधुर्यमेव नु मनोनयनामृतं नु । वाणीमृजा नु मम जीवितवल्लभो नु बालोऽयमभ्युदयते मम लोचनाय ॥६८॥ बालोऽयमालोलविलोचनेन वक्त्रेण चित्रीकृतदिङ्मुखेन । वेषेण घोषोचितभूषणेन मुग्धेन दुग्धे नयनोत्सुकं नः ॥६९॥ आन्दोलिताग्रभुजमाकुलनेत्रलीलमार्द्रस्मितार्द्रवदनाम्बुजचन्द्रबिम्बम् । शिञ्जानभूषणशतं शिखिपिञ्छमौलिं शीतं विलोचनरसायनमभ्युपैति ॥७०॥ पशुपालपालपरिषद्विभूषणं शिशुरेष शीतलविलोललोचनः । मृदुलस्मितार्द्रवदनेन्दुसम्पदा मदयन्मदीयहृदयं विगाहते ॥७१॥
किमिदमधरवीथीकॢप्तवंशीनिनादं किरति नयनयोर्नः कामपि प्रेमधाराम् । तदिदममरवीथीदुर्लभं वल्लभं नः त्रिभुवनकमनीयं दैवतं जीवितं च ॥७२॥ var तदिदमुपनतं तमालनीलं तरलविलोचनतारकाभिरामम् । मुदितमुदितवक्त्रचन्द्रबिम्बं मुखरितवेणुविलासजीवितं मे ॥७२॥ चापल्यसीम चपलानुभवैकसीम चातुर्यसीम चतुराननशिल्पसीम । सौरभ्यसीम सकलाद्भुतकेलिसीम सौभाग्यसीम तदिदं व्रजभाग्यसीम ॥७३॥ माधुर्येण द्विगुणशिशिरं वक्त्रचन्द्रं वहन्ती वंशीवीथीविगलदमृतस्रोतसा सेचयन्ती । मद्वाणीनां विहरणपदं मत्तसौभाग्यभाजां मत्पुण्यानां परिणतिरहो नेत्रयोस्सन्निधत्ते ॥७४॥ तेजसेऽस्तु नमो धेनुपालिने लोकपालिने । राधापयोधरोत्सङ्गशायिने शेषशायिने ॥७५॥ धेनुपालदयितास्तनस्थलीधन्यकुङ्कुमसनाथकान्तये । वेणुगीतगतिमूलवेधसे तेजसे तदिदमों नमो नमः ॥७६॥ मृदुक्वणन्नूपुरमन्थरेण बालेन पादाम्बुजपल्लवेन । अनुक्वणन्मञ्जुलवेणुगीतमायाति मे जीवितमात्तकेलि ॥७७॥ सोऽयं विलासमुरलीनिनदामृतेन सिञ्चन्नुदञ्चितमिदं मम कर्णयुग्मम् । आयाति मे नयनबन्धुरनन्यबन्धुरानन्दकन्दलितकेलिकटाक्षलक्ष्यः ॥७८॥ दूराद्विलोकयति वारणखेलगामी धाराकटाक्षभरितेन विलोचनेन । आरादुपैति हृदयङ्गमवेणुनादवेणीदुघेन दशनावरणेन देवः ॥७९॥ त्रिभुवनसरसाभ्यां दीप्तभूषापदाभ्यां दृशि दृशि शिशिराभ्यां दिव्यलीलाकुलाभ्याम् । अशरणशरणाभ्यामद्भुताभ्यां पदाभ्या- मयमयमनुकूजद्वेणुरायाति देवः ॥८०॥ सोऽयं मुनीन्द्रजनमानसतापहारी सोऽयं मदव्रजवधूवसनापहारी । सोऽयं तृतीयभुवनेश्वरदर्पहारी सोऽयं मदीयहृदयाम्बुरुहापहारी ॥८१॥ सर्वज्ञत्वे च मौग्ध्ये च सार्वभौममिदं मम । निर्विशन्नयनं तेजो निर्वाणपदमश्नुते ॥८२॥ पुष्णानमेतत्पुनरुक्तशोभमुष्णेतरांशोरुदयान्मुखेन्दोः । तृष्णाम्बुराशिं द्विगुणीकरोति कृष्णाह्वयं किञ्चन जीवितं मे ॥८३॥ तदेतदाताम्रविलोचनश्रीसम्भाविताशेषविनम्रवर्गम् । मुहुर्मुरारेर्मधुराधरोष्ठं मुखाम्बुजं चुम्बति मानसं मे ॥८४॥ करौ शरदुदञ्चिताम्बुजविलासशिक्षागुरू पदौ विबुधपादपप्रथमपल्लवोल्लङ्घिनौ । दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौ विलोक्य सुविलोचनामृतमहो महच्छैशवम् ॥८५॥ आचिन्वानमहन्यहन्यहनि साकारान् विहारक्रमा- नारुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितास्यश्रिया । आतन्वानमनन्यजन्मनयनश्लाघ्यामनर्घ्यां दशा- मानन्दं व्रजसुन्दरीस्तनतटीसाम्राज्यमाज्जृम्भते ॥८६॥ समुच्छ्वसितयौवनं तरलशैशवालङ्कृतं मदच्छुरितलोचनं मदनमुग्धहासामृतम् । प्रतिक्षणविलोकनं प्रणयपीतवंशीमुखं जगत्त्रयविमोहनं जयति मामकं जीवितम् ॥८७॥ चित्रं तदेतच्चरणारविन्दं चित्रं तदेतन्नयनारविन्दम् । चित्रं तदेतद्वदनारविन्दं चित्रं तदेतत्पुनरम्ब चित्रम् ॥८८॥ अखिलभुवनैकभूषमधिभूषितजलधिदुहितृकुचकुम्भम् । व्रजयुवतीहारवल्लीमरकतनायकमहामणिं वन्दे ॥८९॥ कान्ताकचग्रहणविग्रहबद्धलक्ष्मीखण्डाङ्गरागरसरञ्जितमञ्जुलश्रीः । गण्डस्थलीमुकुरमण्डलखेलमानघर्माङ्कुरं किमपि खेलति कृष्णतेजः ॥९०॥ मधुरं मधुरं वपुरस्य विभोर्मधुरं मधुरं वदनं मधुरम् । मधुगन्धि मृदुस्मितमेतदहो मधुरं मधुरं मधुरं मधुरम् ॥९१॥ शृङ्गाररससर्वस्वं शिखिपिञ्छविभूषणम् । अङ्गीकृतनराकारमाश्रये भुवनाश्रयम् ॥९२॥ नाद्यापि पश्यति कदाचन दर्शनेन चित्तेन चोपनिषदा सुदृशां सहस्रम् । स त्वं चिरं नयनयोरनयोः पदव्यां स्वामिन् कया नु कृपया मम सन्निधत्से ॥९३॥ केयं कान्तिः केशव त्वन्मुखेन्दोः कोऽयं वेषः कोऽपि वाचामभूमिः । सेयं सोऽयं स्वादुता मञ्जुलश्रीः भूयो भूयो भूयशस्तां नमामि ॥९४॥ वदनेन्दुविनिर्जितश्शशी दशधा देव पदं प्रपद्यते । अधिकां श्रियमश्नुतेतरां तव कारुण्यविजृम्भितं कियत् ॥९५॥ तत्वन्मुखं कथमिवाब्जसमानकक्षं वाङ्माधुरीबहुलपर्वकलासमृद्धम् । तत् किं ब्रुवे किमपरं भुवनैककान्तं यस्य त्वदाननसमा सुषमा सदा स्यात् ॥९६॥ शुश्रूषसे यदि वचः शृणु मामकीनं पूर्वैरपूर्वकविभिर्न कटाक्षितं यत् । नीराजनक्रमधुरं भवदाननेन्दोः निर्व्याजमर्हति चिराया शशिप्रदीपः ॥९७॥ अखण्डनिर्वाणरसप्रवाहैर्विखण्डिताशेषरसान्तराणि । अयन्त्रितोद्वान्तसुधार्णवानि जयन्ति शीतानि तव स्मितानि ॥९८॥ कामं सन्तु सहस्रशः कतिपये स्वारस्यधौरेयकाः कामं वा कमनीयतापरिणतिस्वाराज्यबद्धव्रताः । तैर्नैवं विवदामहे न च वयं देव प्रियं ब्रूमहे यत्सत्यं रमणीयतापरिणतिस्त्वय्येव पारंगता ॥९९॥ मन्दारमूले मदनाभिरामं बिम्बाधरापूरितवेणुनादम् । गोगोपगोपीजनमध्यसंस्थं गोपं भजे गोकुलपूर्णचन्द्रम् ॥१००॥ गलद्व्रीडा लोला मदनवनिता गोपवनिता मधुस्फीतं गीतं किमपि मधुरा चापलधुरा । समुज्जृम्भा गुम्फा मधुरिमगिरां मादृशगिरां त्वयि स्थाने जाते दधति चपलं जन्म च फलम् ॥१०१॥ भुवनं भवनं विलासिनी श्रीस्तनयस्तामरसासनः स्मरश्च । परिचारपरम्पराः सुरेन्द्रास्तदपि त्वच्चरितं विभो विचित्रम् ॥१०२॥ देवस्त्रिलोकसौभाग्यकस्तूरीतिलकाङ्कुरः । जीयाद् व्रजाङ्गनानङ्गकेलीललितविभ्रमः ॥१०३॥ प्रेमदं च मे कामदं च मे वेदनं च मे वैभवं च मे । जीवनं च मे जीवितं च मे दैवतं च मे देव नापरम् ॥१०४॥ माधुर्येण विजृम्भन्तां वाचो नस्तव वैभवे । चापल्येन विवर्धन्तां चिन्ता नस्तव शैशवे ॥१०५॥ यानि त्वच्चरितामृतानि रसनालेह्यानि धन्यात्मनां ये वा चापलशैशवव्यतिकरा राधापराधोन्मुखाः । या वा भावितवेणुगीतगतयो लीलामुखाम्भोरुहे धारावाहिकया वहन्तु हृदये तान्येव तान्येव मे ॥१०६॥ भक्तिस्त्वयि स्थिरतरा भगवन् यदि स्या- द्दैवेन नः फलितदिव्यकिशोरवेषे । मुक्तिः स्वयं मुकुलिताञ्जलि सेवतेऽस्मान् धर्मार्थकामगतयः समयप्रतीक्षाः ॥१०७॥ जय जय जय देव देव देव त्रिभुवनमङ्गलदिव्यनामधेय । जय जय जय बालकृष्णदेव श्रवणमनोनयनामृतावतार ॥१०८॥ तुभ्यं निर्भरहर्षवर्षविवशावेशस्फुटाविर्भवद्- भूयश्चापलभूषितेषु सुकृतां भावेषु निर्भासते । श्रीमद्गोकुलमण्डनाय महते वाचां विदूरस्फुटन्- माधुर्यैकरसार्णवाय महसे कस्मै चिदस्मै नमः ॥१०९॥ ईशानदेवचरणाभरणेन नीवीदामोदरस्थिरयशः स्तबकोद्गमेन । लीलाशुकेन रचितं तव देव कृष्णकर्णामृतं वहतु कल्पशतान्तरेऽपि ॥११०॥ धन्यानां सरसानुलापसरणीसौरभ्यमभ्यस्यतां कर्णानां विवरेषु कामपि सुधावृष्टिं दुहानं मुहुः । वन्यानां सुदृशां मनोनयनयोर्मग्नस्य देवस्य नः कर्णानां वचसां विजृम्भितमहो कृष्णस्य कर्णामृतम् ॥१११॥ अनुग्रहद्विगुणविशाललोचनैरनुस्मरन् मृदुमुरलीरवामृतैः । यतो यतः प्रसरति मे विलोचनं ततस्ततः स्फुरतु तवैव वैभवम् ॥११२॥
॥इति श्रीकृष्णकर्णामृते प्रथमाश्वासः समाप्तः ॥

N/A

References : N/A
Last Updated : January 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP