मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
ॐ नमो वरदाय विध्नहर्त्रे ...

गणेशपूर्वतापिन्युपनिषत् - ॐ नमो वरदाय विध्नहर्त्रे ...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


ॐ नमो वरदाय विध्नहर्त्रे ॥ अथातो ब्रह्मोप-निषदं व्याख्यास्याम: । ब्रह्मा देवानां सवितु: कवीनामृषिर्विप्राणां महिषो मृगाणाम् ।
धाता वसूनां सुरभि: सृजानां नमो ब्रह्मणेऽथर्वपुत्राय मीढुषे ॥
धाता देवानां प्रथमं हि चेतो मनो वनानीव मनसाऽकल्पयद्य: ।
नमो ब्रह्मणे ब्रह्मपुत्राय तुभ्यं ज्येष्ठायाथर्वपुत्राय धन्विने ॥१॥
ॐ प्रजा-पति: प्रजा असृजत । ता: सृष्टा अब्रुवन् कथम-न्नाद्या अभवन्निति । स त्रेधा व्यभजद्‍भूर्भुव :-स्वरिति । स तपोऽतप्तत । स ब्रह्मा स विष्णु: स शिव: स प्रजापति: सेन्द्र: सोऽग्नि: समभवत् । स तूष्णीं मनसा ध्यायन् कथमिमेऽन्नाद्या: स्युरिति । सो‍ऽपश्यदात्मनाऽऽत्मानं गजरूपधरं देवं शशिवर्णं चतुर्भुजं यतो वा इमानि भूतानि जायन्ते यतो वायन्ति यत्रैव यन्ति च । तदेतदक्षरं परं ब्रह्म । एतस्माज्जायते प्राणो मन: सर्वेन्द्रियाणि च । खं वायुरापो ज्योति: पृथिवी विश्वस्य धारिणी । पुरुष एवेंद विश्वं तपो ब्रह्म परामृत-मिति ॥२॥
सोऽस्तुवत नमो ब्रह्मणे नमो ब्राह्मणेभ्यो नमो वेदेभ्यो नमो देवेभ्यो नम ऋषिभ्यो नम: कुल्येभ्य: प्रकुल्येभ्यो नम: सवित्रे प्रसवित्रे नमो भोज्याय प्रकृष्टाय कपर्दिने चक्राय चक्रधराया- त्रायान्नपतये शिवाय सदाशिवय तुर्याय तुरीयाय भूर्भुव:स्व:पते रायस्पते वाजिपते गोपते ऋग्यजु:- सामाथर्वाड्रिर:पते नमो ब्रह्मपुत्रायेति ॥३॥
सोऽब्रवी-द्वरदोऽस्म्यहमिति । सप्रजापतिरब्रवीत्कथमिमेऽ-त्राद्या: स्युरिति । स होवाच ब्रह्मपुत्रस्त पस्तेपे सिद्धक्षेत्रे महायशा: । स सर्वस्य वक्ता सर्वस्य ज्ञातासीति । स होवाच तपस्यन्तं सिद्धारण्ये भृगुपुत्रं पृच्छध्वमिति । ते प्रत्याययु: । स होवाच किमेतदिति । ते होचु: कथं वयमन्नाद्या भवाम इति । स तूष्णीं मनसा ध्यायन् कथमिमेऽन्नाद्या: स्युरिति । स एतमानुष्टुमं मन्त्रराजमपश्यत् । यदिदं किञ्च सर्वमसृजत । तस्मात्सर्वमानुष्टुभ- मित्याचक्षते यदिदं किञ्च । अनुष्टुभा वा इमानि भूतानि जायन्ते । अनुष्टुभा जातानि जीवन्त्यनुष्टुभ प्रयन्त्यभिसंविशन्ति । तस्यैषा भवति-अनुष्टुप्प्रथमा भवत्यनुष्टुवुत्तमा भवति । वाग्वा अनुष्टुब्वाचैव प्रयन्ति वाचैवोद्यन्ति । परमा वा एषा छन्दसां यदनुष्टुप् । सर्वमनुष्टुप् । एतं मन्त्रराजं य: पश्यति   स पश्यति । स भुक्तिं मुक्तिं च विन्दति । तेन सर्वज्ञानं भवति । तदेतन्निदर्शनं भवति-एको देव: प्रापको यो वसूनां श्रिया जुष्ट: सर्वतोभद्र एष: । मायादेवोबलगहनो बह्मारातीस्तं देवमीडे दक्षिणास्यम् । आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सड्‍गृभाय । महाहस्ती दक्षिणेन ॥ इति सहस्त्रकृत्वस्तुष्टाव ॥४॥
