भक्तिरसायनम् - प्रथमोल्लासः
भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.
मधुसूदनसरस्वती विरचितम् ॥
नवरसमिलितं वा केवलं वा पुमर्थं
परममिह मुकुन्दे भक्तियोगं वदन्ति ।
निरुपमसुखसंविद्रूपमस्पृष्ट दुःखं
तमहमखिल तुष्ट्यै शास्त्रदृष्ट्या व्यनज्मि ॥१॥
संसार रोगेण बलीयसा चिरं
निपीडितैस्तत्प्रशमेऽतिशिक्षितम् ।
इदं भवद्भिर्बहुधा व्ययातिगं
निपीयतां भक्तिरसायनं बुधाः ॥२॥
द्रुतस्य भगवद्धर्माद् धारावाहिकतां गता ।
सर्वेशे मनसो वृत्तिर्भक्तिरित्यभिधीयते ॥३॥
चित्तद्रव्यं हि जतुवत् स्वभावात् कठिनात्मकम् ।
तापकैर्विषयैर्योगे द्रवत्वं प्रतिपद्यते ॥४॥
कामक्रोधभयस्नेहहर्षशोकदयाऽऽदयः ।
तापकाश्चित्तजतुनस्तच्छान्तौ कठिनं तु तत् ॥५॥
द्रुतचित्ते विनिक्षिप्तः स्वाकारो यस्तु वस्तुना ।
संस्कार वासना भाव भावना शब्दभागसौ ॥६॥
शिथिलीभावमात्रं तु मनो गच्छत्यतापकैः ।
न तत्र वस्तु विशति वासनात्वेन किञ्चन ॥७॥
द्रवतायां प्रविष्टं सद् यत् काठिन्यदशां गतम् ।
चेतः पुनर्द्रुतौ सत्यामपि तन्नैव मुञ्चति ॥८॥
स्थायीभावगिराऽतोऽसौ वस्त्वाकारोऽभिधीयते ।
व्यक्तश्च रसतामेति परानन्दतया पुनः ॥९॥
भगवान् परमानन्दस्वरूपः स्वयमेव हि ।
मनोगतस्तदाकारो रसतामेति पुष्कलम् ॥१०॥
कान्ताऽऽदि विषयेऽप्यस्ति कारणं सुखचिद्घनम् ।
कार्याकारतयाऽभानेऽप्यावृतं मायया स्वतः ॥११॥
सदज्ञातञ्च तद्ब्रह्ममेयं कान्ताऽऽदि मानतः ।
मायाऽऽवृति तिरोधाने वृत्त्या सत्त्वस्थया क्षणम् ॥१२॥
अतस् तदेव भावत्वं मनसि प्रतिपद्यते ।
किञ्च न्यूनाञ्च रसतां याति जाड्यविमिश्रणात् ॥१३॥
इति वेदान्तसिद्धान्ते स्थायिनो रसतोदिता ।
साङ्ख्यसिद्धान्तमाश्रित्याप्यधुना प्रितिपद्यते ॥१४॥
तमो रजः सत्त्व गुणा मोहदुःखसुखात्मकाः ।
तन्मयी प्रकृतिर्हेतुः, सर्वं कार्यञ् च तन्मयम् ॥१५॥
त्रिगुणात्मकमेकैकं वस्तु त्र्याकारमीक्ष्यते ।
निजमानससङ्कल्पभेदेन पुरुषैस्त्रिभिः ॥१६॥
कामिन्याः सुखता भर्त्रा सपत्न्या दुःखरूपता ।
तदलाभात् तथाऽन्येन मोहत्वमनुभूयते ॥१७॥
एवं सति सुखाकारः प्रविष्टो मानसे यदा ।
तदा स स्थायिभावत्वं प्रतिपद्य रसो भवेत् ॥१८॥
परमाण्वेकरूपं तु चित्तं न विषयाकृति ।
इत्यादि मतमन्येषामप्रमाण्यादुपेक्षितम् ॥१९॥
गृह्णाति विषयाकारं मनो विषययोगतः ।
इति वेदान्तिभिस्साङ्ख्यैरपि सम्यङ् निरूपितम् ॥२०॥
मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा ।
घटादि व्याप्नुवच्चित्तं तन्निभं जायते ध्रुवम् ॥२१॥
व्यञ्जको वा यथाऽऽलोको व्यङ्ग्यस्याकारतामियात् ।
सर्वार्थ व्यञ्जकत्त्वाद्धीरर्थाकारा प्रदृश्यते ॥२२॥
भगवत् पूज्यपादानामियमुक्तिः सयुक्तिका ।
तथा वार्तिककारैरप्ययमर्थो निरूपितः ॥२३॥
मातुर्मानाभिनिष्पत्तिर्निष्पन्नं मेयमेति तत् ।
मेयाभिसङ्गतं तच्च मेयाभत्वं प्रपद्यते ॥२४॥
एवं एतादृशं वाक्यमुदाहार्यमनेकशः ।
चित्तस्य विषयाकारग्राहकत्वोपपादने ॥२५॥
अतो मांसमयी योषित् काचिदन्या मनोमयी ।
मांसमय्या अभेदेऽपि भिद्यतेऽत्र मनोमयी ॥२६॥
भार्या, स्नुषा, ननान्दा च, याता, मातेत्यनेकधा ।
जामाता, श्वशुरः, पुत्रः, पितेत्यादि पुमानपि ॥२७॥
बाह्य पिण्डस्य नाशेऽपि तिष्ठत्येव मनोमयः ।
अतः स्थायीति विद्वद्भिरयमेव निरूपितः ॥२८॥
एवं सामान्यतो भावस्वरूपमभिवर्णितम् ।
विशेषेण तु सर्वेषां लक्षणं वक्ष्यते पृथक् ॥२९॥
भगवन्तं विभुं नित्यं पूर्णं बोधसुखात्मकम् ।
यद्गृह्णाति द्रुतं चित्तं किमन्यदवशिष्यते ॥३०॥
कठिना शिथिला वा धीर्न गृह्णाति न वास्यते ।
उपेक्षाज्ञानमित्याहुस्तद्बुधाः प्रस्तरादिषु ॥३१॥
काठिन्यं विषये कुर्याद्द्रवत्वं भगवत् पदे ।
उपायैश् शास्त्रनिर्दिष्टैरनुक्षणमतो बुधः ॥३२॥
उपायाः प्रथमस्कन्धे नारदेनोपवर्णिताः ।
संक्षेपात् तान् अहं वक्ष्ये भूमिभेदविभागतः ॥३३॥
प्रथमं महतां सेवा तद्दयापात्रता ततः ।
श्रद्धाऽथ तेषां धर्मेषु ततो हरिगुणश्रुतिः ॥३४॥
ततो रत्यङ्कुरोत्पत्तिस्स्वरूपाधिगतिस्ततः ।
प्रेमवृद्धिः परानन्दे तस्याथ स्फुरणं ततः ॥३५॥
भगवद्धर्मनिष्ठाऽतस्स्वस्मिन् तद्गुणशालिता ।
प्रेम्णोऽथ परमाकाष्ठेत्युदिता भक्ति भूमिका ॥३६॥
लक्षणं भगवद्भक्तेः साधनं सोपपत्तिकम् ।
सभूमिकं स्वरूपञ्च यथाबुद्धीह वर्णितम् ॥३७॥
इति श्री परमहंस परिव्राजकाचार्य श्री मधुसूदनसरस्वती
विरचिते भगवद्भक्तिरसायने स्वरूपभूमिकासाधन सहित
भक्तिसामान्यनिरूपणं नाम प्रथमोल्लासस्समाप्तः ॥
N/A
References : N/A
Last Updated : January 23, 2014
TOP