भक्तिरसायनम् - तृतीयोल्लासः
भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.
ननु केयं रसो नाम, किन्निष्ठो वा भवेदसौ ।
अस्य प्रत्यायकः को वा, प्रतीतिरपि कीदृशी ॥१॥
विभावैरनुभावैश्च व्यभिचारिभिरप्युत ।
स्थायीभावः सुखत्वेन व्यज्यमानो रसः स्मृतः ॥२॥
सुखस्यात्मस्वरूपत्वात् तदाधारो न विद्यते ।
तद्व्यञ्जिकाया वृत्तेस्तु समाजिकमनः प्रति ॥३॥
काव्यार्थनिष्ठा रत्याद्याः स्थायिनः सन्ति लौकिकाः ।
तद्बोद्धृनिष्ठास्त्वपरे तत्समा अप्यलौकिकाः ॥४॥
बोध्यनिष्ठा यथास्वं ते सुखदुःखादि हेतवः ।
बोद्धृनिष्ठास्तु सर्वेऽपि सुखमात्रैकहेतवः ॥५॥
अतो न करुणादीनां रसत्वं प्रतिहन्यते ।
भावानां बोद्धृनिष्ठानां दुःखाहेतुत्वनिश्चयात् ॥६॥
तत्र लौकिकरत्यादेः कारणं लौकिकं तु यत् ।
काव्योपदर्शितं तत् तु विभाव इति कथ्यते ॥७॥
लौकिकस्यैव रत्यादेर्लोके यत् कार्यमीक्षितम् ।
कव्योपदर्शितं तत् स्याद् अनुभावपदास्पदम् ॥८॥
लौकिकस्यैव रत्यादेर्येभावाः सहकारिणः ।
कव्योपदर्शितास्ते तु कथ्यन्ते व्यभिचारिणः ॥९॥
अलौकिकस्य रत्यादेः सामाजिकनिवासिनः ।
उद्बोधे कारणं ज्ञेयं त्रयमेतत् समुच्चितम् ॥१०॥
ज्ञातस्वपरसम्बन्धाद् अन्ये साधारणात्मना ।
अलौकिकं बोधयन्ति भावं भावास्त्रयोऽप्यमी ॥११॥
भावत्रितय संसृष्ट स्थायिभावावगाहिनी ।
समूहालम्बनात्मैका जायते सात्त्विकी मतिः ॥१२॥
साऽनन्तरक्षणेऽवश्यं व्यनक्ति सुखमुत्तमम् ।
तद्रसः, केचिदाचार्या स्तामेव तु रसं विदुः ॥१३॥
तेषां प्रत्येकविज्ञानं कारणत्वेन तैर्मतम् ।
स्थायीभावो रस इति प्रयोगस्तूपचारतः ॥१४॥
एवमव्यवधानेन क्रमो यस्मान् न लक्ष्यते ।
असंलक्ष्यक्रमव्यङ्ग्यं ध्वनिं तस्माद् इमं विदुः ॥१५॥
व्यवधानात् क्रमो लक्ष्यो वस्त्वलङ्कारयोर्ध्वनौ ।
लक्ष्यव्यङ्ग्यक्रमं तस्माद् ध्वनि मेतं प्रचक्षते ॥१६॥
रस भाव तदाभास भावशान्त्यादिरक्रमः ।
अनन्तरक्षणे यस्माद् व्यज्यतेऽवश्यमेव सः ॥१७॥
श्रुतिदुष्टादयो दोषा ये रसप्रतिबन्धकाः ।
तदभावोऽपि सामाग्र्यां निविष्टोऽनिष्टहानिकृत् ॥१८॥
या रीतयो ये च गुणास्तज्ज्ञानमपि कारणम् ।
अलङ्काराश्च विज्ञाता भवन्ति परिपोषकाः ॥१९॥
गुणालङ्काररीतीनां भावानां च निवेदकः ।
तस्य प्रत्यायकः शब्दो वृत्त्या व्यञ्जनरूपया ॥२०॥
वृत्तिः कार्याऽपरोक्षाऽस्य शब्दस्य सुखगर्भिणी ।
दशमस्त्वमसीत्यादि वाक्योत्थमतिवृत्तिवत् ॥२१॥
नित्यं सुखमभिव्यक्तं "रसो वै स" इति श्रुतेः ।
प्रतीतिः स्वप्रकाशस्य निर्विकल्पसुखात्मिका ॥२२॥
कार्यज्ञाप्यादि वैधर्म्यं यत् तु कैश्चिन् निरूपितम् ।
तदप्येतेन मार्गेण योज्यं शास्त्राविरोधतः ॥२३॥
परमानन्द आत्मैव रस इत्याहुरागमाः ।
शब्दतस्तदभिव्यक्तिप्रकारोऽयं प्रदर्शितः ॥२४॥
अर्थवादाधिकरणे वनशैलादिवर्णनम् ।
श्रोतॄणाम् सुखमात्रार्थमिति भट्टैरुदाहृतम् ॥२५॥
कार्यान्वितत्ववादेऽपि न विरोधोऽस्ति कश्चन ।
यस्मात् कृतीप्सितत्वेन कार्यं सुखमपीष्यते ॥२६॥
अलौकिक नियोगे तु न किञ्चिन् मानमीक्ष्यते ।
लोके वाचां च सर्वेषां तत्परत्वं न युज्यते ॥२७॥
प्रयोजनवद् अज्ञातज्ञापकत्वं च मानता ।
शब्दस्य कार्यपरता त्वाचार्यैरेव खण्डिता ॥२८॥
देवताधिकृतिन्यायात् पदैरन्यपरैरपि ।
प्रयोजनवद् अज्ञाताबाधितार्थमतिर्भवेत् ॥२९॥
तस्माद् अन्यपरत्वे वा स्वातंत्र्ये वा पदानि नः ।
व्यञ्जयन्ति परानन्दं सहकार्यानुरूपतः ॥३०॥
इति श्रीमत्परमहंस परिव्राजकाचार्य श्री मधुसूदनसरस्वती
विरचिते श्री भगवद्भक्तिरसायने भक्तिरसप्रतिपादको नाम
तृतीयोल्लास समाप्तः ॥
सर्वं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : January 23, 2014
TOP