अथापश्यन्महादेवं श्रिया जुष्टं मदोत्कटम् । सनकादिमहायोगिवेदविद्भिरुपासितम् ॥ द्रुहिणादिमदेवेशषट्‍पदालिविराजितम् । लसत्कर्णं महादेवं गजरूपधंर शिवम् ॥ स होवाच वरदोऽस्मीति । स तूष्णीं मनसा वव्रे । स तथेति होवाच । तदेष श्र्लोक: - स संस्तुतो दैवतदेवसृनु: सुतं भृगोर्वाक्यमुवाच तुष्ट: । अवेहि मां भार्गव वक्रतुण्डननाथनाथं त्रिगुणात्मकं शिवम् ॥ अथ तस्य षडड्रानि प्रादुर्बभृवु: । स होवाच जपध्वमानुष्टुभंmमन्त्रराजं षट्‍पदं सषडक्षरम् । इति यो जपति स भूतिमान् भवतीति यूयमन्नाद्या भवेयुरिति । तदेतन्निदर्शनम् - गणानां त्वा गणनाथं सुरेन्द्रं कविं कवीनामतिमेधविग्रहम् । ज्येष्ठराजं वृषभं केतुमेकं सा न: शृण्वन्नूतिभि: सीद शश्वत् ॥५॥
ते होचु: कथमानुष्टुभं मन्त्रराजममिजानीम इति । स एतमानुष्टुभं षट्‍पदं मन्त्रराजं कथयाश्चके । स साम भवति । ऋग्वै गायत्री यजुरुष्णिगनुष्टुप् साम । स आदित्यो भवति । ऋग्वै वसुर्यजू रुद्रा: सामादित्या इति । स षट्‍पदो भवति । साम वै षट्‍पद: । ससागरां सप्तद्वीपां सपर्वतां वसुन्धरांmतत्सास्र: प्रथमं पादं जानीयाद्रायस्पोषस्य दातेति । तेन सप्तद्वीपाधिपो भवति भू:पतित्वं च गच्छति । यक्षगन्धर्वाप्स रोगणसेवितमन्तरिक्षं द्बितीयं पादं जानीयान्निधिदातेति । तेन धनदादिकाष्ठापतिर्भवति भुव:पतित्वं च गच्छति । वसुरुद्रादित्यै: सर्वैर्देवै: सेवितं दिवं तत्सात्रस्तृतीयं पादं जानीया- दन्नदो मत इति । तेन देवाधिपत्यं स्व:पतित्वं च गच्छति । ऋग्यजु:सामाथर्वाड्रिरोगणसेवितं व्रह्मलोकं तुर्ये पादं जानीयाद्रक्षोहण इति । तेन देवाधिपत्यं व्रह्माधिपत्यं च गच्छति । वासुदेवादिचतुर्व्यूहसेवितं विष्णुलोकं तत्सास्र: पश्चमं पादं जानीयाद्बलगहन इति । तेन सर्वदेवाधिपत्यं विष्णुलोकाधिपत्यं च गच्छति । ब्रह्मस्वरूपं निरञ्जनं परमव्योत्रिकं तत्सात्र: षष्ठं पादं जानीयात् । तेन वक्रतुण्डाय हुमिति यो जानीयात्सोऽमृतत्वं च गच्छति । सत्यलोकाधिपत्यं व गच्छति ॥६॥
ऋग्यजु:सामाथर्वाश्चत्वार: पादा भवन्ति । रायस्पोपस्य दाता चेति प्रथम: पादो भवति, ऋग्वै प्रथम: पाद: । निधिदाताऽन्नदो मत इति द्बितीय: पाद:, यजुर्वै द्बितीय: पाद: । रक्षोहणो वो बलगहन इति तृतीय: पाद:, साम वै तृतीय: पाद: । वक्रतुण्डाय हुमिति चतुर्थ: पाद: अथर्वश्चतुर्थ: पादोऽथर्व- श्र्चतुर्थ: पाद इति ॥७॥
