श्रीकृष्णविलासकाव्यम् - चतुर्थः सर्गः

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.


स रोहिणीसूनुनिबद्धरागः सतां शरण्यस्तमसोऽपहर्ता ।
मनोहरो बाल इवौषधीशो दिने दिने पोषमियाय शौरिः ॥१॥

त्यक्त्वा हरिः स्तैन्यकृतापवादं तच्छैशवं प्राप्य दशान्तरं सः ।
मन्ये तदंहःपरिमार्जनाय गवां परित्राणसमुद्यतोऽभूत् ॥२॥

पुत्रे तथोद्योगिनि नन्दगोपो गोपालपुत्राननुनीय सर्वान् ।
त्रातुस्त्रयाणामपि विष्टपानां संरक्षणे तस्य समादिदेश ॥३॥

मात्रा कृतस्वस्त्ययनः प्रभाते पित्रा परिष्वज्य चिरं विसृष्टः ।
सहैव रामेण समग्रहर्षः विनिर्ययौ विश्वपतिर्वनाय ॥४॥

स प्रातराशी व्यतिषक्तपाणिर्यष्टिं वहन्नंसविषक्तशृङ्गः ।
विमुच्यतां गौरिति सम्भ्रमेण गच्छन् प्रतिद्वारमवोचदुच्चैः ॥५॥

निशम्य तस्य ध्वनिमूर्ध्वकर्णाः विलूनपाशा भृशमुत्सुकिन्यः ।
वत्सानपि स्वाननवेक्ष्य गावः ससम्भ्रमं निर्ययुरालयेभ्यः ॥६॥

गत्वा पुरस्ताद्गजराजगामी गोष्ठं गरिष्ठो गुणमण्डलेन ।
आपूरयन्मित्रगणागमार्थं पित्रोरभीष्टेन सहैव शृङ्गम् ॥७॥

नभस्स्पृशा कर्णपथं गतेन तेनैव संज्ञागवलस्वनेन ।
आदाय तत्तत्परिबर्हजातं सद्यो गृहेभ्यः सुहृदो निरीयुः ॥८॥

गवां खुरन्याससमुद्भवेन विषाणसङ्घट्टनजन्मना च ।
प्रसर्पता दिक्षु महास्वनेन घोषः क्षणं घोषमयो बभूव ॥९॥

प्रधावनैरुत्प्लुतिभिस्सुदूरं मिथो बलाद्ग्राहविमोचनैश्च ।
समागतैस्तत्र समं सुहृद्भिर्बहुप्रकारं विजहार शौरिः ॥१०॥

परेण हर्षेण पुराणपुंसः सङ्क्रीडमानस्य समं सुहृद्भिः ।
पवित्रयामास पदाम्बुजोत्थिता करीषधूलिः ककुभां मुखानि ॥११॥

महर्षयस्तत्र महानुभावाः गृहीतरूपान्तरदुर्न्निरूपाः ।
भवाग्निसन्तापहरे ममज्जुः पदोत्थिते तस्य परागपूरे ॥१२॥

प्रहर्षमालोकयतां जनानां क्रीडाभिरापाद्य मनोहराभिः ।
उत्थापयामास स चीत्कृतेन गोष्ठे हरिर्गोसमजं शयानं ॥१३॥

तस्मिन् गवां पालनकौतुकेन वनाय निर्गछति दैत्यशत्रौ ।
ययुः प्रियाख्यानचिकीर्षयेव दिवाकृतो दिग्वलयं मयूखाः ॥१४॥

कूलद्रुमाणां कुसुमानि धून्वन् कर्षन् पयश्शीकरमण्डलानि ।
कृष्णं कृतानेकविहारखिन्नं यान्तं सिषेवे यमुनासमीरः ॥१५॥

परस्य पुंसः पदपङ्कजाभ्यां प्रवेक्ष्यतो गोकुलपालनाय ।
चकार नीहारहरैर्मयूखैः प्रवेशयोग्यानि वनानि भानुः ॥१६॥

प्रेम्णा परित्यक्तुमशक्नुवन्तं बद्धाञ्जलिं बन्धुजनं निवार्य ।
रामं पुरस्कृत्य समित्रवर्गः विवेश विष्णुर्विपिनान्तराणि ॥१७॥

अरण्यभूमीरवगाहमानं तमातपक्लान्तमवेक्षमाणः ।
पक्षातपत्रेण परिस्तृतेन वियत्यसेविष्ट विहङ्गराजः ॥१८॥

मा गच्छ गङ्गे यमुने क्व यासि किं तत्र गोदावरि धावसीति ।
न्यषेधि तत्तद्व्यपदेशपूर्वं मार्गच्युतं गोकुलमच्युतेन ॥१९॥

प्ररूढसुस्निग्धतृणाङ्कुरासु छायाद्रुमश्यामलितान्तरासु ।
गवां कुलं तत्सुलभोदकासु प्रचारयामास वनस्थलीषु ॥२०॥

साटोपमान्दोलितलम्बसास्नाः गावश्चरन्त्यो वलमानवालाः ।
त्रुट्यत्तृणस्तोमचटत्कृतिन्यः चक्रुः प्रियं चेतसि चक्रपाणेः ॥२१॥

हरिन्मणिश्यामरुचीनि तत्र स्वैरं चरन्तीषु तृणानि गोषु ।
शौरिः स्वयं भुक्त इवाप तृप्तिं तृप्यन्त्युदाराः परतर्पणेन ॥२२॥

सर्वासु कण्डूयनलिप्सयोच्चैरुन्नम्य कण्ठं दधतीषु गोषु ।
बालो हरिर्बाहुसहस्रशून्यं जन्मात्मनो निष्फलमेव मेने ॥२३॥

परिभ्रमद्गोकुलमुग्रकोपं समुच्चलद्धूलिरटद्विषाणम् ।
स युद्धमुक्ष्णां मदनिर्भराणां प्रविश्य मध्यं शमयाञ्चकार ॥२४॥

शाखाकराग्रैरवलम्ब्य पृथ्वीं निषेदुषः पुष्पफलावनम्रान् ।
तत्र द्रुमान् सादरमीक्षमाणो जगाम तृप्तिं न कदाऽपि शौरिः ॥२५॥

अलक्ष्यमूलान्यतिविप्रकर्षाद् घोषानुमेयस्खलितोदकानि ।
उत्तुङ्गरोधस्तरुमण्डलानि निम्नानि दृष्ट्वा नितरां स रेमे ॥२६॥

अतुच्छगुच्छस्तनभारनम्राः लताः प्रवालाधरलोभनीयाः ।
स तत्र वीक्ष्य भ्रमरालकाढ्यास्तामस्मरत्तामरसाधिवासाम् ॥२७॥

समुत्सुकं सागरकन्यकायामाक्रष्टुमन्तःकरणं मुरारेः ।
सर्वस्य वेत्ता सरसां स वाचं सङ्कर्षणस्सादरमित्युवाच ॥२८॥

अन्तस्समीरभ्रमणप्रसङ्गादुदीर्णनादेन गुहामुखेन ।
भूयः प्रयुङ्क्ते पृथिवीधरस्ते गोवर्धनः स्वागतमेष शौरे ॥२९॥

निशम्य गोवर्धननिर्झराणां धीरध्वनिं कृष्णशिखण्डिनोऽमी ।
मुदा त्वदालोकनजातयेव नृत्यन्ति चक्रीकृतबर्हभाराः ॥३०॥

पादाविमौ सञ्चरणाय नालमत्रेति मत्वा मृगयूथमेतत् ।
स्वलोचनांशुस्तबकापदेशान्नीलोत्पलैर्भूमिमिवास्तृणाति ॥३१॥

विकीर्य विष्वग्विपिनद्रुमाणां मधूनि पुष्पस्तबकच्युतानि ।
अर्कांशुतप्तामनिलो धरित्रीं सञ्चारयोग्यां भवतो विधत्ते ॥३२॥

न भीतिरन्तर्न दृशोश्चलत्वं नास्था तृणेनोत्सुकताऽपि शाबे ।
रूपेण दामोदर मोहितास्ते तिष्ठन्त्यमी काष्ठकृता इवैणाः ॥३३॥

तेनेति सन्दर्शितमग्रजेन मनोहरं तत्तदवेक्षमाणः ।
गाश्चारयन् शाद्वलिनीषु भूषु रेमे रमाया रमणः प्रकामम् ॥३४॥

तं तत्र दृष्ट्वा महनीयरूपं शौरिं शबर्यश्चरितार्थनेत्राः ।
फलोपहारैरुपसृत्य वन्यैरवादिषुः प्रश्रयशोभि वाक्यम् ॥३५॥

इतः पदं नः शरपातमात्रं यायास्सहानेन सुहृद्गणेन ।
अत्रागमिष्यन्ति किरातपुत्राः गवाममूषां परिपालनाय ॥३६॥

व्याधाहृतैर्वारणकुम्भगर्भात् मुक्ताफलैरामलकाभिरामैः ।
प्रसाधनं त्वां भुवनत्रयस्य प्रसाधयिष्यन्ति किरातकन्याः॥३७॥

कन्याऽस्ति काचिच्छबरेश्वरस्य या नः कुलानामधिदेवतेव ।
तां सर्वथा दास्यति ते स राजा महान्त्यनर्घाणि च यौतकानि ॥३८॥

इत्यूचिषीणां शबराङ्गनानामत्यादरं चेतसि वीक्षमाणः ।
कृष्णः कृपानिघ्नमनास्स वाचमित्याह लज्जामृदुना स्वनेन ॥३९॥

पित्रोरनुज्ञामधिगम्य भद्राः समीहितं वः सकलं विधास्ये ।
मयि स्थिते तिष्ठति गोकुलं तद्गच्छामि मा भूत विषादवत्यः ॥४०॥

गते पुलिन्दीरिति सान्त्वयित्वा तदिष्टभङ्ग्व्यथिते मुकुन्दे ।
फलापचायादिषु निस्पृहास्ताः शनैर्ययुः पक्कणमेव खिन्नाः ॥४१॥

विहृत्य गर्भेषु लतागृहाणां निपीय वारीणि च पल्वलानाम् ।
फलानि चास्वाद्य महीरुहाणां वनानि धन्यानि चकार शौरिः ॥४२॥

अथाधिरूढे गगनस्य मध्यं दिवाकरे दुःसहभानुजाले ।
घर्माकुलं गोकुलमीक्षमाणः हलायुधः प्राह रथाङ्गपाणिम् ॥४३॥

किञ्चित्परिम्लानलताप्रवालस्तृणाङ्कुरभ्रान्तकुरङ्गयूथः ।
अह्नः परित्यक्तजनप्रचारः प्रवर्तते मध्यम एष भागः ॥४४॥

कुलानि वीक्षस्व विहङ्गमानां पक्षान्तरस्थापितशाबकानि ।
कठोरमेनं गमयन्ति कालं नीडेषु निद्रालसलोचनानि ॥४५॥

प्रायः कठोरातपपीडयेव छायाः परित्यक्तबहिर्विहाराः ।
आलोकयाध्वन्यजनेन सार्द्धमध्यासते मूलमनोहकानां ॥४६॥

करैरसह्यैरयमंशुमाली तपन् महीमुग्र इव क्षितीशः ।
आशंसितापत्प्रसरः प्रजाभिर्धत्ते दशामद्य विगर्हणीयाम् ॥४७॥

विहृत्य कान्तारमहीषु वेगाद्व्रजन्नपः पुष्करिणीषु पातुम् ।
मार्गे करीन्द्रः करशीकरेण प्रियामसावुक्षति तापखिन्नाम् ॥४८॥

तप्तानि भासा तपनस्य हंसाः विहाय वारीणि नखंपचानि ।
पत्रेषु विन्यस्य पदानि मन्दं पद्माकरे सम्प्रति पर्यटन्ति ॥४९॥

निगूढमीनग्रहणाभिसन्धिं कृछ्रेण मुक्त्वा कपटासिकां स्वाम् ।
अमी बकोटास्तपनांशुतापात्तटीनिकुञ्जं तरसा विशन्ति ॥५०॥

तदेहि यामस्तरुषण्डमेतद् घर्माकुलं गोकुलमानयामः ।
अत्रैव विश्रम्य मुहूर्तमात्रं भूयोऽपि गावः प्रचरन्त्वरण्ये ॥५१॥

इतीरितं तत्समयानुरूपं वाक्यं समाकर्ण्य हलायुधस्य ।
आर्यो यथाज्ञापयतीति कृष्णस्तं राममुक्त्वा तरुषण्डमाप ॥५२॥

अलब्धमार्ताण्डकरप्रवेशमारामकल्पं तरुषण्डमेत्य ।
आनेतुकामः स गवां कुलं तदासज्जयामास मुखेन वेणुम् ॥५३॥

सलीलमीषत्परिवृत्तपादं सविभ्रमोदञ्चितसव्यनेत्रं ।
कृष्णस्य वंशार्पितपाटलोष्ठं वीक्ष्य स्थितं विस्मयमाप लोकः ॥५४॥

तत्र स्थितं तामरसायताक्षं तापिञ्छवर्णं शिखिपिञ्छचूडं ।
तमेव पश्यन्ननिमेषतायाः फलं प्रपेदे सुरसिद्धसङ्घः ॥५५॥

स्थितस्त्रिभङ्ग्या विवरेषु वेणोर्व्यापारयन्नङ्गुलिपल्लवानि ।
जगत्त्रयीमोहविधानदक्षमुत्थापयामास स नादमुच्चैः ॥५६॥

अथोत्थितानन्दनिमीलिताक्ष्यः विलूनदूर्वाङ्कुरलाञ्छितास्याः ।
गावस्तदभ्याशमुपेत्य तस्थुः निस्पन्ददेहा निभृतैः श्रवोभिः ॥५७॥

नैसर्गिकं वैरमपत्यसङ्गस्तृष्णा बुभुक्षा कुसुमायुधश्च ।
तद्वेणुनादश्रुतितत्पराणां नालं विधातुं विकृतिं तिरश्चाम् ॥५८॥

तस्मिन् मनोहारिणि चक्रपाणेर्वनान्तरे मूर्छति वंशनादे ।
विधीयमानं परिहृत्य कर्म सर्वेऽपि सत्वा लिखिता इवासन् ॥५९॥

प्रवृत्तमात्रौ वनपद्मिनीषु दातुं गृहीतुं च मृणालभङ्गम् ।
चक्राह्वयस्तद्गृहमेधिनी च प्रसार्य चञ्चू परमासिषाताम् ॥६०॥

उपाविशन्नुज्झितचापलानि स्वजानुविन्यस्तकराननानि ।
निष्पन्ददृष्टीनि वनद्रुमाणां शाखासु शाखामृगमण्डलानि ॥६१॥

पद्भ्यामवष्टभ्य महीमुभाभ्यां सद्यस्समुत्तम्भितपूर्वकायः ।
सिंहः करीन्द्राक्रमणे प्रवृत्तस्तस्थौ तथा कृत्रिमसिंहकल्पः ॥६२॥

सिद्धाः कलत्राणि लतागृहेषु समुद्यताः पाययितुं मधूनि ।
करद्वयोदञ्चितरत्नपात्राः निषेदुरालेख्यमिव प्रपन्नाः ॥६३॥

तद्वंशनालाच्च्युतमच्युतस्य गेयामृतं साधु निषेव्य वृक्षाः ।
चिरं जराजर्जरितत्वचोऽपि बाला इवासन्नवपल्लवाढ्याः ॥६४॥

नादेन वेणोर्विवशीकृतानां विद्याधराणां गलिताः करेभ्यः ।
गतिर्भवास्माकमपीति नूनं वीणा निपेतुर्मधुविद्विषोऽग्रे ॥६५॥

स्ववेणुनादेन स जीवलोकमित्थं परानन्दमयं विधाय ।
प्रभुर्व्यरंसीदमराश्च सर्वे सुप्तोत्थितानां स्थितिरन्वभूवन् ॥६६॥

प्रत्यागते चेतसि ते विदित्वा प्रभ्रश्य हस्तात् पतिता विपञ्चीः ।
पुनर्न्न चक्रुः प्रतिपन्नलज्जाः विद्याधरास्तद्ग्रहणाभिलाषम् ॥६७॥

मधुव्रतानां ध्वनिभिर्मनोज्ञैर्वाचालयन्ती वलयं दिशानाम् ।
प्रसूनवृष्टिः सुरसिद्धमुक्ता पपात मौलौ परमस्य पुंसः ॥६८॥

अवर्षि केनायमदृष्टपूर्वः प्रसूनराशिस्तव मूर्धनीति ।
पृष्टो विहस्याह विभुस्सहायान् ज्ञानं भवद्भोऽपि कथं ममेति ॥६९॥

विषह्यतां याति विवस्वदंशौ विश्रान्तमुत्थाप्य गवां स पुञ्जम् ।
भूयस्तृणाश्यामलभूतलेषु प्रारब्ध सञ्चारयितुं वनेषु ॥७०॥

ततः परिक्षीणसहस्रभानोरशाम्यदूष्मा दिवसस्य तीव्रः ।
यथा विनाशे धनसञ्चयस्य महावलेपो धनिनो जनस्य ॥७१॥

प्रभाकरे पाटलभासि दूरं दिशं प्रतीचीमवगाहमाने ।
आलोक्य रामः परिणाममह्नो दामोदरं सादरमित्युवाच ॥७२॥

आविर्भवन्मन्दमरुत्प्रचारा शान्तातपा निर्वृतसर्वसत्वा ।
विरामवेला दिवसस्य शौरे प्रवर्तते पश्य मनोभिरामा ॥७३॥

शिरोभिरूढेन्धनशाकमूलाः स्वयूथ्यमुच्चैःस्वरमाह्वयन्तः ।
वनेचरा वीक्ष्य विराममह्नः समारभन्ते सहसैव गन्तुम् ॥७४॥

शतं शतं व्योमनि बद्धमालाः शात्कारवाचालविलोलपक्षाः ।
व्रजन्ति लक्ष्मीकृतवासवृक्षाः मनोजवाः पश्य पतत्रिणोऽमी ॥७५॥

भुवः परागे बहुशो लुठित्वा प्रविश्य नीडं कलविङ्गयूथम् ।
धिनोत्यपत्यानि बुभुक्षितानि ग्रासेन चञ्चूपुटसञ्चितेन ॥७६॥

तदेहि शौरे तपनव्यपायात्प्रागेव यामः पदमस्मदीयम् ।
इयं क्षतिः श्वभ्रतटेन पश्चाद्दुःसञ्चरा लुब्धकनिर्मितेन ॥७७॥

श्रुत्वेति रामस्य गिरं मुरारिः अस्त्वेवमित्यादरपूर्वमुक्त्वा ।
सह प्रतस्थे स च मित्रवर्गैः प्रचण्डश्रृङ्गध्वनिपूरिताशैः ॥७८॥

सहप्रयाणाय कृतत्वराणामूधोभराद्दूरविलम्बिनीनाम् ।
स तत्र तत्र प्रतिपाल्य तस्थौ प्रीतो गवामागमनं मुकुन्दः ॥७९॥

समावृतो गोपजनेन नन्दः गोपाङ्गनाभिश्च वृता यशोदा ।
अतिष्ठतामध्वनि लोचनाभ्यां पुत्रागतिप्रेक्षणसस्पृहाभ्याम् ॥८०॥

चकार कर्णेषु तयोः प्रमोदं दामोदरापूरितशृङ्गनादः ।
दिवि प्रसर्पन्नथ पांसुपूरः नेत्रेषु पीयूषमिवाभ्यवर्षत् ॥८१॥

तौ धूसराङ्गौ रजसा कुमारौ गत्वा स नन्दः परिरभ्य गाढम् ।
आत्मानमानन्दसमुद्रमग्नं नालं समुद्धर्तुमभून्मुहूर्तम् ॥८२॥

उत्पत्य धावद्भिरुदस्तशस्त्रैः क्ष्वेलारवक्षोभितदिग्विभागैः ।
आभीरवीरैस्स वृतः प्रपेदे व्रजं समाकर्णिततूर्यघोषम् ॥८३॥

चाटूक्तिभिः पार्श्वचरानशेषान् विसृज्य गोपान् सहितस्स मित्रैः ।
विवेश कृष्णो भवनं दिनान्ते समुज्वलन्मङ्गलदीपिकाभिः ॥८४॥

कामं दिवा कर्णपथं गतेन नीताः प्रियं वेणुरवेण विष्णोः ।
प्रतिप्रियं चक्रुरमुष्य सायं गावः पयोदोहननिःस्वनेन ॥८५॥

अनुदिनमिति कुर्वन् पालनं गोकुलस्य
क्षणमिव दिवसानि क्रीडया यापयन् सः ।
अखिलमपि धरित्रीभारमभ्युद्धरिष्यन्
अरमत सह शौरिस्तत्र सङ्कर्षणेन ॥८६॥

इति सुकुमारकृतौ कृष्णविलासकाव्ये चतुर्थः सर्गः ॥४॥

N/A

References : N/A
Last Updated : January 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP