भक्तिरसायनम् - द्वितीयोल्लासः
भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.
द्रुते चित्ते प्रविष्टा या गोविन्दाकारता स्थिरा ।
सा भक्तिरित्यभिहिता विशेषस्त्वधुनोच्यते ॥१॥
चित्तद्रुतेः कारणानां भेदाद्भक्तिस्तु भिद्यते ।
तान्युक्तानि तु संक्षेपाद् व्याख्यायन्तेऽधुना स्फुटम् ॥२॥
कामश् शरीरसम्बन्धविशेषस्स्पृहयालुता ।
सन्निधानासन्निधानभेदेन स भवेद् द्विधा ॥३॥
तज्जन्यायां द्रुतौ चित्ते या स्याच्छ्रीकृष्णनिष्ठता ।
सम्भोगविप्रयोगाख्या रतिस्सा सा क्रमाद् भवेत् ॥४॥
क्रोध ईर्ष्या निमित्तं तु चित्ताभिज्वलनं भवेत् ।
तज्जन्यायां द्रुतौ सा तु द्वेष शब्देन गृह्यते ॥५॥
अत्र चेतो व्याकुलत्वं सोपद्रावकदर्शनात् ।
उपद्रावकनाशार्थं तत्प्रीत्यर्थं च तद् द्विधा ॥६॥
तत्राद्यं द्वेष एव स्याद् द्वितीयं रतिशब्दभाक् ।
उपरिष्टात् तदुभयं मया स्पष्टीकरिष्यते ॥७॥
द्वेषा हेतुस्स्वमन्तूत्थं वैक्लव्यं चित्तगं तु यत् ।
तज्जन्यायां द्रुतौ याऽऽस्ते रतिस्सा भयमुच्यते ॥८॥
स्नेहः पुत्रादिविषयः पाल्यपालकलक्षणः ।
सेव्यसेवकभावोऽन्यः सोऽप्युक्तस्त्रिविधो बुधैः ॥९॥
भगवद्दास्यसख्याभ्यां मिश्रितं चापरं जगुः ।
या कृष्णाकारता चित्ते तज्जन्यद्रुतिशालिनि ॥१०॥
पाल्यपालकभावेन सा वत्सलरतिर्भवेत् ।
सेव्यसेवकभावेन प्रेयोरतिरितीर्यते ॥११॥
हर्षश्चित्तसमुल्लासः कथ्यते स चतुर्विधः ।
एकः परानन्दमयः श्रीशमाहात्म्यकारणात् ॥१२॥
तज्जन्यायां द्रुतौ शुद्धा रतिर्गोविन्दगोचरा ।
एतदन्तं हि शास्त्रेषु साधनाम्नानमिष्यते ॥१३॥
व्रीडा विकृतवाग्वेषचेष्टाऽऽदि जनितोऽपरः ।
तज्जन्यायां द्रुतौ चेतोविकासो हास उच्यते ॥१४॥
लोकोत्तरचमत्कारिवस्तुदर्शनजः परः ।
तज्जन्यायां द्रुतौ चेतोविकासो विस्मयो मतः ॥१५॥
युद्धादि ताप जनितो वीराणां जायते परः ।
ततस्चित्तस्य विस्तारो द्रुतस्योत्साह उच्यते ॥१६॥
इष्टविच्छेदजनितो यश्चित्ते क्लिष्टतोदयः ।
तज्जन्यायां द्रुतौ विष्टा रतता शोक उच्यते ॥१७॥
दया घृणा स्याद् विषयतुच्छत्वज्ञानपूर्विका ।
तया द्रुते तु मनसि जुगुप्सा जायते त्रिधा ॥१८॥
पूतिव्रणादिविषये कथितोद्वेगिनी बुधैः ।
श्मशानोत्थपिशाचादिविषया क्षोभिणी भवेत् ॥१९॥
देहेन्द्रियादिदुःखत्वविचारण पुरस्सरा ।
घॄणा शुद्धेति कविभिस्सा जुगुप्सा प्रकीर्तिता ॥२०॥
या तु शोच्यस्य रक्षार्थं प्रवृत्तिरनुकम्पया ।
तया द्रुते तु मनसि दयोत्साहस्स्मृतो बुधैः ॥२१॥
सर्वस्वमपि दास्यामि प्रार्थयेति च यो महान् ।
उद्यमो द्रुत चित्तस्य दानोत्साहस्स उच्यते ॥२२॥
तथा स्वधर्मरक्षार्थं या प्रवृत्तिः प्रयत्नतः ।
तया चित्तस्य विस्तारो धर्मोत्साहो द्रुतौ भवेत् ॥२३॥
वशीकाराख्य वैराग्यं यत् कामास्पृहतात्मकम् ।
तेन द्रुतस्य चित्तस्य प्रकाशः शम उच्यते ॥२४॥
इतोऽन्यथा तु चित्तस्य न द्रुतिर्विद्यते क्वचित् ।
तदभावात् तु भावो न निरुक्तान्योऽस्ति कश्चन ॥२५॥
यावत्यो द्रुतयश्चित्ते भावास्तावन्त एव हि ।
स्थायिनो रसतां यान्ति विभावादि समाश्रयात् ॥२६॥
धर्मोत्साहो दयोत्साहो जुगुप्सा त्रिविधा शमः ।
षडप्येते न विषया भगवद्विषया न हि ॥२७॥
धर्मवीरो दयावीरो भीभत्सः शांत इत्यमी ।
अतो न भक्ति रसतां यांति भिन्नास्पदत्वतः ॥२८॥
ईर्ष्याजभयजद्वेषौ भगवद्विषयावपि ।
न भक्तिरसतां यातः साक्षाद् द्रुतिविरोधतः ॥२९॥
शुद्धो रौद्ररसस्तत्र तथा रौद्रभयानकः ।
नास्वाद्यः सुधिया प्रीतिविरोधेन मना गपि ॥३०॥
कामजे द्वे रती शोकः प्रीतिर्भी विस्मयस्तथा ।
उत्साहो युधि दाने च भगवद्विषया अमी ॥३१॥
व्यामिश्रभावरूपत्वं यान्त्येते क्षीरनीरवत् ।
विभावादि समायोगे तथा भक्तिरसा अपि ॥३२॥
शृङ्गारः करुणो हास्यस्तथा प्रीतिर्भयानकः ।
अद्भुतो युद्धवीरश्च दानवीरश्च मिश्रिताः ॥३३॥
शुद्धा च वत्सल रतिः प्रेयोरतिरिति त्रयी ।
भावान्तरामिश्रितत्वाद् अमिश्रा रतिरुच्यते ॥३४॥
विशुद्धो वत्सलः प्रेयान् इति भक्तिरसास्त्रयः ।
रसान्तरामिश्रितास्ते भवन्ति परिपुष्कलाः ॥३५॥
शृङ्गारो मिश्रितत्वेऽपि सर्वेभ्यो बलवत्तरः ।
तीव्र तीव्रतरत्वं तु रतेस्तत्रैव वीक्ष्यते ॥३६॥
केचित् केवलसङ्कीर्णाः केचित् सङ्कीर्णमिश्रिताः ।
केचित् केवलमिश्राश्च शुद्धाश्च स्युश्चतुर्विधाः ॥३७॥
तत्र केवल सङ्कीर्णा रौद्रो रौद्रभयानकः ।
धर्मवीरो दानवीरो भीभत्सश्शान्त इत्यपि ॥३८॥
मिश्रा एवान्यविषयाः प्रोक्तास्सङ्कीर्णमिश्रिताः ।
भगवद्विषयास्ते तु ख्याताः केवल मिश्रिताः ॥३९॥
शुद्धास्त्रयः पुरैवोक्ताः सङ्कीर्यन्ते न केनचित् ।
एवं निरूपिता भक्तिः संक्षेपादुच्यते पुनः ॥४०॥
राजसी तामसी शुद्धसात्त्विकी मिश्रता च सा ।
ईर्ष्याजद्वेषजाऽऽद्या स्याद् भयजद्वेषजापरा ॥४१॥
हर्षजा शुद्धसत्त्वोत्था कामाशोकादिजेतरा ।
सत्त्वजत्वे तु सर्वासां गुणान्तरकृताभिदा ॥४२॥
तत्र ते रतितां नैव यातः सुखविरोधतः ।
रतिशब्दं तु भजतः सुखमय्यौ परे द्रुती ॥४३॥
भक्तिश्चतुर्विधाप्येषा भगवद्विषया स्थिरा ।
दृष्टादृष्टोभयैकैकफला भक्तिस्त्रिधा भवेत् ॥४४॥
राजसी तामसी भक्तिरदृष्टफलमात्रभाक् ।
दृष्टादृष्टोभयफला मिश्रिता भक्तिरिष्यते ॥४५॥
शुद्धसत्त्वोद्भवाऽप्येवं साधकेष्वस्मदादिषु ।
दृष्टमात्रफला सा तु सिद्धेषु सनकादिषु ॥४६॥
दृष्टादृष्टफला भक्तिः सुखव्यक्तेर्विधेरपि ।
निदाघदूनदेहस्य गंगास्नानक्रिया यथा ॥४७॥
रजस्तमाऽभिभूतस्य दृष्टांशः प्रतिबध्यते ।
शीतवातातुरस्येव नादृष्टांशस्तु हीयते ॥४८॥
तथैव जीवन्मुक्तानामदृष्टांशो न विद्यते ।
स्नात्वा भुक्तवतां भूयो गंगायां क्रीडतां यथा ॥४९॥
वर्तमानतनुप्राप्यं फलं दृष्टमुदाहृतम् ।
भाविदेहोपभोग्यं यत् तददृष्टमुदीरितम् ॥५०॥
रजस्तमःप्रचण्डत्वे सुखव्यक्तिरसत्समा ।
तीव्रवायुविनिक्षिप्त दीपज्वालेव भासते ॥५१॥
तस्मात्स्वयंप्रभाऽऽनन्दाकाराऽपि मतिसन्ततिः ।
प्रतिबन्धवशान् न स्यात् सुखव्यक्तिपदास्पदम् ॥५२॥
रजः प्रबलसत्त्वांशाद् ईर्ष्याजद्वेषमिश्रिता ।
मनोवृत्तिः परानन्दे चैद्यस्य न सुखायते ॥५३॥
तमः प्रबलसत्त्वांशाद् भीतिजद्वेषमिश्रिता ।
मनोवृत्तिः परानन्दे कंसस्य न सुखायते ॥५४॥
तयोर्भाविशरीरे तु प्रतिबन्धक्षये सति ।
सैव चित्तद्रुतिर्भक्तिरसतां प्रतिपद्यते ॥५५॥
अथुनाऽपि भजन्तो ये द्वेषात् पाशुपतादयः ।
तेषामप्येवमेव स्याद् अथवा वेन तुल्यता ॥५६॥
द्रुतौ सत्यां भवेद्भक्तिरद्रुतौ तु न किञ्चन ।
चित्तद्रुतेरभावेन वेनस्तु कतमोऽपि न ॥५७॥
रजस्तमो विहीना तु भगवद्विषया मतिः ।
सुखाभिव्यञ्जकत्वेन रतिरित्यभिदीयते ॥५८॥
रजस्तमस्समुच्छेद तारतम्येन गम्यते ।
तुल्येऽपि साधनाभ्यासे तारतम्यं रतेरपि ॥५९॥
विरहे यादृशं दुःखं तादृशी दृश्यते रतिः ।
मृदुमध्याधिमात्रत्वाद् विशेषोऽत्रापि वीक्ष्यते ॥६०॥
वैकुन्ठे द्वारकायां च श्रीमद् बृन्दावने तथा ।
मृदुतीव्रा मध्यतीव्रा तीव्रतीव्रा च सा क्रमात् ॥६१॥
इयं निसर्गसंसर्गौपम्याध्यात्माभियोगजा ।
संप्रयोगाभिमानाभ्यां समारोपे स्थिता तथा ॥६२॥
स्पर्शे शब्दे तथा रूपे रसे गन्धे च केवले ।
समुच्चिते च सा तत्रेत्येका षड्विधा भवेत् ॥६३॥
शुद्धा व्यमिश्रिता चेति पुनरेषा द्विधा भवेत् ।
तत्रानुपाधिश्शुद्धा स्यात् सोपाधिर्मिश्रितोदिता ॥६४॥
अनुपाधिः परानन्द महिमैक निबन्धना ।
भजनीयगुणानन्त्याद् एकरूपैव सोच्यते ॥६५॥
कामसंबन्धभयतः सोपाधिस्त्रिविधा भवेत् ।
विभावादिसमायोगे शुद्धभक्तिरसो भवेत् ॥६६॥
शृङ्गारमिश्रिता भक्तिः कामजा भक्तिरिष्यते ।
सम्बन्धजा रतिर्याति पूर्वोक्तां रसतां द्वयोः ॥६७॥
एको वत्सलभक्त्याख्यः प्रेयोभक्तिस्तथाऽपरा ।
भयजा रतिरध्यास्ते रसं प्रीतिभयानकम् ॥६८॥
एकदैव यदि व्यक्तमिदं रति चतुष्टयम् ।
तदा तु पानकरसन्यायेन परमो रसः ॥६९॥
एकद्व्यादि रसव्यक्तिभेदाद् रसभिदा भवेत् ।
तस्मात् क्वचित् तदभ्यासं कुर्याद् रतिचतुष्टये ॥७०॥
व्रजदेवीषु च स्पष्टं दृष्टं रतिचतुष्टयम् ।
तच्चित्तालम्बनत्वेन स्वचित्तं तादृशं भवेत् ॥७१॥
रसान्तरविभावादि सङ्किर्णा भगवद्रतिः ।
चित्ररूपवद् अन्यादृग् रसतां प्रतिपद्यते ॥७२॥
रसान्तरविभावादि राहित्ये तु स्वरूपभाक् ।
दशमीमेति रसताम् सनकादेरिवाधिकाम् ॥७३॥
रतिर्देवादिविषया व्यभिचारी तथोर्जितः ।
भावः प्रोक्तो रसो नेति यदुक्तं रसकोविदैः ॥७४॥
देवान्तरेषु जीवत्वात् परानन्दाप्रकाशनात् ।
तद् योज्यं, परमानन्दरूपे न परमात्मनि ॥७५॥
कान्तादिविषया वा ये रसाद्यास्तत्र नेदृशम् ।
रसत्वं पुष्यते पूर्णसुखास्पर्शित्वकारणात् ॥७६॥
परिपूर्णरसा क्षुद्ररसेभ्यो भगवद्रतिः ।
खद्योतेभ्य इवादित्यप्रभेव बलवत्तरा ॥७७॥
क्रोधशोकभयादीनां साक्षात् सुखविरोधिनाम् ।
रसत्वमभ्युपगतं तथाऽनुभवमात्रतः ॥७८॥
इहानुभवसिद्धेऽपि सहस्रगुणितो रसः ।
जडेनेव त्वया कस्माद् अकस्माद् अपलप्यते ॥७९॥
इति श्री परमहंस परिव्राजकाचार्य श्री मधुसूदनसरस्वती
विरचिते भगवद्भक्तिरसायने भक्तिविशेषप्रतिपादको नाम
द्वितीयोल्लास समाप्तः ॥
N/A
References : N/A
Last Updated : January 23, 2014
TOP