श्रीकृष्णकर्णामृतं - तृतीयाश्वासः

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.


अस्ति स्वस्त्ययनं समस्तजगतामभ्यस्तलक्ष्मीस्तनं वस्तु ध्वस्तरजस्तमोभिरनिशं न्यस्तं पुरस्तादिव । हस्तोदस्तगिरीन्द्रमस्तकतरुप्रस्तारविस्तारित- स्रस्तस्वस्तरुसूनसंस्तरलसत्प्रस्तावि राधास्तुतम् ॥१॥ राधाराधितविभ्रमाद्भुतरसं लावण्यरत्नाकरं साधारण्यपदव्यतीतसहजस्मेराननाम्भोरुहम् । आलम्बे हरिनीलगर्वगुरुतासर्वस्वनिर्वापणं बालं वैणविकं विमुग्धमधुरं मूर्धाभिषिक्तं महः ॥२॥ करिणामलभ्यगतिवैभवं भजे करुणावलम्बितकिशोरविग्रहम् । यमिनामनारतविहारि मानसे यमुनावनान्तरसिकं परं महः ॥३॥ अतन्त्रितत्रिजगदपि व्रजाङ्गनानियन्त्रितं विपुलविलोचनाज्ञया । निरन्तरं मम हृदये विज्जृम्भतां समन्ततः सरसतरं परं महः ॥४॥ कन्दर्पप्रतिमल्लकान्तिविभवं कादम्बिनीबान्धवं वृन्दारण्यविलासिनीव्यसनिनं वेषेण भूषामयम् । मन्दस्मेरमुखाम्बुजं मधुरिमव्यामृष्टबिम्बाधरं वन्दे कन्दलितार्द्रयौवनवनं कैशोरकं शार्ङ्गिणः ॥५॥ आमुक्तमानुषममुक्तनिजानुभाव- मारूढयौवनमगूढविदग्धलीलम् । आमृष्टयौवनमनष्टकिशोरभाव- माद्यं महः किमपि माद्यति मानसे मे ॥६॥ ते ते भावास्सकलजगदीलोभनीयप्रभावाः नानातृष्णासुहृदि हृदि मे काममाविर्भवन्तु । वीणावेणुक्वणितलसितस्मेरवक्त्रारविन्दा- न्नाहं जाने मधुरमपरं नन्दपुण्याम्बुराशेः ॥७॥ सुकृतिभिरादृते सरसवेणुनिनादसुधा- रसलहरीविहारनिरवग्रहकर्णपुटे । व्रजवरसुन्दरीमुखसरोरुहसारसिके महसि कदा नु मज्जति मदीयमिदं हृदयम् ॥८॥ तृष्णातुरे चेतसि जृम्भमाणं मुष्णन्मुहुर्मोहमहान्धकारम् । पुष्णातु नः पुण्यदयैकसिन्धोः कृष्णस्य कारुण्यकटाक्षकेलिः ॥९॥ निखिलागममौलिलालितं पदकमलं परमस्य तेजसः । व्रजभुवि बहुमन्महेतरां सरसकरीषविशेषरूषितम् ॥१०॥ उदारमृदुलस्मितव्यतिकराभिरामाननं मुदा मुहुरुदीर्णया मुनिमनोऽम्बुजाम्रेडितम् । मदालसविलोचनव्रजवधूमुखास्वादितं कदा नु कमलेक्षणं कमपि बालमालोकये ॥११॥ व्रजजनमदयोषिल्लोचनोच्छिष्टशेषी- कृतमतिचपलाभ्यां लोचनाभ्यामुभाभ्याम् । सकृदपि परिपातुं ते वयं पारयामः कुवलयदलनीलं कान्तिपूरं कदा नु ॥१२॥ घोषयोषिदनुगीतयौवनं कोमलस्तनितवेणुनिस्स्वनम् । सारभूतमभिरामसंपदां धाम तामरसलोचनं भजे ॥१३॥ लीलया ललितयावलम्बितं मूलगेहमिव मूर्तिसंपदाम् । नीलनीरदविकासविभ्रमं बालमेव वयमाद्रियामहे ॥१४॥ वन्दे मुरारेश्चरणारविन्दद्वन्द्वं दयादर्शितशैशवस्य । वन्दारुवृन्दारकवृन्दमौलिमन्दारमालाविनिमर्दभीरु ॥१५॥ यस्मिन् नृत्यति यस्य शेखरभरैः क्रौञ्चद्विषश्चन्द्रकी यस्मिन् दृप्यति यस्य घोषसुरभिं जिघ्रन् वृषो धूर्जटेः । यस्मिन् सज्जति यस्य विभ्रमगतिं वाञ्छन् हरेस्सिन्धुर- स्तद्वृन्दावनकल्पकद्रुमवनं तं वा किशोरं भजे ॥१६॥ अरुणाधरामृतविशेषितस्मितं वरुणालयानुगतवर्णवैभवम् । तरुणारविन्ददलदीर्घलोचनं करुणामयं कमपि बालमाश्रये ॥१७॥ लावण्यवीचीरचिताङ्गभूषां भूषापदारोपितपुण्यबर्हाम् । कारुण्यधारालकटाक्षमालां बालां भजे वल्लववंशलक्ष्मीम् ॥१८। मधुरैकरसं वपुर्विभोर्मथुरावीथिचरं भजामहे । नगरीमृगशाबलोचनानां नयनेन्दीवरवर्षवर्षितम् ॥१९॥ पर्याकुलेन नयनान्तविजृम्भितेन वक्त्रेण कोमलदरस्मितविभ्रमेण । मन्द्रेण मञ्जुलतरेण च जल्पितेन नन्दस्य हन्त तनयो हृदयं धुनोति ॥२०॥ कन्दर्पकण्डूलकटाक्षवन्दीरिन्दीवराक्षीरभिलाषमाणान् । मन्दस्मिताधारमुखारविन्दान् वन्दामहे वल्लवधूर्तपादान् ॥२लीलाटोपकटाक्षनिर्भरपरिष्वङ्गप्रसङ्गाधिक- प्रीते गीतिविभङ्गसङ्गरलसद्वेणुप्रणादामृते । राधालोचनलालितस्य ललितस्मेरे मुरारेर्मुदा माधुर्यैकरसे मुखेन्दुकमले मग्नं मदीयं मनः ॥२२॥ शरणागतव्रजपञ्जरे शरणे शार्ङ्गधरस्य वैभवे । कृपया धृतगोपविग्रहे कियदन्यन्मृगयामहे वयम् ॥२३॥ जगत्त्रयैकान्तमनोज्ञभूमिचेतस्यजस्रं मम सन्निधत्ताम् । रामासमास्वादितसौकुमार्यं राधास्तनाभोगरसज्ञमोजः ॥२४॥ वयमेते विश्वसिमः करुणाकर कृष्ण किंवदन्तीम् । अपि च विभो तव ललिते चपलतरा मतिरियं बाल्ये ॥२५॥ वत्सपालचरः कोऽपि वत्सः श्रीवत्सलाञ्छनः । उत्सवाय कदा भावीत्युत्सुके मम लोचने ॥२६॥ मधुरिमभरिते मनोभिरामे मृदुलतरस्मितमुद्रिताननेन्दौ । त्रिभुवननयनैकलोभनीये महसि वयं व्रजभाजि लालसाः स्मः ॥२७॥ मुखारविन्दे मकरन्दबिन्दुनिष्यन्दलीलामुरलीनिनादे । व्रजाङ्गनापाङ्गतरङ्गभृङ्गसंग्रामभूमौ तव लालसाः स्मः ॥२८॥ आताम्रायतलोचनांशुलहरीलीलासुधाप्यायितैः गीताम्रेडितदिव्यकेलिभरितैः स्फीतं व्रजस्त्रीजनैः । स्वेदाम्भःकणभूषितेन किमपि स्मेरेण वक्त्रेन्दुना पादाम्भोजमृदुप्रचारसुभगं पश्यामि दृश्यं महः ॥२९॥ पाणौ वेणुः प्रकृतिसुकुमाराकृतौ बाल्यलक्ष्मीः पार्श्वे बालाः प्रणयसरसालोकितापाङ्गलीलाः । मौलौ बर्हं मधुरवदनाम्भोरुहे मौग्ध्यमुद्रे- त्यार्द्राकारं किमपि कितवं ज्योतिरन्वेषयामः ॥३०॥ आरूढवेणुतरुणाधरविभ्रमेण माधुर्यशालिवदनाम्बुजमुद्वहन्ती । आलोक्यतां किमनया वनदेवता वः कैशोरके वयसि कापि च कान्तियष्टिः ॥३१॥ अनन्यसाधारणकान्तिकान्तमाक्रान्तगोपीनयनारविन्दम् । पुंसः पुराणस्य नवं विलासं पुण्येन पूर्णेन विलोकयिष्ये ॥३२॥ साष्टाङ्गपातमभिवन्द्य समस्तभावैः सर्वान् सुरेन्द्रनिकरानिदमेव याचे । मन्दस्मितार्द्रमधुराननचन्द्रबिम्बे नन्दस्य पुण्यनिचये मम भक्तिरस्तु ॥३३॥ एषु प्रवाहेषु स एव मन्ये क्षणोऽपि गण्यः पुरुषायुषेषु । आस्वाद्यते यत्र कयापि भक्त्या नीलस्य बालस्य निजं चरित्रम् ॥३४॥ निसर्गसरसाधरं निजदयार्द्रदिव्येक्षणं मनोज्ञमुखपङ्कजं मधुरसार्द्रमन्दस्मितम् । रसज्ञहृदयास्पदं रमितवल्लवीलोचनं पुनःपुनरुपास्महे भुवनलोभनीयं महः ॥३५॥ स कोऽपि बालस्सरसीरुहाक्षः सा च व्रजस्त्रीजनपादधूलिः । मुहुस्तदेतद्युगलं मदीये मोमुह्यमानोऽपि मनस्युदेतु ॥३६॥ मयि प्रयाणाभिमुखे च वल्लवीस्तनद्वयीदुर्ललितस्स बालकः । शनैश्शनैः श्रावितवेणुनिस्वनो विलासवेषेण पुरः प्रतीयताम् ॥३७॥ अतिभूमिमभूमिमेव वा वचसां वासितवल्लवीस्तनम् । मनसामपरं रसायनं मधुराद्वैतमुपास्महे महः ॥३८॥ जननान्तरेऽपि जगदेकमण्डने कमनीयधाम्नि कमलायतेक्षणे । व्रजसुन्दरीजनविलोचनामृते चपलानि सन्तु सकलेन्द्रियाणि मे ॥३९॥ मुनिश्रेणीवन्द्यं मदभरलसद्वल्लववधू- स्तनश्रोणीबिम्बस्तिमितनयनाम्भोजसुभगम् । पुनः श्लाघाभूमिं पुलकितगिरां नैगमगिरां घनश्यामं वन्दे किमपि कमनीयाकृति महः ॥४०॥ अनुचुम्बतामविचलेन चेतसा मनुजाकृतेर्मधुरिमश्रियं विभोः । अयि देव कृष्ण दयितेति जल्पतामपि नो भवेयुरपि नाम तादृशः ॥४१॥ किशोरवेषेण कृशोदरीदृशां विशेषदृश्येन विशाललोचनम् । यशोदया लब्धयशोनवाम्बुधेर्निशामये नीलनिशाकरं कदा ॥४२॥ प्रकृतिरवतु नो विलासलक्ष्म्याः प्रकृतिजडं प्रणतापराधवीथ्याम् । सुकृतिकृतपदं किशोरभावे सुकृतिमनः प्रणिधानपात्रमोजः ॥४३॥ अपहसितसुधामदावलेपैरतिसुमनोहरमार्द्रमन्दहासैः । व्रजयुवतिविलोचनावलेह्यं रमयतु धाम रमावरोधनं नः ॥४४॥ अङ्कुरितस्मेरदशाविशेषैरश्रान्तहर्षामृतवर्षमक्ष्णाम् । संक्रीडतां चेतसि गोपकन्याघनस्तनस्वस्त्ययनं महो नः ॥४५॥ मृगमदपङ्कसङ्करविशेषितवन्यमहा- गिरितटगण्डगैरिकघनद्रवविद्रुमितम् । अजितभुजान्तरं भजत हे व्रजगोपवधू- स्तनकलशस्थलीघुसृणमर्दनकर्दमितम् ॥४६॥ आमूलपल्लवितलीलमपाङ्गजालैरासिञ्चती भुवनमादृतगोपवेषा । बालाकृतिर्मृदुलमुग्धमुखेन्दुबिम्बा माधुर्यसिद्धिरवतान्मधुविद्विषो नः ॥४७॥ विरणन् मणिनूपुरं व्रजे चरणाम्भोजमुपास्स्व शार्ङ्गिणः । सरसे सरसि श्रियाश्रितं कमलं वा कलहंसनादितम् ॥४८॥ शरणमशरणानां शारदाम्भोजनेत्रं निरवधिमधुरिम्णा नीलवेषेण रम्यम् । स्मरशरपरतन्त्रस्मेरनेत्राम्बुजाभि- र्व्रजयुवतिभिरव्याद् ब्रह्म संवेष्टितं नः ॥४९॥ सुव्यक्तकान्तिभरसौरभदिव्यगात्र- मव्यक्तयौवनपरीतकिशोरभावम् । गव्यानुपालनविधावनुशिष्टमव्या- दव्याजरम्यमखिलेश्वरवैभवं नः ॥५०॥ अनुगतममरीणामम्बरालम्बिनीनां नयनमधुरिमश्रीनर्मनिर्माणसीम्नाम् । व्रजयुवतिविलासव्यापृतापाङ्गमव्यात् त्रिभुवनसुकुमारं देवकैशोरकं नः ॥५१॥ आपादमाचूडमतिप्रसक्तैरापीयमाना यमिनां मनोभिः । गोपीजनज्ञातरसाऽवतान्नो गोपलभूपालकुमारमूर्तिः ॥५२॥ दिष्ट्या वृन्दावनमृगदृशां विप्रयोगाकुलानां प्रत्यासन्नं प्रणयचपलापाङ्गवीचीतरङ्गैः । लक्ष्मीलीलाकुवलयदलश्यामलं धाम कामान् पुष्णीयान्नः पुलकमुकुलाभोगभूषाविशेषम् ॥५३॥ जयति गुहशिखीन्द्रपिञ्छमौलिः सुरगिरिगैरिककल्पिताङ्गरागः । सुरयुवतिविकीर्णसूनवर्षस्नपितविभूषितकुन्तलः कुमारः ॥५४॥ मधुरमन्दशुचिस्मितमञ्जुलं वदनपङ्कजमङ्गजवेल्लितम् । विजयतां व्रजबालवधूजनस्तनतटीविलुठन्नयनं विभोः ॥५५॥ अलसविलसन्मुग्धस्निग्धस्मितं व्रजसुन्दरी- मदनकदनस्विन्नं धन्यं महद्वदनाम्बुजम् । तरुणमरुणज्योत्स्नाकार्त्स्न्या स्मितस्नपिताधरं जयति विजयश्रेणीमेणीदृशां मदयन्महः ॥५६॥ राधाकेलिकटाक्षवीक्षितमहावक्षःस्थलीमण्डना जीयासुः पुलकाङ्कुरास्त्रिभुवनास्वादीयसस्तेजसः । क्रीडान्तप्रतिसुप्तदुग्धतनयामुग्धावबोधक्षण- त्रासारूढदृढोपगूहनमहासाम्राज्यसान्द्रश्रियः ॥५७॥ स्मितस्नुतसुधाधरा मदशिखण्डिबर्हाङ्किता विशालनयनाम्बुजा व्रजविलासिनीवासिताः । मनोज्ञमुखपङ्कजा मधुरवेणुनादद्रवा जयन्ति मम चेतसश्चिरमुपासिता वासनाः ॥५८॥ जीयादसौ शिखिशिखण्डकृतावतंसा सांसिद्धिकी सरसकान्तिसुधासमृद्धिः । यद्बिन्दुलेशकणीकापरिणामभाग्यात् सौभाग्यसीमपदमञ्चति पञ्चबाणः ॥५९॥ आयामेन दृशोर्विशालतरयोरक्षय्यमार्द्रस्मित- च्छायाधर्षितशारदेन्दुललितं चापल्यमात्रं शिशोः । आयासानपरान्विधूय रसिकैरास्वाद्यमानं मुहु- र्जीयादुन्मदवल्लवीकुचभराधारं किशोरं महः ॥६०॥ स्कन्धावारसदो व्रजः कतिपये गोपास्सहायादयः स्कन्धालम्बिनि वत्सदाम्नि धनदा गोपाङ्गनाः स्वाङ्गनाः । शृङ्गारा गिरिगैरिकं शिव शिव श्रीमन्ति बर्हाणि च शृङ्गग्राहिकया तथापि तदिदं प्राहुस्त्रिलोकेश्वरम् ॥६१॥ श्रीमद्बर्हिशिखण्डमण्डनजुषे श्यामाभिरामत्विषे लावण्यैकरसावसिक्तवपुषे लक्ष्मीसरःप्रावृषे । लीलाकृष्टरसज्ञधर्ममनसे लीलामृतस्रोतसे के वा न स्पृहयन्ति हन्त महसे गोपीजनप्रेयसे ॥६२॥ आपाटलाधरमधीरविलोलनेत्र- मामोदनिर्भरितमद्भुतकान्तिपूरम् । आविस्मितामृतमनुस्मृतिलोभनीय- मामुद्रिताननमहो मधुरं मुरारेः ॥६३॥ जागृहि जागृहि चेतश्चिराय चरितार्थाय भवतः । अनुभूयतामिदमिदं पुरः स्थितं पूर्णनिर्वाणम् ॥६४॥ चरणयोररुणं करुणार्द्रयोः कचभरे बहुलं विपुलं दृशोः । वपुषि मञ्जुलमञ्जनमेचके वयसि बालमहो मधुरं महः ॥६५॥ मालाबर्हमनोज्ञकुन्तलभरां वन्यप्रसूनोक्षितां शैलेयद्रवकॢप्तचित्रतिलकां शश्वन्मनोहारिणीम् लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं बालां बालतमालनीलवपुषं वन्दे परां देवताम् ॥६६॥ गुरु मृदुपदे गूढं गुल्फे घनं जघनस्तले नलिनमुदरे दीर्घं बाह्वोर्विशालमुरस्थले । मधुरमधरे मुग्धं वक्त्रे विलासि विलोचने बहु कचभरे वन्यं वेषे मनोज्ञमहो महः ॥६७॥ जिहानं जिहानं सुजानेन मौग्ध्यं दुहानं दुहानं सुधां वेणुनादैः । लिहानं लिहानं सुधीर्घैरपाङ्गैर्महानन्दसर्वस्वमेतन्नमस्तात् ॥६८॥ लसद्बर्हापीडं ललितललितस्मेरवदनं भ्रमत्क्रीडापाङ्गं प्रणतजनतानिर्वृतिपदम् । नवाम्भोदश्यामं निजमधुरिमाभोगभरितं परं देवं वन्दे परिमिलितकैशोरकरसम् ॥६९॥ सारस्यसामग्र्यमिवाननेन माधुर्यचातुर्यमिव स्मितेन । कारुण्यतारुण्यमिवेक्षितेन चापल्यसाफल्यमिदं दृशोर्मे ॥७०॥ यत्र वा तत्र वा देव यदि विश्वसिमस्त्वयि । निर्वाणमपि दुर्वारमर्वाचीनानि किं पुनः ॥७१॥ रागान्धगोपीजनवन्दिताभ्यां योगीन्द्रभृङ्गेन्द्रनिषेविताभ्याम् । आताम्रपङ्केरुहविभ्रमाभ्यां स्वामिन् पदाभ्यामयमञ्जलिस्ते ॥७२॥ अर्धानुलापान्व्रजसुन्दरीणामकृत्रिमाणाञ्च सरस्वतीनाम् । आर्द्राशयेन श्रवणाञ्चलेन संभावयन्तं तरुणं गृणीमः ॥७३॥ मनसि मम सन्निधत्तां मधुरमुखा मन्थरापाङ्गा । करकलितललितवंशा कापि किशोरी कृपा लहरी ॥७४॥ रक्षन्तु नः शिक्षितपाशुपाल्या बाल्यावृता बर्हिशिखावतंसाः । प्राणप्रियाः प्रस्तुतवेणुगीताः शीता दृशोः शीतलगोपकन्याः ॥७५॥ स्मितस्तबकिताधरं शिशिरवेणुनादामृतं मुहुस्तरललोचनं मदकटाक्षमालाकुलम् । उरस्थलविलीनया कमलया समालिङ्गितं भुवस्तलमुपागतं भुवनदैवतं पातु नः ॥७६॥ नयनाम्बुजे भजत कामदुघं हृदयाम्बुजे किमपि कारुणिकम् । चरणाम्बुजे मुनिकुलैकधनं वदनाम्बुजे व्रजवधूविभवम् ॥७७॥ निर्वासनं हन्त रसान्तराणां निर्वाणसाम्राज्यमिवावतीर्णम् । अव्याजमाधुर्यमहानिधानमव्याद्व्रजानामधिदैवतं नः ॥७८॥ गोपीनामभिमतगीतवेषहर्षादापीनस्तनभरनिर्भरोपगूढम् । केलीनामवतु रसैरुपास्यमानं कालिन्दीपुलिनचरं परं महो नः ॥७९॥ खेलतां मनसि खेचराङ्गनामाननीयमृदुवेणुनिस्वनैः । कानने किमपि नः कृपास्पदं कालमेघकलहोद्वहं महः ॥८०॥ एणीशाबविलोचनाभिरलसश्रोणीभरप्रौढिभि- र्वेणीभूतरसक्रमाभिरभितश्श्रेणीकृताभिर्वृतः । पाणी द्वौ च विनोदयन् रतिपतेस्तूणीशयैस्सायकै- र्वाणीनामपदं परं व्रजजनक्षोणीपतिः पातु नः ॥८कालिन्दीपुलिने तमालनिबिडच्छाये पुरःसंचरत् तोये तोयजपत्रपात्रनिहितं दध्यन्नमश्नाति यः । वामे पाणितले निधाय मधुरं वेणुं विषाणं कटि- प्रान्ते गाश्च विलोकयन् प्रतिकलं तं बालमालोकये ॥८२॥ यद्गोपीवदनेन्दुमण्डनमभूत् कस्तूरिकापत्रकं यल्लक्ष्मीकुचशातकुंभकलशव्याकोशमिन्दीवरम् । यन्निर्वाणनिधानसाधनविधौ सिद्धाञ्जनं योगिनां तन्नः श्यामलमाविरस्तु हृदये कृष्णाभिधानं महः ॥८फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं गोविन्दं कलवेणुनादनिरतं दिव्याङ्गभूषं भजे ॥८४॥ यन्नाभीसरसीरुहान्तरपुटे भृङ्गायमानो विधि- र्यद्वक्षः कमलाविलाससदनं यच्चक्षुषी चेन्द्विनौ । यत्पादाब्जविनिःसृता सुरनदी शंभोः शिरोभूषणं यन्नामस्मरणं धुनोति दुरितं पायात् स नः केशवः ॥८५॥ रक्षन्तु त्वामसितजलजैरञ्जलिः पादमूले मीना नाभीसरसि हृदये मारबाणाः मुरारेः । हाराः कण्ठे हरिमणिमया वक्त्रपद्मे द्विरेफाः पिञ्छाचूडाश्चिकुरनिचये घोषयोषित्कटाक्षाः ॥८६॥ दधिमथननिनादैस्त्यक्तनिद्रः प्रभाते निभृतपदमगारं वल्लवीनां प्रविष्टः । मुखकमलसमीरैराशु निर्वाप्य दीपान् कबलितनवनीतः पातु गोपालबालः ॥८७॥ प्रातः स्मरामि दधिघोषविनीतनिद्रं निद्रावसानरमणीयमुखारविन्दम् । हृद्यानवद्यवपुषं नयनाभिराम- मुन्निद्रपद्मनयनं नवनीतचोरम् ॥८८॥ फुल्लहल्लकवतंसकोल्लसद्गल्लमागमगवीगवेषितम् । वल्लवीचिकुरवासिताङ्गुलीपल्लवं कमपि वल्लवं भजे ॥८९॥ स्तेयं हरेर्हरति यन्नवनीतचौर्यं जारत्वमस्य गुरुतल्पकृतापराधम् । हत्यां दशाननहतिर्मधुपानदोषं यत्पूतनास्तनपयः स पुनातु कृष्णः ॥९०॥ मार मा वस मदीयमानसे माधवैकनिलये यदृच्छया । श्रीरमापतिरिहागमेदसौ कः सहेत निजवेश्मलङ्घनम् ॥९१॥ आकुञ्चितं जानु करं च वामं न्यस्य क्षितौ दक्षिणहस्तपद्मे । आलोकयन्तं नवनीतखण्डं बालं मुकुन्दं मनसा स्मरामि ॥९२॥ जानुभ्यामभिधावन्तं पाणिभ्यामतिसुन्दरम् । सुकुन्तलालकं बालं गोपालं चिन्तयेदुषः ॥९३॥ विहाय कोदण्डशरौ मुहूर्तं गृहाण पाणौ मणिचारुवेणुम् । मायूरबर्हं च निजोत्तमाङ्गे सीतापते त्वां प्रणमामि पश्चात् ॥९४॥ अयं क्षीराम्भोधेः पतिरिति गवां पालक इति श्रितोऽस्माभिः क्षीरोपनयनधिया गोपतनयः । अनेन प्रत्यूहो व्यरचि सततं येन जननी- स्तनादप्यस्माकं सकृदपि पयो दुर्लभमभूत् ॥९५॥ हस्तमाक्षिप्य यातोऽसि बलात्कृष्ण किमद्भुतम् । हृदयाद्यदि निर्यासि पौरुषं गणयामि ते ॥९६॥ तमसि रविरिवोद्यन्मज्जतामम्बुराशौ प्लव इव तृषितानां स्वादुवर्षीव मेघः । निधिरिव विधनानां दीर्घतीव्रामयानां भिषगिव कुशलं नो दातुमायातु शौरिः ॥९७॥ कोदण्डं मसृणं सुगन्धि विशिखं चक्राब्जपाशाङ्कुशं हैमीं वेणुलतां करैश्च दधतं सिन्दूरपुञ्जारुणम् । कन्दर्पाधिकसुन्दरं स्मितमुखं गोपाङ्गनावेष्टितं गोपालं सततं भजामि वरदं त्रैलोक्यरक्षामणिम् ॥९८॥ सायङ्काले वनान्ते कुसुमितसमये सैकते चन्द्रिकायां त्रैलोक्याकर्षणाङ्गं सुरनरगणिकामोहनापाङ्गमूर्तिम् । सेव्यं शृङ्गारभावैर्नवरसभरितैर्गोपकन्यासहस्रै- र्वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥९९॥ कदम्बमूले क्रीडन्तं वृन्दावननिवेशितम् । पद्मासनस्थितं वन्दे वेणुं गायन्तमच्युतम् ॥१००॥ बालं नीलाम्बुदाभं नवमणिविलसत् किङ्किणीजालबद्ध- श्रोणीजङ्घान्तयुग्मं विपुलरुरुनखप्रोल्लसत्कण्ठभूषम् । फुल्लाम्भोजाभवक्त्रं हतशकटमरुत् पूतनाद्यं प्रसन्नं गोविन्दं वन्दितेन्द्राद्यमरवरमजं पूजयेद्वासरादौ ॥१०१॥ वन्द्यं देवैर्मुकुन्दं विकसितकुरुविन्दाभमिन्दीवराक्षं गोगोपीवृन्दवीतं जितरिपुनिवहं कुन्दमन्दारहासम् । नीलग्रीवाग्रपिञ्छाकलनसुविलसत्कुन्तलं भानुमन्तं देवं पीताम्बराढ्यं जप जप दिनशो मध्यमाह्ने रमायै ॥१०२॥ चक्रान्तध्वस्तवैरिव्रजमजितमपास्तावनीभारमाद्यै- रावीतं नारदाद्यैर्मुनिभिरभिनुतं तत्वनिर्णीतिहेतोः । सायाह्ने निर्मलाङ्गं निरुपमरुचिरं चिन्तयेन्नीलभासं रात्रौ विश्वोदयस्थित्यपहरणपदं मुक्तिदं वासुदेवम् ॥१०३॥ कोदण्डमैक्षवमखण्डमिषुं च पौष्पं चक्राब्जपाशसृणिकाञ्चनवंशनालम् । विभ्राणमष्टविधबाहुभिरर्कवर्णं ध्यायेद्धरिं मदनगोपविलासवेषम् ॥१०४॥ अङ्गुल्याः कः कवाटं प्रहरति कुटिले माधवः किं वसन्तो नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिह्वः फणीन्द्रः । नाहं घोराहिमर्दी किमसि खगपतिर्नो हरिः किं कपीन्द्रः इत्येवं गोपकन्याप्रतिवचनजितः पातु वश्चक्रपाणिः ॥१०५॥ राधामोहनमन्दिरादुपगतश्चन्द्रावलीमूचिवान् राधे क्षेममयेऽस्ति तस्य वचनं श्रुत्वाऽऽह चन्द्रावली । कंस क्षेममये विमुग्धहृदये कंसः क्व दृष्टस्त्वया राधा क्वेति विलज्जितो नतमुखः स्मेरो हरिः पातु वः ॥१०६॥ या प्रीतिर्विदुरार्पिते मुररिपो कुन्त्यर्पिते यादृशी या गोवर्धनमूर्ध्नि या च पृथुके स्तन्ये यशोदार्पिते । भारद्वाजसमर्पिते शबरिकादत्तेऽधरे योषितां या प्रीतिर्मुनिपत्निभक्तिरचितेऽप्यत्रापि तां तां कुरु ॥१०७॥ कृष्णानुस्मरणादेव पापसङ्घातपञ्चरः । शतधा मोघमायाति गिरिर्वज्रहतो यथा ॥१०८॥ यस्यात्मभूतस्य गुरोः प्रसादादहं विमुक्तोऽस्मि शरीरबन्धात् । सर्वोपदेष्टुः पुरुषोत्तमस्य तस्यांघ्रिपद्मं प्रणतोऽस्मि नित्यम् ॥१०९॥

॥इति श्रीकृष्णकर्णामृते तृतीयाश्वासः समाप्तः ॥
॥इति श्रीकृष्णकर्णामृतं समाप्तम् ॥

N/A

References : N/A
Last Updated : January 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP