श्रीकृष्णविलासकाव्यम् - तृतीयः सर्गः

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.


प्रातः प्रलम्बप्रमुखानमात्यान् सर्वान् समाहूय स भोजराजः ।
सविभ्रमप्रेरितदृष्टिदत्ते स्थाने निषण्णानवदद्विनीतः ॥१॥

सन्दिह्य मोहाद्वसुदेववाक्यं मया प्रमाणीकृतभूतवाचा ।
हता नृशंसेन सुता भगिन्यास्तेनाविलं मे हृदयं यशोऽपि ॥२॥

जातां पुनः काञ्चनकाञ्चनाभां सुतां गतायुर्न्निशि हन्तुमैच्छम् ।
उत्प्लुत्य सा व्योम्नि जवादतिष्ठत् शस्त्रोत्कटा दर्शितदिव्यरूपा ॥३॥

नियम्य सा मातुल इत्यमर्षं प्रसेदुषी मामवदच्च बाला ।
अरिर्महीयानजनिष्ट भूमौ तवोचितं संप्रति चिन्तयेति ॥४॥

व्याहृत्य मां द्यां प्रति देवनारीगणैर्गतायामिति सेवितायाम् ।
देव्यामहं दुश्चरितं स्वमेव स्मरन् विनिद्रो रजनीमनैषम् ॥५॥

युद्धेषु देवा पुरुहूतमुख्याः भग्ना मया स्थातुमशक्नुवन्तः ।
अश्वान् परित्यज्य विमुच्य नागान् मुक्त्वा च शस्त्राणि दिशो द्रवन्ति ॥६॥

तदेषु नैकोऽपि भुवं गतो मे शक्नोति कर्तुं प्रतिकूलभावम् ।
महीयसः किं घटते परागः समीरणस्याभिमुखं प्रसक्तुम् ॥७॥

किमन्यदार्ताभ्यवपत्तिकामः सुरेषु सन्दर्शितपक्षपातः ।
अजायतोर्व्यामसुरान्निहन्तुं स एव मन्ये सरसीरुहाक्षः ॥८॥

सर्वे वयं दैत्यकुलप्रसूताः केनापि जाता भुवि कारणेन ।
स तेन सन्नह्यति जेतुमस्मानुक्तोऽयमर्थः किल नारदेन ॥९॥

अतस्तदुच्छेदविधौ विनिद्राः यतध्वमद्यैव बलानुरूपम् ।
नखाग्रलाव्यस्तरुरङ्कुरात्मा परश्वधस्यापि ततोऽतिभूमिः ॥१०॥

यस्मिन् भवत्याश्रितवत्सलत्वं विप्रेषु यस्यास्ति विशेषसङ्गः ।
मनोहरं यश्च बिभर्ति रूपं वधं स बालोऽर्हति मत्सकाशात् ॥११॥

मखाश्च तत्प्रीतिकृतो निवार्याः निवारणीया श्रुतिरग्रिमाऽपि ।
तृणीकृताशेषजनप्रभावा संस्थौति या तन्महिमानमेव ॥१२॥

गते विरामं गरुडध्वजेऽस्मिन् मखेषु सर्वत्र निवारितेषु ।
सुरेषु सर्वेष्वपि दुर्बलेषु हस्ते भविष्यत्यमरावती नः ॥१३॥

इत्यूचुषस्तस्य पदोपकण्ठं नीराजयन्तो मकुटप्रभाभिः ।
अवादिषुर्विक्रमदर्पितास्ते कृताट्टहासध्वनिकम्पिताशाः ॥१४॥

किं चिन्तया पार्थिव भुङ्क्ष्व भोगानस्मासु जीवत्सु कुतो रिपुस्ते ।
कथं मयूखेषु परिस्फुरत्सु सरोजबन्धोस्तमसाभिभूतिः ॥१५॥

अमातरिश्वानमहव्यवाहं असूर्यशीतांशुमवज्रपाणिम् ।
अनच्युतेशानपितामहं च द्रष्टासि राजन्नचिरेण लोकम् ॥१६॥

इत्यूचुषस्तानुचितोपहारैः सम्भाव्य कृत्येषु समादिदेश ।
स देवकीमानकदुन्दुभिं च विमोचयामास च बन्धनस्थौ ॥१७॥

लब्ध्वा निधानं न तथा दरिद्रो गतिं समासाद्य तथा न पङ्गुः ।
तथा न चान्धो दृशमाप्य हृष्येद्यथाप्तपुत्रः स जहर्ष नन्दः ॥१८॥

तपने चरमाचलं प्रपन्ने तमसा च स्थगितेषु दिङ्मुखेषु ।
यमुनातटवासिनं तमूचे वसुदेवः प्रतिपद्य नन्दगोपं ॥१९॥

तपसा तव नन्दगोप मन्ये फलितं जन्मसहस्रसञ्चितेन ।
ऋणमन्त्यमपोहितुं त्वदीयं यदयं पुत्रनिधिः समाविरासीत् ॥२०॥

इह खेलति पूतनेति कृत्या शिशुहत्यानिरता पुरोपकण्ठे ।
तदहर्न्निशमत्र रक्षणीयो नयनानन्दकरः सुतस्त्वयाऽयं ॥२१॥

अथवा किमिवास्यते त्वयास्मिन्निजमुत्सृज्य पदं पुरोपकण्ठे ।
सविधे न वसन्ति बुद्धिमन्तो फणिनो वायुसखस्य भूपतेश्च ॥२२॥

प्रतिवेदि निविष्टपूर्णकुम्भं विलसत्तोरणमुज्ज्वलप्रदीपम् ।
व्रज गोकुलमाकुलं प्रजाभीभवदीयागमनप्रहर्षिणीभिः ॥२३॥

शिशुरस्ति ममापि रौहिणेयो भवदीये विषये विवर्धमानः ।
स च साधु निरीक्ष्य रक्षितव्यो वपुषा केवलमावयोर्हि भेदः ॥२४॥

इत्युक्त्वा गतवति देवकीसहाये संत्रस्तः कथमपि नीतरात्रिशेषः ।
आरोहत्युदयमहीधरस्य शृङ्गं तिग्मांशौ निजवसतिं प्रति प्रतस्थे ॥२५॥

सचकितमृगमण्डलानि कुर्वन् शकटशतध्वनिभिर्वनान्तराणि ।
प्रमुदितमथ गोकुलं प्रपेदे दिशि दिशि मारुतधूतकेतुमालम् ॥२६॥

निजवसतिमभिप्रपद्य तुष्टः किमपि न कर्म करोति नन्दगोपः ।
नवनलिनपलाशचारुनेत्रं वदनमहर्न्निशमात्मजस्य पश्यन् ॥२७॥

मुग्धभावमधुरेण रञ्जयन् शैशवेन हृदयं व्रजौकसाम् ।
गोकुले स विजहार केशवः क्षीरवारिनिधिमप्यचिन्तयन् ॥२८॥

वदनं मधुसूदनः कराभ्यां चरणाङ्गुष्ठमुपानयत् पिपासुः ।
गलितेव ततस्सुरस्रवन्ती नखमुक्तामणिदीधितिच्छलेन ॥२९॥

अमृतांशुरिवापरः प्रमोदं नयनानां जनयन् स पद्मनाभः ।
भवनं भवनात् करौ कराभ्यां व्रजयोषिद्भिरनीयताङ्कमङ्कात् ॥३०॥

अधः कदाचिच्छकटस्य शायितः स्वकार्यपर्याकुलया यशोदया ।
स लीलया पादसरोरुहं शनैरुदञ्चयामास सरोजलोचनः ॥३१॥

मधुभिदश्चरणाम्बुजताडितं शकटमाशु समुत्थितमम्बरे ।
विपरिवृत्य पपात महीतले पटुतरध्वनिपूरितदिङ्मुखम् ॥३२॥

शकटपतनजन्म नन्दमुख्याः स्तनितमिव ध्वनितं निशम्य गोपाः ।
किमिदमिति भयेन तत्र जग्मुस्त्वरितगतिच्यवमानकेशबन्धाः ॥३३॥

कुचकलशविलग्नपाणिपद्मा विगलितबन्धमनोज्ञकेशपाशा ।
सपदि सह सखीभिरन्वधावत् कलमणिनूपुरशिञ्जिता यशोदा ॥३४॥

कृतस्मितं क्वचिदपरिक्षतं सुतं विलोक्य तं प्रमुदितमानसा परम् ।
व्रजौकसां सविधनिवासिनां मुखाद्विसिस्मिये विदिततदीयविक्रमा ॥३५॥

स्रुतशोणितमेव मन्यमाना चरणं तस्य निसर्गपाटलं तत् ।
उदमार्जयदंशुकाञ्चलेन द्रुतमागत्य पुनः पुनर्यशोदा ॥३६॥

तिलकं मधुविद्विषो ललाटे रजसा गोमयजन्मना विधाय ।
उरसा परिरभ्य नन्दगोपः सुचिरं तस्य सुमङ्गलानि दध्यौ ॥३७॥

शकटं मधुसूदनस्य दृष्ट्वा चरणोदञ्चनविभ्रमेण भग्नम् ।
अथ वारिनिधेर्विवेश गर्भं स्वरथस्यापि विशङ्क्य भङ्गमर्कः ॥३८॥

परितःस्फुरता नवेन सन्ध्यामहसा पल्लवपाटलेन लिप्ताः ।
पतिता इव पावके विरेजुः ककुभो दुस्सहभानुविप्रयोगात् ॥३९॥

क्षुभितश्चिरमम्बराम्बुराशिः तपनस्यन्दनवाहनावगाहात् ।
स्फुरदुद्भटतारकापदेशात् सहसाऽऽकीर्यत फेनमण्डलेन ॥४०॥

अहिमरुचि रसातलं प्रविष्टे भयचकितः स्वविनाशमाकलय्य ।
तत इव तरसोत्पतन्नसीमा तिमिरभरः पृथिवीतलं प्रपेदे ॥४१॥

भूरन्तरिक्षं भवनानि रथ्याः वनानि शैलास्सरितस्समुद्राः ।
ध्वान्ते दिशां रुन्धति चक्रवालं व्यक्तं न केनापि किमप्यवेदि ॥४२॥

अथ प्रयाति प्रहरे यशोदा जने च किञ्चिन्निभृते सनिद्रे ।
पुत्रं पयःपानगुरुप्रमोदं प्रस्वापयन्ती कलमित्यगायत् ॥४३॥

कुन्दत्विषस्तालफलप्रकाशाः तापिञ्छवर्णास्तरुणार्कभासाः ।
प्रभूतदुग्धा नवनीतवत्यो गावस्सहस्रं तनय त्वदीयाः ॥४४॥

प्रियालखर्जूरसमग्रसानुः फलाढ्यरम्भावनशोभनीयः ।
ननूपभोगाय सुतायमास्ते गोवर्धनो नाम महीधरस्ते ॥४५॥

सरसिरुहवने गतेऽपि निद्रां कथमिव ते नयनाम्बुजे विनिद्रे ।
श्रुतिपरिचयशालिनो हि कर्म स्वजननिषेवितमेव संश्रयन्ते ॥४६॥

तद्ध्वनिश्रवणजातकौतुका बालजीवितविलोपविश्रुता ।
आजगाम गगनेन पूतना यातना तनुमतीव देहिनां ॥४७॥

साऽवतीर्य नभसो निशाचरी गूढमेव निषसाद कुत्रचित् ।
सा च सुप्त इव वीक्षिते सुते स्वापमाप सरसीरुहेक्षणा ॥४८॥

कृष्णमङ्कमधिरोप्य निर्दया दातुमारभत पूतना स्तनम् ।
यत्पयोधरमुखे मुखार्पणादायुषा शिशुजनो वियुज्यते ॥४९॥

पाञ्चजन्यमिव पूतनास्तनं पाणिपल्लवयुगेन पीडयन् ।
आननेन मधुशत्रुरान्तरानाददे स तु ततस्समीरणान् ॥५०॥

विप्रकीर्णकचबालपल्लवा भग्नबाहुविटपा निशाचरी ।
सा पपात भुवि घोरनिःस्वना मारुताहतमहीरुहोपमा ॥५१॥

झटिति व्यपनीतगाढनिद्रो महता तेन रवेण पूतनायाः ।
प्रतिपत्तुमियाय तां प्रवृत्तिं सह गोपालगणेन नन्दगोपः ॥५२॥

तस्याश्शरीरमधिरुह्य विचेतनायाः
क्रीडन्तमम्बुरुहलोचनमीक्षमाणाः ।
तस्थुस्समुन्मिषितविस्मयनिर्विकाराः
नासाधिरोपितकराङ्गुलयो मुहूर्तम् ॥५३॥

नन्दः प्रमृज्य नयने मुहुरश्रुपूर्णे
पुत्रं कृतान्तमुखनिर्गलितं निदध्यौ ।
दध्यौ च तस्य नितरामभिवृद्धिकामः
तत्त्वं परं स हृदयेन समाहितेन ॥५४॥

श्यामलः कमलपत्रलोचनो नीलकुन्तलभरः शुचिस्मितः ।
ध्यायतो मनसि तस्य सन्निधिं पुत्र एव विदधे पुनः पुनः ॥५५॥

न क्षमं भवति पुत्रवासनानिस्तरं हृदयमच्युतस्मृतौ ।
इत्यशेषदुरितापहारिणीरग्रजन्मभिरकारयत् क्रियाः ॥५६॥

पूतनाचरितभावनाभवं दारुणं हृदयदारणं पितुः ।
श्रीपतिः शमयति स्म वैशसं क्रीडितैरखिललोकमोहनैः ॥५७॥

स लोचने किञ्चिदुपान्तघूर्णिते निधाय मातुर्वदने शुचिस्मितः ।
पयोधरं पाणियुगावलम्बितं मनश्च तस्या मधुसूदनः पपौ ॥५८॥

पाणिजानुपरिचङ्क्रमश्रमस्वेदबिन्दुमधुरं मुखं वहन् ।
धूसरेण वपुषा जनार्दनो गोकुलं निखिलमन्वरञ्जयत् ॥५९॥

परिभ्रमन्तं भुवि पाणिजानुना गवामधस्तात्प्रविशन्तमेकदा ।
सुतं यशोदा गृहकृत्यतत्परा बबन्ध पाशेन बलादुलूखले ॥६०॥

जनो हि यः कर्म करोति यादृशं स सर्वथा तादृशमश्नुते फलम् ।
बलिः पुराऽबध्यत येन दानवः स लोकनाथोऽपि तदाप बन्धनम् ॥६१॥

निखिलभुवनमुक्तिदे मुरारौ भगवति गाढमुलूखले निबद्धे ।
परिशिथिलसमाधिराविरासीन्मनसि महामुनिमण्डलस्य हासः ॥६२॥

निषीद लोलेति निबध्य सस्मितं चकार कार्याणि चकोरलोचना ।
अनादरेण भ्रमयन्नुलूखलं विनिर्ययौ विश्वपतिः स्वमन्दिरात् ॥६३॥

उपेयिवांसौ ककुभद्रुमात्मतां महीयसा नारदशापतेजसा ।
अतिष्ठतामध्वनि कैटभद्विषः कुबेरपुत्रौ तरसैव रिङ्खतः ॥६४॥

स सन्निकृष्य स्थितयोः परस्परं महीरुहोर्मध्यपथेन निस्सरन् ।
गतेन तिर्यक्त्वमुलूखलेन तौ बभञ्ज दामोदरगन्धवारणः ॥६५॥

प्रपद्य दिव्यं वपुरम्बरस्थितौ विमुक्तशापौ धनदात्मजावुभौ ।
प्रणम्य भक्त्या पुरुषं पुरातनं मुदान्वितौ जग्मतुरन्तिकं पितुः ॥६६॥

नन्दादयः सपदि गोकुलवासिनस्ते
तद्भङ्गजन्म सुमहद्ध्वनितं निशम्य ।
अभ्येत्य भग्नपतितौ ककुभद्रुमौ तौ
तत्राक्षतं च ददृशुस्सरसीरुहाक्षं ॥६७॥

नन्दः समीक्ष्य दुरितानि बहूनि सद्भ्यः
दत्वा गवामयुतमात्मसुताभिवृद्ध्यै ।
सम्मन्त्र्य बन्धुभिरपास्य पदं तदाशु
वृन्दावनं प्रति ययौ शकटैरसङ्ख्यैः ॥६८॥

गत्वा स गोकुलपतिर्मनसोऽनुकूले
कूले कलिन्ददुहितुर्निदधे पदानि ।
रेमे च तत्र पुरुहूतपदाभिरामे
लीलायितानि तनयस्य निरीक्ष्यमाणः ॥६९॥

दधिनिर्मथने निरुद्यमा सा नवनीतश्रपणे गवां च दोहे ।
सुतकेलिहृतेक्षणा यशोदा क्षणकल्पानि निनाय वासराणि ॥७०॥

अनुयाति जिघृक्षयेव नन्दे तरसा रिङ्खणतत्परस्य विष्णोः ।
ललितालकवेल्लितानि रेजुर्मुखमात्रेण मुहुर्निवर्तितानि ॥७१॥

अन्तरा विहतिमद्भिरुत्थितैरस्फुटाक्षरपदाभिरुक्तिभिः ।
भङ्गुरैश्च परिरम्भणोद्यमैर्गोकुलं निखिलमन्वरञ्जयत् ॥७२॥

पश्य मातुलमिति प्रदर्शितं यामिनीषु गगने यशोदया ।
आजुहाव ललितेन पाणिना शीतभानुमरविन्दलोचनः ॥७३॥

आत्मनः प्रतिकृतिं विलोकयन् मातृहस्तमणिदर्पणोदरे ।
एहि मित्र किमिहेति कौतुकाद्व्याजहार शतपत्रलोचनः ॥७४॥

गौरवं कथमियं सहेत मे मेदिनीति कृपयेव चिन्तयन् ।
माधवः पतनभीतिमुद्वहन् मन्दमेव निदधे पदावलिं ॥७५॥

देवो निशासु हरिरङ्कगतो जनन्याः
शृण्वन् कथा मधुमुचो महताऽऽदरेण ।
मन्दं तदीयकरपल्लवताडितोरुः
सुष्वाप कुड्मलितलोचनपुण्डरीकः ॥७६॥

कौतुकेन पितुरग्रतो हरेर्धावतस्खलनमीक्षमाणया ।
मोदनिघ्नमनसा सलज्जया न स्थितं न चलितं यशोदया ॥७७॥

मुखडिण्डिमवादिना परीतो मधुजित् कौतुकिना सुहृद्गणेन ।
अधिरोपितवारणेन्द्रभावो ललिताभिर्गतिभिर्गृहेषु रेमे ॥७८॥

अथाभिवृद्धिं प्रतिपद्यमानो दध्यादिषु प्रीतिमुवाह शौरिः ।
तत्तत् प्रदानेन वशे विधातुमारेभिरे गोकुलयोषितस्तम् ॥७९॥

कुरुष्व नृत्तं नवनीतमूल्यं कृष्णेति साभ्यर्थनमूचिषीणाम् ।
व्रजाङ्गनानां स पुरस्सलीलमुदञ्चयामास पदारविन्दम् ॥८०॥

तासां मनःप्रीतिविधानदक्षे तथा क्षणं तस्थुषि शार्ङ्गपाणौ ।
एकाङ्घ्रिसंस्पर्शवियोगमात्रादधन्यमात्मानममन्यतोर्वी ॥८१॥

उदञ्चितं तस्य विलोक्य पादं वेधा पुनर्विक्रमशङ्किचेताः ।
कमण्डलुं पाणितलेन गृह्णन्नभ्युद्यतोऽभूदवनेजनाय ॥८२॥

नृत्तामृतं गोकुलयोषितस्तत् कृष्णस्य नेत्राञ्जलिभिः पिबन्त्यः ।
प्रीतिप्रकर्षस्तिमितैर्मनोभिरालेख्ययोषित्प्रतिमा बभूवुः ॥८३॥

विदुर्न तद्दर्शनपारवश्याद्दातुं करस्थं नवनीतमेकाः ।
विस्रस्य भूमौ पतितं तदन्याः न मेनिरे पाणिसरोरुहेभ्यः ॥८४॥

अजस्रमेवं भवनेषु तासां बभ्राम कृष्णो नवनीतभिक्षाम् ।
पुरा किलान्यैरनिवर्तनीया निवर्तिता येन हरस्य भिक्षा ॥८५॥

धिग्याचनां चौर्यभवस्य भूयानस्त्यंहसो निर्हरणाभ्युपायः ।
मत्वेति नूनं नवनीतचौर्ये मधोर्निहन्ता मतिमाबबन्ध ॥८६॥

निर्वाप्य दीपं मुखमारुतेन हैयङ्गवीनं निशि हर्तुमिच्छन् ।
कृष्णः कटीभूषणरत्नभासा विहन्यमानो विषसाद भूयः ॥८७॥

निपीडयन्नग्रपदेन पृथ्वीमुन्नम्य देहं भृशमूर्ध्वबाहुः ।
पयोघटस्पर्शनमश्नुवानस्त्रिविक्रमोऽभूत् परिहासपात्रम् ॥८८॥

नियमितश्वसितो निभृतैः पदैर्निशि कथञ्चन गर्भगृहं गतः ।
स तु भयादसमाप्तमनोरथो निववृते नवनीतहरो हरिः ॥८९॥

हर्तुं हरेर्व्यवसितस्य घने निशीथे
भूषारवश्रुतिभयाद्व्रजतोऽतिमन्दम् ।
अन्तर्गृहस्य नवनीतवतः प्रवेशात्
प्रागेव हन्त पथि सा रजनी विभाता ॥९०॥

गोपीसमागमभिया च तृषा च गुर्व्या
पातुं विहातुमपि गोपगृहेष्वजानन् ।
आद्वारमादधिघटं च गतागतानि
कुर्वन् सरोजनयनः श्रममेव लेभे ॥९१॥

भित्तिषु प्रतिशरीरदर्शनात् शङ्कितः स नवनीतनिःस्पृहः ।
किञ्चिदन्यदिव तत्र मार्गयन्निर्जगाम मणिमन्दिरोदरात् ॥९२॥

जिहीर्षुरन्तर्भवनेषु गोरसं दिनान्यनैषीत्तदुपायचिन्तया ।
स जागरूकश्च निनाय यामिनीं मनोहराभिर्हरणप्रवृत्तिभिः ॥९३॥

दृष्टेऽपि तत्सविधसञ्चरणे स तत्र
वक्तुं निमित्तमुचितं कृतनिश्चयस्सन् ।
अभ्यर्ण एव निदधे दधिभाजनस्य
लीलायितोपकरणानि निजानि शौरिः ॥९४॥

वहन् गृहीतो नवनीतमच्युतो भयेन पारिप्लवनेत्रपङ्कजः ।
पदा लिखन् भूमिमवाङ्मुखस्थितो जहार चेतोऽपि च गोपयोषिताम् ॥९५॥

शपे पितृभ्यामित ऊर्ध्वमेवं नाहं विधास्ये नवनीतचौर्यम् ।
विनिःश्वसन्नित्यभिधाय कृष्णो जहार मातुश्च पितुश्च चेतः ॥९६॥

एहि सद्म तनयेति सादरं याचितोऽपि स मुहुर्यशोदया ।
आननेन नवनीतगन्घिना नाजगाम विहरन्निवाच्युतः ॥९७॥

हृतं नवं मे नवनीतमालयात् हृतं घृतं मे दधि मे हृतं निशि ।
इति प्रभाते वचनानि योषितामुवाह श्रृण्वन् न मुखे स विक्रियाम् ॥९८॥

पुत्रं कुलस्य भुवनस्य च रक्षितार-
मभ्यर्थितोऽपि भगवानरविन्दनाभः ।
त्वां मे ददौ विधिवशाद्भुवनैकचोर-
मित्याह कोपमभिनीय सुतं यशोदा ॥९९॥

स सान्त्वनेन प्रतिपादनेन भेदेन तीव्रेण च तर्जनेन
निबद्ध्य पृष्टोऽपि मुहुर्जनन्या नाङ्गीकरोति स्म हरिः स्वचौर्यम् ॥१००॥

संरक्षणाय जगतामवतीर्य पृथ्व्यां
गोपालसद्मसु हरत्यखिलं मुकुन्दः ।
इत्थं निशम्य परिहासवचस्सुराणाम्-
अन्तर्जहास भगवानरविन्दनाभः ॥१०१॥

कृष्णस्य केलिसमरेक्षणकौतुकेन
गोपीषु मुक्तभवनासु बहिः स्थितासु ।
मित्रैः पराजित इव द्रुतमेत्य गेहं
बद्ध्वा कवाटमहरन्नवनीतमन्तः ॥१०२॥

त्रिभुवनमहनीयैरभ्युपायैरसङ्ख्यैः
निखिलमिति स मुष्णन् गोकुलं नन्दसूनुः ।
अरमत सवयोभिस्तत्र गोपालपुत्रै-
रपर इव शशाङ्कः प्राणिनां प्रीतिहेतुः ॥१०३॥

इति सुकुमारकृतौ कृष्णविलासकाव्ये तृतीयः सर्गः ॥३॥

N/A

References : N/A
Last Updated : January 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP