श्रीकृष्णविलासकाव्यम् - प्रथमः सर्गः
भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.
अस्ति श्रियः सद्म सुमेरुनामा समस्तकल्याणनिधिर्गिरीन्द्रः ।
तिष्ठन्निदं विश्वमनुप्रविश्य स्वेनात्मना विष्णुरिवोर्जितेन ॥१॥
मिथस्तिरोभावविलोकनाभ्यां सङ्क्रीडमानाविव बालकौ द्वौ ।
पार्श्वेषु यस्याशु परिभ्रमन्तौ चन्द्रांशुमन्तौ नयतो दिनानि ॥२॥
उच्चैश्शिखः काञ्चनगौरवर्णस्तमो निगृह्णन्महसा निजेन ।
दीपस्त्रयाणामिव विष्टपानां यो भाति पर्यन्तचरत्पतङ्गः ॥३॥
यस्या पतित्वे विहिताभिलाषः करोति तीव्राणि तपांसि लोकः ।
बिभर्ति रत्नाकरमेखलां तामङ्केन पुत्रीमिव यो धरित्रीम् ॥४॥
महान्ति दानानि मखानुदग्रान् पराञ्चि पानाशनयोस्तपांसि ।
शरीरिणः शान्तमलैर्मनोभिः कुर्वन्ति यच्छृङ्गनिवासकामाः ॥५॥
सुरा युगान्तेषु सह प्रियाभिर्न्निषेदिवांसो यदधित्यकासु ।
उदन्वतामैक्यमुपागतानां पश्यन्ति कल्लोलशतप्रचारान् ॥६॥
पुष्पाणि शय्यास्सुरपादपानां क्रीडागृहाः काञ्चनगह्वराणि ।
भवन्ति च स्वर्गविलासिनीनां रत्नाङ्कुरा यत्र रतिप्रदीपाः ॥७॥
स्वर्गौकसस्स्वर्णमहीषु पीताः श्वेतत्विषो रूप्यमयीषु भूषु ।
नीलाश्च नीलोपलमेदिनीषु ज्ञातुं मिथो यत्र न शक्नुवन्ति ॥८॥
दरीगृहोत्सङ्गगतेरनूरोः कशाभिघातध्वनिभिः सकम्पाः ।
सद्यः प्रियानुज्झितमानदोषाः सुराङ्गना यत्र परिष्वजन्ते ॥९॥
नेतुं त्रपानम्रमुखीरनीशाः स्फुटानि यत्स्वर्णगुहान्तराणि ।
सिद्धाः प्रयत्नेन विना नवोढाः नयन्ति नीलोपलगह्वराणि ॥१०॥
यत्रोद्यतानां कुसुमापचाये कान्तासु कल्पद्रुमवाटिकासु ।
विभान्ति सुत्रामविलासिनीनां पदानि लाक्षारसपाटलानि ॥११॥
पयोदमार्गव्यतिलङ्घिनीषु हंसाः शिरःपुष्करिणीषु यस्य ।
वर्षागमेऽप्यश्रुतमेघनादाः न कुर्वते मानसदीर्घयात्राम् ॥१२॥
छन्नेषु यस्मिन् कनकोज्ज्वलाभिरामूलचूडं नवमञ्जरीभिः ।
गन्धेन विज्ञाय पतन्ति भृङ्गाः शृङ्गान्तरारग्वधपादपेषु ॥१३॥
मन्दाकिनी यच्छिखरे वहन्ती कुल्यापथाभ्यन्तरसंप्रविष्टा ।
बालेव तद्रक्षणसंप्रवृत्ता दिने दिने सिञ्चति पुष्पवाटीम् ॥१४॥
श्रियाभिरामश्शरणं सुराणामलङ्घनीयो महता महिम्ना ।
विराजमानो वनमालया च यः शार्ङ्गधन्वानमनुप्रयाति ॥१५॥
पुरा पुराणां त्रितयं दिधक्षोरुमापतेः कार्मुकतां प्रपन्नः ।
मध्येन वज्राङ्कुशमत्स्यचिह्नं योऽद्यापि तन्मुष्टिपदं दधाति ॥१६॥
शृङ्गाग्रभाजां सुरसुन्दरीणां मुखानि पश्यन्नमलानि चन्द्रः ।
निगूहितुं नूनमुरःकलङ्कं ह्रियेव यत्सानुपथेन याति ॥१७॥
मनोभिरामे शिखरे तदीये सहोपविष्टं सुरसिद्धसङ्घैः ।
अवोचदागत्य कृतप्रणामा कदाचिदुर्वी कमलाधिवासम् ॥१८॥
पुमानिवाहं भवतः पुरस्ताद्ब्रवीमि किञ्चित् प्रतिपद्य धैर्यम् ।
पीडा मदीया परमत्र हेतुर्निर्ल्लज्जता नन्वखिलोपहास्या ॥१९॥
सृष्टास्त्वया दत्तवराश्च दैत्याः भारेण मां संप्रति पीडयन्ति ।
बले प्रमाणे च भवन्ति येषां नैवोपमानं कुलभूभृतोऽपि ॥२०॥
स्वविक्रमोन्मूलितराजकानां जयैषिणामद्य परस्परेण ।
तेषां रणक्षोणिषु सिंहनादैर्निर्घातघोरैर्गिरयः स्फुटन्ति ॥२१॥
मुहुर्बलादुन्नमयत्यहीन्द्रे मद्भारभुग्नं फणचक्रवालम्।
मम प्रकम्पाश्चलिताब्धिशैलाः दिग्दन्तिनो हन्त कदर्थयन्ति ॥२२॥
आशामुखेषु भ्रमतामजस्रं तेषां चमूभिः परिसर्पिणीभिः ।
तिरोहितां भानुमतो मयूखाः न क्वापि मां संप्रति संस्पृशन्ति ॥२३॥
सन्नास्मि दैतेयभरेण साहं फणीश्वरस्सीदति मद्भरेण ।
तद्भारशीर्यन्निजकर्परस्य धिक् तामवस्थां कमठेश्वरस्य ॥२४॥
भारावसीदद्फणमण्डलस्य फणीश्वरस्योपरि दुःस्थिताऽहम् ।
आसन्नपातास्मि तटीव नद्याः प्रवाहवेगेन विलुप्तमूला ॥२५॥
निवेदिता देव मया दशेयमनुक्तिदोषो मयि नोपपाद्यः ।
निवेद्यते रक्ष्यजनेन दुःखं ततः परस्तात् प्रभवः प्रमाणम् ॥२६॥
इत्युक्तवत्यामुचितं पृथिव्यां चिन्ताबलेन स्तिमितो मुहूर्तम् ।
मुखानि पश्यन्नमृताशनानां देवः प्रजानां पतिरित्युवाच ॥२७॥
नासत्यमेतद्यदवोचदुर्वी स्वकर्मणः साधु फलं मयाऽऽप्तम् ।
मद्वर्द्धिता मामवमत्य दैत्याः बलादुपघ्नन्ति जगन्ति यत्ते ॥२८॥
अतीतकार्यानुशयेन किं स्यादशेषविद्वज्जनगर्हितेन ।
सुराः समुन्मूलनमाशु तेषां कर्तुं यतध्वं जगतां हिताय ॥२९॥
सद्यस्समुत्तिष्ठत चिन्तयालं चिन्ता हि कार्यप्रतिबन्धहेतुः ।
यामः पृथिव्या सह यत्र तत्र नारायणो दानवकालरात्रिः ॥३०॥
अस्त्वेवमित्यादरपूर्वमेव स स्वीकृतोक्तिस्सुरसिद्धसङ्घैः ।
सरोजजन्मा सह तैः प्रतस्थे विहायसा विश्वपतेस्सकाशम् ॥३१॥
एलापरिष्वङ्गलसत्तमालं वेलाधिरूढस्खलदूर्मिमालम् ।
ददर्श धाता मनसोऽनुकूलं पयःपयोधेरचिरेण कूलम् ॥३२॥
ददर्श च क्षीरमयं समुद्रं कैलासशृङ्गोन्नतफेनकूटम् ।
पुण्यं पयःकेलिसमुत्सुकानां श्रियः सखीनामवगाहनेन ॥३३॥
आनन्दयामास दिवौकसस्तानाघ्रातशेषो मुनिमण्डलेन ।
प्रकामपुण्यः पवनोपनीतो वैकुण्ठवक्षस्तुलसीसुगन्धः ॥३४॥
गन्धानुसारेण विसृष्टनेत्रैर्हिरण्यगर्भप्रमुखैरमर्तैः ।
नवार्ककल्पं ददृशे मुरारेर्वक्षस्थलीकौस्तुभरत्नधाम ॥३५॥
अपह्नुताशेषमनोविकारं दिविस्पृशा तूर्यरवेण मिश्रम् ।
आकर्ण्य वैकुण्ठविलासिनीनां गीतध्वनिं हर्षमयासिषुस्ते ॥३६॥
आसक्तिमालक्ष्य विनीतवेषा स्वमौलिविन्यस्तकरास्सुरास्ते ।
आलोकयामासुरशेषनाथं सविग्रहं पुण्यमिव प्रजानाम् ॥३७॥
प्रवृद्धहेमाभरणप्रकाशं तमालनीलं जलधौ शयानम् ।
तटिल्लताढ्यं पयसोऽतिपानादनीशमुद्गन्तुमिवाम्बुवाहम् ॥३८॥
तरङ्गवातेन पयःपयोधेरापूर्यमाणं करपाञ्चजन्यम् ।
वामेन तिर्यग्वलता सलीलं सम्भावयन्तं मुहुरीक्षणेन ॥३९॥
प्रतिक्षणं प्रेमविशेषजाभिस्सम्भावनाभिः कमलासनायाः ।
पुराऽऽत्मना कल्पितमम्बुराशेः प्रमार्जयन्तं मथनावमानम् ॥४०॥
पर्यायतः पाणिधृतं सरोजं विन्यस्य विन्यस्य दृशोः पदव्याम्।
निद्रां प्रबोधं च मुहुर्न्नयन्तीं पद्मासनां सस्मितमीक्षमाणाम् ॥४१॥
स्वच्छस्वदेहप्रतिबिम्बितेन फणाश्मजालेन फणीश्वरस्य ।
भास्वत् फलस्तोमनिरन्तरस्य वहन्तमाभां वटपादपस्य ॥४२॥
अजस्रमासीनरथाङ्गशङ्खमतिप्रसन्नं कमलाधिवासम् ।
सन्तापविच्छेदकरं प्रजानां ह्रदं महीयांसमिवाभिगम्यम् ॥४३॥
वक्तुं मिथो राहुविचेष्टितानि कर्णद्वयाभ्यर्णमुपेयिवांसौ ।
अलब्धकालाविव भानुचन्द्रौ रथाङ्गशङ्खौ दधतं कराभ्याम् ॥४४॥
द्वारस्थसेनापतिचोदितेन निवारिताः कञ्चुकिमण्डलेन ।
सुराः प्रमोदस्खलितैर्वचोभिः स्थित्वैव ते व्योमनि तुष्टुवुस्तम् ॥४५॥
नमः परस्मै पुरुषाय तुभ्यं गिरां धियामप्यपथि स्थिताय ।
अस्मान् पुनस्त्रातुमुदग्रमोहान् कृपाबलात् कल्पितविग्रहाय ॥४६॥
भागीरथी पादकुशेशयात्ते विनिर्गता विश्वमिदं पुनीते ।
कस्त्वां पुनर्भावयतो जनस्य शुद्धिं परिच्छेत्तुमलं मनीषी ॥४७॥
अनन्तशक्तेरपविक्रियस्य तिस्रस्त्रिलोकीश्वर शक्तयस्ते ।
वितन्वते स्थावरजङ्गमानामुत्पादनक्षेमविलोपनानि ॥४८॥
कटाक्षमात्रेण भवाम्बुराशेः पारं परं प्रापयितुस्त्रिलोकीम् ।
सकृन्नमस्या परमातरस्ते यत्नानुरूपं हि फलं क्रियाणाम् ॥४९॥
त्वं ज्योतिरापस्त्वमसि त्वमुर्वी त्वं व्योम वैश्वानरसारथिस्त्वम् ।
त्वं जीववर्गः परमस्त्वमात्मा यन्नासि किं नाम जगत्पते तत् ॥५०॥
नवाभ्रवर्णं नलिनायताक्षं पीताम्बरं हारकिरीटिनं त्वाम् ।
वयं तु सेवेमहि वीक्षमाणाः सायूज्यमन्विछति कः सुखार्थी ॥५१॥
अलं न निर्देष्टुमियत्तया त्वामशेषनाथ श्रुतिरग्रिमापि ।
स एव साक्षात्क्रियते पुनस्त्वमहो जितं नः सुकृतैरनल्पैः ॥५२॥
तृणाय मत्वा निखिलानि शार्ङ्गिन् पदानि वैधेयमनोहराणि ।
आवृत्तिशून्यं परमं पदं ते वाञ्छन्ति वैराग्यधना महान्तः ॥५३॥
इति स्तुतो देवगणेन देवो दयानिधिर्दानवकालरात्रिः ।
न्यषीददुत्थाय भरावभुग्ने भुजङ्गतल्पे भुवनैकनाथः ॥५४॥
विष्वक् स वैकुण्ठविलासिनीनां सलीलमान्दोलितचामराणाम् ।
निवारयन्नग्रकरारविन्दैः कोलाहलं काञ्चनकङ्कणोत्थम् ॥५५॥
प्रसादवत्या कमलासनादीन् सुरानशेषाननुगृह्य दृष्ट्या ।
उवाच वाचं दशनांशुपूरैः समेधयन् दुग्धमयं पयोधिम् ॥५६॥
अधिज्यकोदण्डधरो निषङ्गी सन्नाहवान् पाणिधृतैकबाणः ।
अयं समाजो भवतां द्विषद्भ्यो भयं समावेदयति स्फुटं मे ॥५७॥
अलं विलम्बेन दिवौकसस्तन्निवेद्यतामद्य कुतो भयं वः ।
अयं करो दुष्टवधोत्सुकं मे सुदर्शनं न क्षमते निरोद्धुम् ॥५८॥
इत्यूचिवांसं परमं पुमांसं नत्वा शिरोभिर्बहुशः सुरास्ते ।
आरूढहर्षातिशयाः स्वमर्थमारेभिरे वक्तुमशेषमेव ॥५९॥
निवार्य सर्वानपि वक्तुकामान् सेनापतिस्तानमरान् करेण ।
सविभ्रमप्रेरितया पुरस्थं दृष्ट्या सरोजासनमाजुहाव ॥६०॥
अथागतस्तेन करे गृहीत्वा नीतः प्रभोरन्तिकमब्जयोनिः ।
वक्तुं नियुक्तः स कृतप्रणामो विज्ञापयामास विनीतवेषः ॥६१॥
वयं त्वया दत्तविभूतयोऽपि मोहातिरेकादभिमन्यमानाः ।
कृच्छ्रे पुनस्त्वां शरणं व्रजन्तः हा निस्त्रपाणां प्रथमे भवामः ॥६२॥
अपारदुःखार्णवपोतपात्रीं त्वया कृपामुद्वहतातिगुर्वीम् ।
कृतघ्नताजन्मभुवाममीषामस्माकमर्थे न किमन्वभावि ॥६३॥
मनस्विलोकस्य विगर्हणीये प्रतिग्रहे वर्जयता जुगुप्साम् ।
पुरा पुरस्ताद्बलिदानवस्य प्रसारितो नाग्रकरस्त्वया किम् ॥६४॥
दैत्याधिराजेन हिरण्यनाम्ना पर्याकुलं त्रातुमशेषलोकम् ।
इदं तु दिव्यं परिहृत्य रूपं न त्वं किमासीर्नरतिर्यगात्मा ॥६५॥
स्वविक्रमाक्रान्तसुरासुरस्य रक्षःपतेर्निग्रहणादरेण ।
भूत्वा सुतः पङ्क्तिरथस्य राज्ञस्तां तामवस्थां न किमन्वभूस्त्वम् ॥६६॥
अनेकधा पालयितारमेवं संप्रत्यपि त्वां शरणं प्रपन्नाः ।
सन्तापहारी ननु चातकानां भूयोऽपि भूयोऽपि पयोद एव ॥६७॥
विश्वं विदन्नप्यविदन्निव त्वं नाथानुयुङ्क्षे भयहेतुमस्मान् ।
अनुग्रहस्यैतदपि प्रभूणां प्रायः प्रकारान्तरमाश्रितेषु ॥६८॥
तपोभिरुग्रैर्भगवन् सुराणामवध्यभावं दनुजाः प्रपन्नाः ।
पातालमुर्वीं च विजित्य दर्पादुपक्रमं ते दिवमद्य जेतुम् ॥६९॥
न जातु शून्यः कुलिशेन पाणिर्वक्षो न मुक्तं मणिकङ्कटेन ।
शक्रस्य दैत्यागतिशङ्किनोऽस्य नासज्जितस्तिष्ठति वारणेन्द्रः ॥७०॥
दण्डं यमात्पाशमपामधीशाद्गदां कुबेरात्कुलिशं मघोनः ।
आदातुकामः प्रहिणोति दूतान् कंसः स्वदोर्विक्रमनिर्जिताशः ॥७१॥
रणे विनिर्जित्य बलं सुराणां पराक्रमेणाप्रतिमेन वीरः ।
भोजेश्वरः क्रीडति सावरोधो मूलेषु संप्रत्यमरद्रुमाणाम् ॥७२॥
धनुर्धराध्यासितवप्रशीर्षाः द्वाःपालनव्यग्रसमग्रयोधाः ।
प्रवीरनिर्भर्त्सितकान्दिशीका स्थातुं न जानाति पुरी सुराणाम् ॥७३॥
हाहेति विक्रोशदनाथमेतद्विश्वं जगत्पीडयतः प्रकामम् ।
त्वया विनाऽन्यस्त्रिषु विष्टपेषु न कर्तुमीष्टे नरकस्य भङ्गम् ॥७४॥
प्रलम्बकेशिप्रमुखास्तथान्ये परस्सहस्रं परियन्ति दैत्याः ।
निर्घातकल्पैर्निजसिंहनादैर्विदारयन्तो वियदाहवेषु ॥७५॥
षट् सूनवस्सन्ति हिरण्यनाम्नो दैत्यस्य पातालतलाधिवासैः ।
तैर्न्नः क्रियन्ते दुरितानि यानि वक्तुं न शक्यानि मुकुन्द तानि ॥७६॥
तेषां महीध्रप्रतिमाकृतीनां भारं मही सोढुमसावशक्ता ।
अस्मान् पुरस्कृत्य भवत्सकाशं प्राप्ता निजक्लेशनिवेदनाय ॥७७॥
तदेतदावेदनमस्मदीयं श्रुत्वा प्रमाणं प्रभुरित्युदीर्य ।
विधिर्व्यरंसीद्विहितप्रणामः स चापि गम्भीरमुवाच देवः ॥७८॥
अलं विषादेन दिवौकसो वः समीहितं हस्तगतं मनुध्वम् ।
व्रतं हि मे केवलमेतदेव संरक्षणं यच्छरणागतानाम् ॥७९॥
मामर्थयन्ते वसुदेवपत्न्यौ पत्नी च नन्दस्य सुतं गुणाढ्यम् ।
अंशद्वयेन व्रतकर्शिताङ्गीस्तिस्रोऽपि ताः पुत्रवतीर्विधास्ये ॥८०॥
इयं च लोकत्रितयस्य माता मायाभिधाना मम शक्तिरग्र्या ।
कार्याणि वः कान्यपि कर्तुकामा जनिष्यते जन्मविनाशशून्या ॥८१॥
तद्गच्छत स्वर्गमपेतखेदाः न कालहानिः परिशङ्कनीया ।
अनेन शार्ङ्गेण शपे शरैर्वः सद्यो मनःशल्यमपाकरिष्ये ॥८२॥
इति तममरलोकं सान्त्वयित्वा स देवः
सपदि नवघनाभः पद्मनाभस्तिरोऽभूत् ।
स च विहितनमस्यस्तस्य वाचं प्रशंसन्
निजपदमभिपेदे हर्षपर्याकुलात्मा ॥८३॥
इति सुकुमारकृतौ कृष्णविलासकाव्ये प्रथमस्सर्गः ॥१॥
N/A
References : N/A
Last Updated : January 23, 2014
TOP