इति गणेशपूर्वतापिन्युपनिषत्सु प्रथमोपनिषत् ॥१॥
स होवाच प्रजापतिरग्रिर्वै वेदा इदं सर्व विश्वानि भूतानि विराट्‍ स्वराट्‍ सम्राट्‍ तत्सात्र: प्रथमं पादं जानीयात् । ऋग्यजु:समाथर्वरूप: सूर्योऽन्तरादित्ये हिरण्मय: पुरुषस्तत्साम्नो द्बितीयं पादं जानीयात् । य ओषधीनां प्रभविता तारापति: सोमस्तत्साम्नस्तृतीयं पादं जानीयात् । यो ब्रह्मा तत्साम्नश्चतुर्थं पादं जानीयात् । यो हरिस्तत्साग्न: पश्चमं पादं जानीयात् । य: शिव: स परं ब्रह्म तत्साम्नोऽन्त्यं पादं जानीयात् । यो जानीते सोऽमृतत्वं च गच्छति परं ब्रह्मैव भवति । तस्मादिदमानुष्टुभं साम यत्र क्कचिन्नाचष्टे । यदि दातुमपेक्षते पुत्रय
शुश्रूषवे दास्यत्यन्यस्मै शिष्याय वेति ॥१॥
तस्य हि षडड्रानि भवन्ति - ॐ हदयाय नम: शिरसे स्वाहा, शिखायै वषट्‍, कवचाय हुं । नेत्रत्रयाय वौषट्, अस्त्रय फडिति प्रथसं प्रथमेन द्बितीयं द्बितीयेन तृतीयं तृतीयेन चतुर्थं चतुर्थेन पश्चमं पश्चमेन षप्ठं षप्ठेन प्रत्यक्षरमुभयतो माया लक्ष्मीश्च भवति । माया वा एषा वैनयकी सर्वमिदं सृजति, सर्वमिदं रक्षति,सर्वमिदं संहरति, तस्मान्मायामेतां शक्तिं वेद । स मृत्युं जयति । पाप्मानं तरति । स महतीं श्रियमश्नुते । सोऽभिवादी षट्‍कर्मसंसिद्धो भवत्यमृतत्वं च गच्छति । मीमांसन्ते ब्रह्मवादिनो र्‍हस्वा वा दीर्घा वा प्लुता वेति । यदि र्‍हस्वा भवति सर्वपाप्मानं तरत्यमृतत्वं च गच्छति । यदि दीर्घा भवति महतीं श्रियमाप्नुयादमृतत्वं च गच्छति । यदि प्लुता भवति ज्ञानवान् भवत्यमृतवं च
गच्छति । तदेतदृषिणोक्तं निदर्शनम् - स ईं पाहि य ऋजीषी तरुद्र: स श्रियं लक्ष्मीमौपलम्बिकां गाम् । षष्ठीं च यामिन्द्रसेनेत्युत आहुस्तां विद्यां ब्रह्मयोनिस्वरूपाम् ॥ तामिहायुषे शरणं प्रपद्ये । क्षीरोदार्णवशायिनं कल्पद्रुमाध:स्थितं वरदं व्योमरूपिणं प्रचण्डदण्डदोर्दण्डं वक्रतुण्डस्वरूपिणं पार्श्वाध:स्थितकामधेनुं शिवोमातनयं विभुम् । रुक्माम्बरनिभाकाशं रक्तवर्णं चतुर्भुजम् । कपर्दिनं शिवं शान्तं भक्तानामभयप्रदम् ॥ उन्नतप्रपदाड्‍गुष्ठं गूढगुल्फं सपार्ष्णिकम् । पीनजड्‍घं गूढजानुं स्थूलोरुं प्रोन्नमत्कटिम् ॥ निम्ननामिइं कम्बुकण्ठं लम्वोप्ठं लम्बनासिकम् । सिद्धिबुद्‍ध्युभयाश्र्लिप्टं प्रसन्नवदनाम्बुजम् ॥ इति संसर्ग: ॥२॥

अथ छन्दोदैवतम्
अनुष्टुप्छन्दो भवति, द्बात्रिंशदक्षरानुष्टुब् भवति । अनुष्टुभा सर्वमिदं सृष्टमनुष्टुभा सर्वमुपसंहत शिवोमायुत: परमात्मा वरदो देवता । ते होचु: कथं शिवोमायुत इति । स होवाच भृगुपुत्र: प्रकृतिपुरुषमयो हि स धनद इति, प्रकृतिर्माया पुरुष: शिव इति । सोऽयं विश्वात्मा देवतेति । तदेतन्निदर्शनम् - इन्द्रो मायाभि: पुरुहूत्त ईदे शर्वो विश्वं मायया स्विद्दधार । सोऽज: शेते मायया स्विद्‍गुहायां विश्वं न्यस्तंविष्णुरेको विजज्ञे । तदेतन्माया हंसमयी देवानाम्  ॥
सर्वेषां वा एतद्भतानामाकाश: परायणम् । सर्वाणि ह वा इमानि भूतान्याकाशादेव जायन्ते जातानि जीवन्त्याकाशं प्रयन्त्यभिसंविशन्ति । तस्मादाकाशबीजं शिवो विद्यात् । तदेतन्निदर्शनम् - हंस: शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणासत् । नृषद्बरसदृतसव्द्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहदिति ॥३॥
अथाधिष्ठानम् -
मध्ये बिन्दुं त्रिकोणं तदनु ऋतुगणं वसुदलं द्वादशारं षोडशकर्णिकेति । मध्ये बीजात्मकं देवं यजेत् । वामदक्षिणे सिद्धिर्बुद्धि: । अग्रे कामदुघा षट्‍कोणे सुमुखादय: षड्‍ विनायका: । वसुदले वक्रतुण्डाद्यष्टविनायका: । द्वादशारे बटुको वामनो महादशकमहोदरौ सुभद्रो माली वरो राम उमा शिव: स्कन्दो नन्दी । तद्‍बाह्येऽणिमादिसिद्धय: । षोडशारे दिक्पाला: सायुधा इति ॥४॥

अथप्रसार :-
य एतेन चतुर्थीषु पक्षयोरुभयोरपि ।
लक्षं जुहुयादपूपानां तत्क्षणाद्धनदो भवेतू ॥
सिद्धौदनं त्रिमासं तु जुह्रदग्रावनन्यधी: । तावज्जुह्रवत्पृथुकान्हि साक्षाद्वैश्रवणो भवेत् ॥ उच्चा टयेद्बिभीतैश्च मारयेद्विषवृक्षजै: । वश्याय पड्कजै र्विद्वान्धनार्थी मोदकैर्हुनेत् ॥ एवं ज्ञात्वा कृतकर्मा भवति कृतकर्मा भवतीति ॥५॥ इति गणेशपूर्वतापिन्युपनिष्त्सु द्बितीयोपनिषत् ॥२॥
अथ होवाच भृगुपुत्रस्तन्त्रं विजिज्ञासितव्यमिती । मूले शून्यं विजानीपात् । शून्यं वै परं ब्रह्म । तत्र सतारं समायं साम न्यसेत्त्रिरेखं भवति, त्रयो हीमे लोकास्त्रयो हीमे वेदा: । ऋग्वै भू: सा माया भवति । यजुर्वै भुव: स शिवो भवति । साम वै स्व: स हिरण्यगर्भो भवति । षट्‍कोणं भवति षड्हीमे लोका: षड्‍ढा ऋतवो भवन्ति । तर पारमायारमामारविश्वेशधरणीक्तमान्न्यसेत् । अष्टपत्रं भवत्यष्टाक्षरा गायत्री भवति ब्रह्मगायत्रीं न्यसेत् । द्बाद्बशपत्रं भवति द्बादशादित्या भवन्ति ते स्वरा भवन्ति । स्वरान् ज्ञात्वादित्यलोकमश्नुते । षोडशपत्रं भवति षोडशकलो वै पुरुषो वर्णो ह वै पुरुष: स लोकाधिष्ठितो भवत्यनुष्टुब्‍ वै पुरुष: ॥१॥
स होवाच भृगुपुत्र एतमानुष्टुभं मन्त्रराजं साड्‍गं सप्रसृतिकं समायं साधिष्ठानं सतन्त्रं यो जानाति स भूतिमान् भवति सोऽमृतत्वं च गच्छति सोऽमृतत्वं च गच्छतीति ॥२॥
इति गणेशपूर्वतापिन्युपनिषत्सु तृतीयोपनिषत् ॥३॥
इत्याथर्वणीया गणेशपूर्वतापिन्युपनिषत्समाप्ता ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP