श्रीकृष्णकर्णामृतं - द्वितीयाश्वासः
भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.
अभिनवनवनीतस्निग्धमापीतदुग्धं दधिकणपरिदिग्धं मुग्धमङ्कं मुरारेः । दिशतु भुवनकृच्छ्रच्छेदि तापिञ्छगुच्छ- च्छवि नवशिखिपिञ्छा लाञ्छितं वाञ्छितं नः ॥१॥ यां दृष्ट्वा यमुनां पिपासुरनिशं व्यूहो गवां गाहते विद्युत्वानिति नीलकण्ठनिवहो यां द्रष्टुमुत्कण्ठते । उत्तंसाय तमालपल्लवमिति छिन्दन्ति यां गोपिकाः कन्तिः कालियशासनस्य वपुषः सा पावनी पातु नः ॥२॥ देवः पायात्पयसि विमले यामुने मज्जतीनां याचन्तीनामनुनयपदैर्वञ्चितान्यंशुकानि । लज्जालोलैरलसविलसैरुन्मिषत्पञ्चबाणै- र्गोपस्त्रीणां नयनकुसुमैरर्चितः केशवो नः ॥३॥ मातर्नातःपरमनुचितं यत्खलानां पुरस्ता- दस्ताशङ्कं जठरपिठरीपूर्तये नर्तितासि । तत्क्षन्तव्यं सहजसरले वत्सले वाणि कुर्यां प्रायश्चित्तं गुणगणनया गोपवेषस्य विष्णोः ॥४॥ अङ्गुल्यग्रैररुणकिरणैर्मुक्तसंरुद्धरन्ध्रं वारं वारं वदनमरुता वेणुमापूरयन्तम् । व्यत्यस्ताङ्घ्रिं विकचकमलच्छायविस्तारनेत्रं वन्दे वृन्दावनसुचरितं नन्दगोपालसूनुम् ॥५॥ मन्दं मन्दं मधुरनिनदैर्वेणुमापूरयन्तं वृन्दं वृन्दावनभुवि गवां चारयन्तं चरन्तम् । छन्दोभागे शतमखमुखध्वंसिनां दानवानां हन्तारं तं कथय रसने गोपकन्याभुजङ्गम् ॥६॥ वेणीमूले विरचितघनश्यामपिञ्छावचूडो विद्युल्लेखावलयित इव स्निग्धपीताम्बरेण । मामालिङ्गन्मरकतमणिस्तम्भगंभीरबाहुः स्वप्ने दृष्टस्तरुणतुलसीभूषणो नीलमेघः ॥७॥ कृष्णे हृत्वा वसननिचयं कूलकुञ्जाधिरूढे मुग्धा काचिन्मुहुरनुनयैः किं न्विति व्याहरन्ती । सभ्रूभङ्गं सदरहसितं सत्रपं सानुरागं छायाशौरेः करतलगतान्यम्बराण्याचकर्ष ॥८॥ अपि जनुषि परस्मिन्नात्तपुण्यो भवेयं तटभुवि यमुनायास्तादृशो वंशनालः । अनुभवति य एषः श्रीमदाभीरसूनो- रधरमणिसमीपन्यासधन्यामवस्थाम् ॥९॥ अयि परिचिनु चेतः प्रातरम्भोजनेत्रं कबरकलितचञ्चत्पिञ्छदामाभिरामम् । वलभिदुपलनीलं वल्लवीभागधेयं निखिलनिगमवल्लीमूलकन्दं मुकुन्दम् ॥१०। अयि मुरलि मुकुन्दस्मेरवक्त्रारविन्द- श्वसनमधुरसज्ञे त्वां प्रणम्याद्य याचे । अधरमणिसमीपं प्राप्तवत्यां भवत्यां कथय रहसि कर्णे मद्दशां नन्दसूनोः ॥१सजलजलदनीलं वल्लवीकेलिलोलं श्रितसुरतरुमूलं विद्युदुल्लासिचेलम् । सुररिपुकुलकालं सन्मनोबिम्बलीलं नतसुरमुनिजालं नौमि गोपालबालम् ॥१२॥ अधरबिम्बविडम्बितविद्रुमं मधुरवेणुनिनादविनोदिनम् । कमलकोमलकम्रमुखाम्बुजं कमपि गोपकुमारमुपास्महे ॥१३॥ अधरे विनिवेश्य वंशनालं विवराण्यस्य सलीलमङ्गुलीभिः । मुहुरन्तरयन्मुहुर्विवर्णन् मधुरं गायति माधवो वनान्ते ॥१४॥ वदने नवनीतगन्धवाहं वचने तस्करचातुरीधुरीणम् । नयने कुहनाश्रुमाश्रयेथाश्चरणे कोमलताण्डवं कुमारम् ॥१५॥ अमुनाखिलगोपगोपनार्थं यमुनारोधसि नन्दनन्दनेन । दमुना वनसम्भवः पपे नः किमु नासौ शरणार्थिनां शरण्यः ॥१६॥ जगदादरणीयजारभावं जलजापत्यवचोविचारगम्यम् । तनुतां तनुतां शिवेतराणां सुरनाथोपलसुन्दरं महो नः ॥१७॥ या शेखरे श्रुतिगिरां हृदि योगभाजां पादाम्बुजे च सुलभा व्रजसुन्दरीणाम् । सा काऽपि सर्वजगतामभिरामसीमा कामाय नो भवतु गोपकिशोरमूर्तिः ॥१८॥ अत्यन्तबालमतसीकुसुमप्रकाशं दिग्वाससं कनकभूषणभूषिताङ्गम् । विस्रस्तकेशमरुणाधरमायताक्षं कृष्णं नमामि मनसा वसुदेवसूनुम् ॥१९॥ हस्ताङ्घ्रिनिक्वणितकङ्कणकिङ्किणीकं मध्ये नितम्बमवलम्बितहेमसूत्रम् । मुक्ताकलापमुकुलीकृतकाकपक्षं वन्दामहे व्रजवरं वसुदेवभाग्यम् ॥२०॥ वृन्दावनद्रुमतलेषु गवां गणेषु वेदावसानसमयेषु च दृश्यते यत् । तद्वेणुनादनपरं शिखिपिञ्छचूडं ब्रह्म स्मरामि कमलेक्षणमभ्रनीलम् ॥२१॥ व्यत्यस्तपादमवतंसितबर्हिबर्हं साचीकृतानननिवेशितवेणुरन्ध्रम् । तेजः परं परमकारुणिकं पुरस्तात् प्राणप्रयाणसमये मम सन्निधत्ताम् ॥२२॥ घोषप्रघोषशमनाय मथोगुणेन मध्ये बबन्ध जननी नवनीतचोरम् । तद्बन्धनं त्रिजगतामुदराश्रयाणामाक्रोशकारणमहो नितरां बभूव ॥२३॥ शैवा वयं न खलु तत्र विचारणीयं पञ्चाक्षरीजपपरा नितरां तथापि । चेतो मदीयमतसीकुसुमावभासं स्मेराननं स्मरति गोपवधूकिशोरम् ॥२४॥ राधा पुनातु जगदच्युतदत्तचित्ता मन्थानमाकलयती दधिरिक्तपात्रे । तस्याः स्तनस्तबकचञ्चललोलदृष्टिर्देवोऽपि दोहनधिया वृषभं निरुन्धन् ॥२५॥ गोधूलिधूसरितकोमलकुन्तलाग्रं गोवर्धनोद्धरणकेलिकृतप्रयासम् । गोपीजनस्य कुचकुङ्कुममुद्रिताङ्गं गोविन्दमिन्दुवदनं शरणं भजामः ॥२६॥ यद्रोमरन्ध्रपरिपूर्तिविधावदक्षा वाराहजन्मनि बभूवुरमी समुद्राः । तं नाम नाथमरविन्ददृशं यशोदा पाणिद्वयान्तरजलैः स्नपयां बभूव ॥२७॥ वरमिममुपदेशमाद्रियध्वं निगमवनेषु नितान्तचारखिन्नः । विचिनुत भवनेषु वल्लवीनामुपनिषदर्थमुलूखले निबद्धम् ॥२८॥ देवकीतनयपूजनपूतः पूतनारिचरणोदकधौतः । यद्यहं स्मृतधनञ्जयसूतः किं करिष्यति स मे यमदूतः ॥२९॥ भासतां भवभयैकभेषजं मानसे मम मुहुर्मुहुर्मुहुः । गोपवेषमुपसेदुषस्स्वयं यापि कापि रमणीयता विभोः ॥३०॥ कर्णलम्बितकदम्बमञ्जरी केसरारुणकपोलमण्डलम् । निर्मलं निगमवागगोचरं नीलिमानमवलोकयामहे ॥३१॥ साचि सञ्चलितलोचनोत्पलं सामिकुड्मलितकोमलाधरम् । वेगवल्गितकराङ्गुलीमुखं वेणुनादरसिकं भजामहे ॥३२॥ स्यन्दने गरुडमण्डितध्वजे कुण्डिनेशतनयाधिरोपिता । केनचिन्नवतमालपल्लवश्यामलेन पुरुषेण नीयते ॥३३॥ मा यात पान्थाः पथि भीमरथ्या दिगंबरः कोऽपि तमालनीलः । विन्यस्तहस्तोऽपि नितम्बबिम्बे धूर्तस्समाकर्षति चित्तवित्तम् ॥३४॥ रासक्रीडा अङ्गनामङ्गनामन्तरे माधवो माधवं माधवं चान्तरेणाङ्गना । इत्थमाकल्पिते मण्डले मध्यगः सञ्जगौ वेणुना देवकीनन्दनः ॥३५॥ केकिकेकादृतानेकपङ्केरुहालीनहंसावलीहृद्यता हृद्यता । कंसवंशाटवीदाहदावानलः सञ्जगौ वेणुना देवकीनन्दनः । ३६॥ क्वापि वीणाभिराराविणा कम्पितः क्वापि वीणाभिराकिङ्किणीनर्तितः । क्वापि वीणाभिरामन्तरं गापितः सञ्जगौ वेणुना देवकीनन्दनः । ३७॥ चारुचन्द्रावलीलोचनैश्चुम्बितो गोपगोवृन्दगोपालिकावल्लभः । वल्लवीवृन्दवृन्दारकः कामुकः सञ्जगौ वेणुना देवकीनन्दनः । ३८॥ मौलिमालामिलन्मत्तभृङ्गीलताभीतभीतप्रियाविभ्रमालिङ्गितः । स्रस्तगोपीकुचाभोगसम्मेलितः सञ्जगौ वेणुना देवकीनन्दनः । ३९॥ चारुचामीकराभासभामाविभुर्वैजयन्तीलतावासितोरःस्थलः । नन्दवृन्दावने वासितामध्यगः सञ्जगौ वेणुना देवकीनन्दनः । ४०॥ बालिकातालिकाताललीलालयासङ्गसन्दर्शितभ्रूलताविभ्रमः । गोपिकागीतदत्तावधानस्स्वयं सञ्जगौ वेणुना देवकीनन्दनः । ४१॥ पारिजातं समुद्धृत्य राधावरो रोपयामास भामागृहस्याङ्कणे । शीतशीते वटे यामुनीये तटे सञ्जगौ वेणुना देवकीनन्दनः । ४२॥ अग्रे दीर्घतरोऽयमर्जुनतरुस्तस्याग्रतो वर्तनिः सा घोषं समुपैति तत्परिसरे देशे कलिन्दात्मजा । तस्यास्तीरतमालकाननतले चक्रं गवां चारयन् गोपः क्रीडति दर्शयिष्यति सखे पन्थानमव्याहतम् ॥४३॥ गोधूलिधूसरितकोमलगोपवेषं गोपालबालकशतैरनुगम्यमानम् । सायन्तने प्रतिगृहं पशुबन्धनार्थं गच्छन्तमच्युतशिशुं प्रणतोऽस्मि नित्यम् ॥४४॥ निधिं लावण्यानां निखिलजगदाश्चर्यनिलयं निजावासं भासां निरवधिकनिःश्रेयसरसम् । सुधाधारासारं सुकृतपरिपाकं मृगदृशां प्रपद्ये माङ्गल्यं प्रथममधिदैवं कृतधियाम् ॥४५॥ आताम्रपाणिकमलप्रणयप्रतोदमालोलहारमणिकुण्डलहेमसूत्रम् । आविश्रमाम्बुकणमम्बुदनीलमव्यादाद्यं धनञ्जयरथाभरणं महो नः ॥४६॥ नखनियमितकण्डून् पाण्डवस्यन्दनाश्वाननुदिनमभिषिञ्चन्नञ्जलिस्थैः पयोभिः । अवतु विततगात्रस्तोत्रनिष्ठ्यूतमौलिर्दशनविधृतरश्मिर्देवकीपुण्यराशिः ॥४७॥ व्रजयुवतिसहाये यौवनोल्लासिकाये सकलशुभविलासे कुन्दमन्दारहासे । निवसतु मम चित्तं तत्पदायत्तवृत्तं मुनिसरसिजभानौ नन्दगोपालसूनौ ॥४८॥ अरण्यानीमार्द्रस्मितमधुरबिम्बाधरसुधा सरण्या संक्रान्तैस्सपदि मदयन् वेणुनिनदैः । धरण्या सानन्दोत्पुलकमुपगूढाङ्घ्रिकमलः शरण्यानामाद्यस्स जयतु शरीरी मधुरिमा ॥४९॥ विदग्धगोपालविलासिनीनां संभोगचिह्नाङ्कितसर्वगात्रम् । पवित्रमाम्नायगिरामगम्यं ब्रह्म प्रपद्ये नवनीतचोरम् ॥५०॥ मुग्धां स्निग्धां मधुरमुरलीमाधुरीधीरनादैः कारं कारं करणविवशं गोकुलव्याकुलत्वम् । श्यामं कामं युवजनमनोमोहनं मोहनत्वं चित्ते नित्यं निवसतु महो वल्लवीवल्लभं नः ॥५०॥ अन्तर्गृहे कृष्णमवेक्ष्य चोरं बद्ध्वा कवाटं जननीं गतैका । उलूखले दामनिबद्धमेनं तत्रापि दृष्ट्वा स्तिमिता बभूव ॥५१॥ रत्नस्थले जानुचरः कुमारः सङ्क्रान्तमात्मीयमुखारविन्दम् । आदातुकामस्तदलाभखेदाद्विलोक्य धात्रीवदनं रुरोद ॥५२॥ आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं साशङ्कं बलविद्विषा सकुसुमैः सिद्धैः पथि व्याकुलम् । सेर्ष्यं गोपकुमारकैस्सकरुणं पौरैर्जनैः सस्मितं यो दृष्टः स पुनातु नो मुररिपुः प्रोत्क्षिप्तगोवर्धनः ॥५३॥ उपासतामात्मविदः पुराणाः परं पुमांसं निहितं गुहायाम् । वयं यशोदाशिशुबाललीलाकथासुधासिन्धुषु लीलयामः ॥५४॥ विक्रेतुकामा किल गोपकन्या मुरारिपादार्पितचित्तवृत्तिः । दध्यादिकं मोहवशादवोचद्गोविन्द दामोदर माधवेति ॥५५॥ उलूखलं वा यमिनां मनो वा गोपाङ्गनानां कुचकुड्मलं वा । मुरारिनाम्नः कलभस्य नूनमालानमासीत् त्रयमेव भूमौ ॥५६॥ करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् । वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥५७॥ शम्भो स्वागतमास्यतामित इतो वामेन पद्मासन क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यसे । इत्थं स्वप्नगतस्य कैटभजितश्श्रुत्वा यशोदा गिरः किं किं बालक जल्पसीति रचितं धूधूकृतं पातु नः ॥५८॥ मातः किं यदुनाथ देहि चषकं किं तेन पातुं पय- स्तन्नास्त्यद्य कदास्ति वा निशि निशा का वाऽन्धकारोदये । आमील्याक्षियुगं निशाप्युपगता देहीति मातुर्मुहु- र्वक्षोजांशुककर्षणोद्यतकरः कृष्णस्य पुष्णातु नः ॥५९॥ कालिन्दीपुलिनोदरेषु मुसली यावद्गतः खेलितुं तावत्कार्परिकं पयः पिब हरे वर्धिष्यते ते शिखा । इत्थं बालतया प्रतारणपराः शृत्वा यशोदागिरः पायान्नस्स्वशिखां स्पृशन् प्रमुदितः क्षीरेऽर्धपीते हरिः ॥६०॥ कैलासे नवनीतति क्षितिरियं प्राग्जग्धमृल्लोष्टति क्षीरोदोऽपि निपीतदुग्धति लसत् स्मेरे प्रफुल्ले मुखे । मात्राऽजीर्णधिया दृढं चकितया नष्टाऽस्मि दृष्टाः कया धूधू वत्सक जीव जीव चिरमित्युक्तोऽवतान्नो हरिः ॥६१॥ किञ्चित्कुञ्चितलोचनस्य पिबतः पर्यायपीतस्तनं सद्यः प्रस्नुतदुग्धबिन्दुमपरं हस्तेन सम्मार्जतः । मात्रैकाङ्गुलिलालितस्य चुबुके स्मेराननस्याधरे शौरेः क्षीणकणान्विता निपतिता दन्तद्युतिः पातु नः ॥६२॥ उत्तुङ्गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणे- रन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युतेः । लज्जाव्याजमुपेत्य नम्रवदना स्पष्टं मुरारेर्वपुः पश्यन्ती मुदिता मुदोऽस्तु भवतां लक्ष्मीर्विवाहोत्सवे ॥६३॥ कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया तथ्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् । व्यादेहीति विदारिते शिशुमुखे दृष्ट्वा समस्तं जगत् माता यस्य जगाम विस्मयपदं पायात् स नः केशवः ॥६४॥ स्वाती सपत्नी किल तारकाणां मुक्ताफलानां जननीति रोषात् । सा रोहिणी नीलमसूत रत्नं कृतास्पदं गोपवधूकुचेषु ॥६५॥ नृत्यन्तमत्यन्तविलोकनीयं कृष्णं मणिस्थम्भगतं मृगाक्षी । निरीक्ष्य साक्षादिव कृष्णमग्रे द्विधा वितेने नवनीतमेकम् ॥६६॥ वत्स जागृहि विभातमागतं जीव कृष्ण शरदां शतं शतम् । इत्युदीर्य सुचिरं यशोदया दृश्यमनवदनं भजामहे ॥६७॥ ओष्ठं जिघ्रन् शिशुरिति धिया चुम्बितो वल्लवीभिः कण्ठं गृह्णन्नरुणितपदं गाढमालिङ्गिताङ्गः । दोष्णा लज्जापदमभिमृशन्नङ्कमारोपितात्मा धूर्तस्वामी हरतु दुरितं दूरतो बालकृष्णः ॥६८॥ एते लक्ष्मण जानकीविरहितं मां खेदयन्त्यम्बुदा मर्माणीव च घट्टयन्त्यलममी क्रूराः कदम्बानिलाः । इत्थं व्यहृतपूर्वजन्मचरितं यो राधया वीक्षितः सेर्ष्यं शङ्कितया स नस्सुखयतु स्वप्नायमानो हरिः ॥६९॥ ओष्ठं मुञ्च हरे बिभेमि भवता पानैर्हता पूतना कण्ठाश्लेषममुं जहीहि दलितावालिङ्गनेनार्जुनौ । मा देहि छुरितं हिरण्यकशिपुर्नीतो नखैः पञ्चता- मित्थं वारितरात्रिकेलिरवताल्लक्ष्म्यापहासाद्धरिः ॥७०॥ रामो नाम बभूव हुं तदबला सीतेति हुं तौ पितु- र्वाचा पञ्चवटीतटे विहरतस्तामाहरद्रावणः । निद्रार्थं जननी कथामिति हरेर्हुङ्कारतः शृण्वतः सौमित्रे क्व धनुर्धनुर्धनुरिति व्यग्रा गिरः पातु नः ॥७१॥ बालोऽपि शैलोद्धरणाग्रपाणिर्नीलोऽपि नीरन्ध्रतमः प्रदीपः । धीरोऽपि राधानयनावबद्धो जारोऽपि संसारहरः कुतस्त्वम् ॥७२॥ बालाय नीलवपुषे नवकिङ्किणीकजालाभिरामजघनाय दिगम्बराय । शार्दूलदिव्यनखभूषणभूषिताय नन्दात्मजाय नवनीतमुषे नमस्ते ॥७३॥ पाणौ पायसभक्तमाहितरसं बिभ्रन्मुदा दक्षिणे सव्ये शारदचन्द्रमण्डलनिभं हय्यंगवीनं दधत् । कण्ठे कल्पितपुण्डरीकनखमप्युद्दामदीप्तिं वहन् देवो दिव्यदिगम्बरो दिशतु नस्सौख्यं यशोदाशिशुः ॥७४॥ किङ्किणिकिणिकिणिरभसैरङ्गणभुवि रिङ्गणैः सदाऽटन्तम् । कुङ्कुणुकुणुपदयुगलं कङ्कणकरभूषणं हरिं वन्दे ॥७५॥ सम्बाधे सुरभीणामम्बामायासयन्तमनुयान्तीम् । लम्बालकमवलम्बे तं बालं तनुविलग्नजम्बालम् ॥७६॥ अञ्चितपिञ्छाचूडं सञ्चितसौजन्यवल्लवीवलयम् । अधरमणिनिहितवेणुं बालं गोपालमनिशमवलम्बे ॥७७॥ प्रह्लादभागधेयं निगममहाद्रेर्गुहान्तराधेयम् । नरहरिपदाभिधेयं विबुधविधेयं ममानुसंधेयम् ॥७८॥ संसारे किं सारं कंसारेश्चरणकमलपरिवसनम् । ज्योतिः किमन्धकारे यदन्धकारेरनुस्मरणम् ॥७९॥ कलशनवनीतचोरे कमलादृक्कुमुदचन्द्रिकापूरे । विहरतु नन्दकुमारे चेतो मम गोपसुन्दरीजारे ॥८०॥ कस्त्वं बाल बलानुजः किमिह ते मन्मन्दिराशङ्कया युक्तं तन्नवनीतपात्रविवरे हस्तं किमर्थं न्यसेः । मातः कञ्चन वत्सकं मृगयितुं मा गा विषादं क्षणा- दित्येवं वरवल्लवीप्रतिवचः कृष्णस्य पुष्णातु नः ॥८१॥ गोपालाजिरकर्दमे विहरसे विप्राध्वरे लज्जसे ब्रूषे गोकुलहुङ्कृतैः स्तुतिशतैर्मौनं विधत्से विदाम् । दास्यं गोकुलपुंश्चलीषु कुरुषे स्वाम्यं न दान्तात्मसु ज्ञातं कृष्ण तवाङ्घ्रिपङ्कजयुगं प्रेम्णाचलं मञ्जुलम् ॥८२॥ नमस्तस्मै यशोदाया दायादायास्तु तेजसे । यद्धि राधामुखाम्भोजं भोजं भोजं व्यवर्धत ॥८३॥ अवताराः सन्त्वन्ये सरसिजनयनस्य सर्वतोभद्राः । कृष्णादन्यः को वा प्रभवति गोगोपगोपिकामुक्त्यै ॥८४॥ मध्ये गोकुलमण्डलं प्रतिदिशं चाम्बारवोज्जृम्भिते प्रातर्दोहमहोत्सवे नवघनश्यामं रणन्नूपुरम् । फाले बालविभूषणं कटिरणत्सत्किङ्किणीमेखलं कण्ठे व्याघ्रनखं च शैशवकलाकल्याणकार्त्स्न्यं भजे ॥८५॥ सजलजलदनीलं दर्शितोदारलीलं करतलधृतशैलं वेणुनादै रसालम् । व्रजजनकुलपालं कामिनीकेलिलोलं कलितललितमालं नौमि गोपालबालम् ॥८६॥ स्मितललितकपोलं स्निग्धसङ्गीतलोलं ललितचिकुरजालं चौर्यचातुर्यलीलम् । शतमखरिपुकालं शातकुम्भाभचेलं कुवलयदलनीलं नौमि गोपालबालम् ॥८७॥ मुरलिनिनदलोलं मुग्धमायूरचूडं दलितदनुजजालं धन्यसौजन्यलीलम् । परहितनवहेलं पद्मसद्मानुकूलं नवजलधरनीलं नौमि गोपालबालम् ॥८८॥ सरसगुणनिकायं सच्चिदानन्दकायं शमितसकलमायं सत्यलक्ष्मीसहायम् । शमदमसमुदायं शान्तसर्वान्तरायं सुहृदयजनदायं नौमि गोपालबालम् ॥८९॥ लक्ष्मीकलत्रं ललिताब्जनेत्रं पूर्णेन्दुवक्त्रं पुरुहूतमित्रम् । कारुण्यपात्रं कमनीयगात्रं वन्दे पवित्रं वसुदेवपुत्रम् ॥९०॥ मदमयमदमयदुरगं यमुनामवतीर्य वीर्यशाली यः । मम रतिममरतिरस्कृतिशमनपरस्स क्रियात् कृष्णः ॥९१॥ मौलौ मायूरबर्हं मृगमदतिलकं चारु लालाटपट्टे कर्णद्वन्द्वे च तालीदलमतिमृदुलं मौक्तिकं नासिकायाम् । हारो मन्दारमालापरिमलभरिते कौस्तुभस्योपकण्ठे पाणौ वेणुश्च यस्य व्रजयुवतियुतः पातु पीताम्बरो नः ॥९२॥ मुरारिणा वारिविहारकाले मृगेक्षणानां मुषितांशुकानाम् । करद्वयं वा कचसंहतिर्वा प्रमीलनं वा परिधानमासीत् ॥९३॥ यासां गोपाङ्गनानां लसदसिततरालोललीलाकटाक्षा यन्नासा चारु मुक्तामणिरुचिनिकरव्योमगङ्गाप्रवाहे । मीनायन्तेऽपि तासामतिरभसचलच्चारुनीलालकान्ता भृङ्गायन्ते यदङ्घ्रिद्वयसरसिरुहे पातु पीताम्बरो नः ॥९४॥ यद्वेणुश्रेणिरूपस्थितसुषिरमुखोद्गीर्णनादप्रभिन्ना एणाक्ष्यस्तत्क्षणेन त्रुटितनिजपतिप्रेमबन्धा बभूवुः ॥अस्तव्यस्तालकान्ताः स्फुरदधरकुचद्वन्द्वनाभिप्रदेशाः कामावेशप्रकर्षप्रकटितपुलकाः पातु पीतम्बरो नः ॥९५॥ देवक्या जठराकरे समुदितः क्रीतो गवां पालिना नन्देनानकदुन्दुभेर्निजसुतापण्येन पुण्यात्मना । गोपालावलिमुग्धहारतरलो गोपीजनालङ्कृतिः स्थेयान्नो हृदि सन्ततं सुमधुरः कोऽपीन्द्रनीलो मणिः ॥९६॥ पीठे पीठनिषण्णबालकगले तिष्ठन् स गोपालको यन्त्रान्तःस्थितदुग्धभाण्डमपकृष्याच्छाद्य घण्टारवम् । वक्त्रोपान्तकृताञ्जलिः कृतशिरःकम्पं पिबन् यः पयः पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत् ॥९७॥ यज्ञैरीजिमहे धनं ददिमहे पात्रेषु नूनं वयं वृद्धान् भेजिमहे तपश्चकृमहे जन्मान्तरे दुश्चरम् । येनास्माकमभूदनन्यसुलभा भक्तिर्भवद्वेषिणी चाणूरद्विषि भक्तकल्मषमुषि श्रेयःपुषि श्रीजुषि ॥९८॥ त्वयि प्रसन्ने मम किं गुणेन त्वय्यप्रसन्ने मम किं गुणेन । रक्ते विरक्ते च वरे वधूनां निरर्थकः कुङ्कुमपत्रभङ्गः ॥९९॥ गायन्ति क्षणदावसानसमये सानन्दमिन्दुप्रभा रुन्धन्त्यो निजदन्तकान्तिनिवहैर्गोपाङ्गना गोकुले । मथ्नन्त्यो दधि पाणिकङ्कणझणत्कारानुकारं जवाद् व्यावल्गद्वसनाञ्जला यमनिशं पीताम्बरोऽव्यात्स नः ॥१००॥ अंसालम्बितवामकुण्डलभरं मन्दोन्नतभ्रूलतं किञ्चित्कुञ्चितकोमलाधरपुटं साचि प्रसारेक्षणम् । आलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा मूले कल्पतरोस्त्रिभङ्गिललितं जाने जगन्मोहनम् ॥१०१॥ मल्लैश्शैलेन्द्रकल्पः शिशुरितजनैः पुष्पचापोऽङ्गनाभि- र्गोपैस्तु प्राकृतात्मा दिवि कुलिशभृता विश्वकायोऽप्रमेयः । क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिः दृष्टो रङ्गावतारे हरिरमरगणानन्दकृत् पातु युष्मान् ॥१०२॥ संविष्टो मणिविष्टरेऽङ्कतलमध्यासीनलक्ष्मीमुखे कस्तूरीतिलकं मुदा विरचयन् हर्षात्कुचौ संस्पृशन् । अन्योन्यस्मितचन्द्रिकाकिसलयैराराधयन्मन्मथं गोपीगोपपरीवृतो यदुपतिः पायाज्जगन्मोहनः ॥१०३॥ आकृष्टे वसनाञ्चले कुवलयश्यामा त्रपाधःकृता दृष्टिः संवलिता रुचा कुचयुगे स्वर्णप्रभे श्रीमति । बालः कश्चन चूतपल्लव इति प्रान्तस्मितास्यश्रियं श्लिष्यंस्तामथ रुक्मिणीं नतमुखीं कृष्णस्स पुष्णातु नः ॥१०४॥ उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया तेन त्वं दिवि भूतले च सततं गोवर्धनोद्धारकः । त्वां त्रैलोक्यधरं वहामि कुचयोरग्रे न तद्गण्यते किं वा केशव भाषणेन बहुना पुण्यैर्यशो लभ्यते ॥१०५॥ सन्ध्यावन्दन भद्रमस्तु भवतो भोः स्नान तुभ्यं नमो भो देवाः पितरश्च तर्पणविधौ नाहं क्षमः क्षम्यताम् । यत्र क्वापि निषीद्य यादवकुलोत्तंसस्य कंसद्विषः स्मारं स्मारमघं हरामि तदलं मन्ये किमन्येन मे ॥१०६॥ हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव । हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥१०७॥ कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् । सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥१०८॥ लोकानुन्मदयन् श्रुतीर्मुखरयन् श्रोणीरुहान्हर्षयन् शैलान्विद्रवयन् मृगान्विवशयन् गोवृन्दमानन्दयन् । गोपान् संभ्रमयन् मुनीन्मुकुलयन् सप्तस्वरान् जृम्भयन् ओंकारार्थमुदीरयन् विजयते वंशीनिनादश्शिशोः ॥१०९॥
॥इति श्रीकृष्णकर्णामृते द्वितीयाश्वासः समाप्तः ॥
N/A
References : N/A
Last Updated : January 23, 2014
TOP