मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
ॐ ॥ ओमित्येकाक्षरं ब्रह्...

गणेशोत्तरतापिन्युपनिषत् - ॐ ॥ ओमित्येकाक्षरं ब्रह्...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


ॐ ॥
ओमित्येकाक्षरं ब्रह्मेदं सर्वम् । तस्योपव्याख्यानम् । सर्वं भूतं भव्यं भविष्यदिति सर्वमोड्कार एव । एतच्चान्यच्च त्रिकालातीतं तदप्योड्कार एव । सर्वं होतद्रणेशोऽयमात्मा ब्रह्मेति । सोऽयमात्मा चतुष्पात् । जागरितस्थानो बहि:प्रज्ञ: सप्ताड्र एकोनविंशतिमुख: स्थूलभुग्वैश्वानर: प्रथम: पाद: । स्वप्रस्थानोऽन्त:प्रज्ञ: सप्ताड्र: एकोनविंशतिमुख: प्रविविक्तभुक्‍ तैजसो द्वितीय: पाद: । यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्रं पश्यति तत्सुषुप्तम् । सुषुप्तिस्थान एकीभूत: प्रज्ञानघन एवानन्दभुक्‍ चेतोमुख: प्राज्ञस्तृतीय: पाद: ।
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनि: सर्वस्य प्रभवाप्ययौ हि भूतानाम् । नान्त:प्रज्ञं न बहि:प्रज्ञं नोभयत:प्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यम व्यपदेश्यमैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवमव्दैतं चतुर्थं मन्यन्ते स गणेश आत्मा विज्ञेय: । सदोज्ज्वलो विद्यातक्तार्यहीन: स्वात्मबन्धरहित: सर्वदोषरहित आनन्दरूप: सर्वाधिष्ठान: सन्मात्रो निरस्ताविद्यातमोमोहमेवेति सम्माव्याहमों तत्सत्परं ब्रह्म विघ्नराजश्चिदात्मक: सोऽहमों तद्बिनायकं परं ज्योती रसोऽहमित्यात्मानमादाय मनसा ब्रह्मणैकीकुर्यात् । विनायकोऽहमित्येतत्तत्त्वत: प्रवदन्ति ये । न ते संसारिणो नूनं प्रमोदो वै न संशय: ॥
इत्युपनिषत् ।

य एवं वेद स मुखो भक्तीति याज्ञवल्क्य इति याज्ञवल्क्य इति । एतदेव परं ध्यानमेतदेव परं तप: । विनायकस्य यज्ज्ञानं पूजनं भवमोचनम् ॥ अश्र्वमेधसहस्त्राणि वाजपेयशतानि च । एकस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम् ॥ इति गणेशोत्तरतापिन्युपनिषत्सु प्रथमोपनिषत् ॥१॥
ॐ ॥
स विष्णु: स शिव: स ब्रह्मा सेन्द्र : सेन्दु: स सूर्य: स वायु: सोऽग्रि: स ब्रह्यायमात्मने सर्वदेवाय आत्मने भूताय आत्मन इति मन्यन्ते । ॐ सोऽहं ॐ सोऽहं ॐ सोऽहमिति । ॐ ब्रह्मन् ॐ ब्रह्मन् ॐ ब्रह्मन्निति । ॐ शिवं ॐ शिवं ॐ शिवमिती । तं गणेशं तं गणेशमिंद श्रेष्ठम् । ॐ गणानां त्वा गणपति: । सप्रियाणां त्वा प्रियपति: । सनिधीनां त्वा निधिपति: । ॐ तत्पुरुषाय विद्महे वकतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् । ॐ तद्‍गणेश: । ॐ सद्‍गणेश: । ॐ परं गणेश: । ॐ ब्रह्म गणेश: । गणनाकारो नाद: । एतत्सर्वो नाद: । सर्वाकारो नाद: । एतदाकारो नाद: । महान्नाद: । स गणेशो महान् भवति । सो‍ऽणुर्भवति । स वन्द्यो भवति । स मुख्यो भवति । स पूज्यो भवति । रूपवान् भवति । अरूपवान् भवति । द्वैतो भवति । अद्वैतो भवति । स्थावरस्वरूपवान् भवति । जड्‍गमस्वरूपवान् भवति । सचे तनविचेतनो भवति । सर्वं भवति । स गणेशोऽव्यक्तो योऽणुर्य: श्रेष्ठ: स वै वेगवत्तर: । अर्‍हस्वार्‍हस्वश्च । अतिर्‍हस्वातिर्‍हस्वातिर्‍हस्वातिर्‍हस्वश्च । अस्थूलास्थूलास्थूलश्च । ॐ न वायुर्नाग्रिर्नाकाशो नाप: पृथिवी न च । न दृश्यं न दृश्यं न दृश्यम् । न शीतं नोष्णं न वर्षं च । न पीतं न पीतं न पीतम् । न श्वेतं न श्वेतं न श्वेतम् । न रक्तं न रक्तं न रक्तम् । न कृष्णं न कृष्णं न कृष्णम् । न रूपं न नाम न गुणम् । न प्राप्यं गणेशं मन्यन्ते । स शुद्ध: स शुद्ध: स शुद्धो गणेश: । स ब्रह्म स ब्रह्म स ब्रह्म गणेश: । स शिव: स शिव: स शिवो गणेश: । इन्द्रो गणेशो विष्णुर्गणेश: सूर्यो गणेश एतत्सर्वं गणेश: । स निर्गुण: स निरहड्कार : स निर्विकल्प: स निरीह: स निराकार आनन्दरूपस्तेजोरूपमनिर्वाच्यमप्रमेय: पुरातनो गणेशो निगद्यते । स आद्य: सो‍ऽक्षर:सोऽनन्त: सोऽव्ययो महान्पुरुष: । तच्छुद्धं तच्छबलं तत: प्रकृतिमहत्तत्त्वानि जायन्ते । ततश्र्चाहड्कारादिपञ्चतन्मात्राणि जायन्ते । तत: पृथ्व्यप्तेजोवाय्वाकाशपञ्चमहद्‌भूतानि जायन्ते । पृथिव्या ओषधय ओषधीभ्योऽन्नमन्नाद्रेतस्तत: पुरुषस्तत: सर्वं तत: सर्वं तत: सर्वं जगत् । सर्वाणि भूतानि जायन्ते । देवा नु जायन्ते । ततश्च जीवन्ति । देवा नु जीवन्ति । यज्ञा नु जीवन्ति । सर्वं जीवति । स गणेश आत्मा विज्ञेय: । इत्युपनिषत् । य एवं वेद स मुख्यो भवतीति याज्ञवल्क्य इति याज्ञवल्क्य इति ॥
इति गणेशोत्तरतापिन्युपनिषत्सु द्बितीयोपनिषत् ॥२॥

ॐ ॥
गणेशो वै ब्रह्म तद्बिद्यात् । यदिदं किञ्च सर्वं भूतं भव्यं जायमानं च तत्सर्वमित्याचक्षते । अस्मान्नात: परं किञ्चित् । यो वै वेद स वेद ब्रह्म ब्रह्मैवोपाप्रोति । तत्सर्वमित्याचक्षते । ब्रह्मविष्ण्वादिगणानामीशभूतमित्याह तद्‍गणेश इति । तत्परमित्याह यमेते नाप्नुवन्ति पृथिवी सुवर्चा युवति: सजोषा: । यद्बै वाड्‍ नाक्तामति मनसा सह नाग्रिर्न पृथ्वी न तेजो न वायुर्न व्योम न जलमित्याह । नेन्द्रियं न शरीरं न नाम न रूपम् । न शुक्लं न रक्तं न पीतं न कृष्णमिति । न जाग्रन्न स्वप्रो न सुषुप्तिर्न वै तुरीया । तच्छुद्धमप्राप्यमप्राप्यं च । अज्ञेयं चाज्ञेयं च । विकल्पासहिष्णु तत्सशक्तिकं गजवक्त्रं गजाकारं जगदेवावरुन्धे । दिवमनन्तशीर्षौर्दिशमनन्तकरैर्व्योमानन्तजठरैर्महीमनन्तपादै: स्वतेजसा बाह्यान्तरीयान्व्याप्य तिष्ठतीत्याह । तद्धै परं ब्रह्म गणेश इत्यात्मानं मन्यन्ते । तद्वै सर्वत: पश्यति स्म न किञ्चिद्ददर्श । ततो वै सोऽहमभूत् । नैंकाकिता युक्तेति गुणान्निर्ममे । नामे रज: स वै ब्रह्मा । मुखात्सत्त्वं स वै विष्णु: । नयनात्तम: स वै हर: । ब्रह्माणमुपदिशति स्म ब्रह्मन् कुरु सृष्टिम् । ण्डान्तर्गतं विलोकय तथाविधामेव कुरु सृष्टिम् । अथ ब्रह्मा जन्मद्बारेण ब्रह्माण्डान्तर्गतं विलोकयति स्म । समुद्रान् सरित: पर्वतान् वनानि महीं दिवं पातालं च नरान् पशून्मृगान्नागान् हयान् गोव्र- जान् सूर्याचन्द्रमसो नक्षत्राण्यग्रीन् वायून्दिशस्ततो वै सृष्टिमचीकरत् । ततश्चात्मानमिति मन्यते स्म । न वै मत्त: परं किञ्चिदहमेव सर्वस्येश इति यावद्‍ ति तावत्क्तुरा अजायेरन् । महहेहा जिह्रया भुवं लिहाना दंष्ट्राव्याप्ताकाशा महच्छब्दा ब्रह्माणं हन्तुमुद्युक्ता: । तान्हष्ट्‍वाबिभ्यत्तत्सस्मार । ततश्चाग्रे कोटिसूर्यप्रतीकाशमानन्दरूपं गजवक्त्रं विलोकयति स्म । तुष्टावाथ गनेश्वरम् । त्वं निर्माता क्ष्मामृतां सरितां सागराणां स्थावराणां जड्रमानां च । त्वत्त: परतरं किञ्चिन्नैवास्ति जगत: प्रभो । कर्ता सर्वस्य विश्वस्य पातसंहारकारक: । भवानिदं जगत्संर्व व्याप्यैव परितिष्ठति ॥ इति स्तुत्वा ब्रह्माणं तदुवाच ब्रह्मंस्तपस्व तपस्वेत्युक्त्वा‌ऽन्तर्हिते तस्मिन् ब्रह्मा तपश्चचार । कियत्स्वतीतेप्वनेह:सु तपसि स्थिते ब्रह्मणि पुरो भूत्वोवाच । प्रसन्नोऽहं प्रसन्नोऽहं वरान् वरय । श्रुत्वैवं वचोन्मील्य नयने यावत्पुर: पश्यति तावद्‍गणेशं ददर्श । स्तौति स्म । त्वं ब्रह्मा त्वं विष्णुस्त्वं हरस्त्वं प्रजापतिस्त्वमिन्द्रस्त्वं सूर्यस्त्वं सोमस्त्वं गणेश: । त्वया व्याप्तं चराचरं त्वद्दते न हि किञ्चन । ततश्र्च  गणेश उवाच । त्वं चाहं च न वै भिनौ कुरु सृर्ष्टि प्रजापते । शक्तिं गृहाण मद्दत्तां जगत्सर्जनाकर्मणि ॥ ततो वै गृहीतायां शस्त्वा ब्रह्मण: सृष्टिरजायत । ब्राह्मणो वै मुखाज्जज्ञे बाह्रो: क्षत्रमूर्वोर्वौश्य: पद्‍भ्यां शूद्रश्चक्षुषो वै सूर्यो मनसश्चन्द्रमा अग्रिर्वै मुखात्प्राणाद्वायुर्नामेर्व्योम शीर्ष्णो द्यौ: पद् भ्यां भूमिर्दिश: श्रोत्रात् । तथा लोकानक- ल्पपन्निति । ततो वै सत्त्वमुवाच त्वं वै विष्णु: पाहि पाहि जगत्सर्वम् । विष्णुरुवाच न मे शक्ति: । सोवाच गृहाणेमां विद्याम् । ततो वै सत्त्वं तामादाय जगत्पाति स्म । हरमुवाच कुरु हर संहारम् । जगद्धरणाद्धरो भव । हरश्चात्मानमित्यवैति स्म न वै मत्परं किञ्चिद्विश्वस्यादिरहं हर इति गर्वं दधौ यावत्तावद्‍व्याप्तं व्योम गजक्क्त्रैर्महच्छब्दैर्हरं हर्तुमुद्युक्तै: । हरो वै विलोक्य रुदति स्म । सेदनाद्रुद्रसंज्ञ: । ततस्तं पुरुषं स्मृत्वा तुष्टाव त्वं ब्रह्मा त्वं कर्ता त्वं प्रधानं त्वं लोकान् सृजसि रक्षसि हरसि । विश्वाधारस्त्वमनाधारो‌ऽनाधेयोऽनिर्देश्योऽप्रतर्क्यो व्याप्येदं सर्वं तिष्ठसीति स्तवनाद्बि- नायकं ददर्श । ततश्च तं ननाम । गणेश उवाच कुरु हर हरणम् । तद्बै संहर्ताऽभूद्रुद: । य एवं वेद स गणेशो भवति । इत्युपनिषत् ॥ इति गणेशोत्तरतापिन्युपनिषत्सु तृतीयोपनिषत् ॥३॥
ॐ ॥
गनेशो वै सदजायत तद्वै परं ब्रह्म । तद्बिदाप्रोति परम् । तदेषाभ्युक्ता यदनादिभूतं यदनन्तरूपं यद्बिज्ञानरूपं यद्देवा: सर्वे ब्रह्म ज्येष्ठमुपासते न वैकार्यं करणं न तत्समश्चाधिकश्च
दृश्य: । सूर्योऽस्माद्‍भीत उदेति । वातोऽस्माद्भीत: पवते । अग्रिर्वै भीतस्तिष्ठति । तच्चित्स्वरूपं निर्वि- कारमद्बैतं च । तन्मायाशबलमजनीत्याह । अनेन यथा तमस्ततश्चोमिति ध्वनिरभूत् । स वै गजाकार: । अनिर्वचनीया सैव माया जगद्‍बीजमित्याह । सैव प्रकृतिरिति गणेश इति प्रधानमिति च माया- शबलमिति च । एतस्माद्वै महत्तत्त्वमजायत । तत:
कराग्रेणाहड्‍कारं सृष्टवान् । स वै त्रिविध: सात्त्विको राजसस्तामसश्चेति । सात्त्विकी ज्ञानशक्ति: । राजसी क्रियाशक्ति: । तामसी द्रव्यशक्ति: । तामस्या: पञ्चतन्मात्रा अजायन्त पञ्चभूतान्यजायन्त । राजस्या: पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च वायवश्र्चाजायन्त । सात्त्विक्या दिशो वायु: सूर्यो वरुणो‍ऽश्विनाविति ज्ञानेन्द्रियदेवता अग्रिरिन्द्रो विष्णु: प्रजापतिर्मित्र इति कर्मेन्द्रियदेवता: । हदमादिपुरुषरूपम् । परमात्मन: सूक्ष्मशरीरमिदमेवोच्यते । अथ द्बितीयम् । पञ्चतन्मात्रा: पञ्चसूक्ष्मभूतान्युपादाय पञ्चीकरणे कृते पञ्चमहाभूतान्यजायन्त । अवशिष्टानां पञ्चपञ्चाशानां कल्पारम्मसमये भूतविभागे चैतन्यप्रवेशादहमिल्यभिमान: । तस्मादादिगणेशो भवानुच्यते । ततो वै भूतेभ्यश्चतुर्दश लोका अजायेरन् । तदन्तर्गतजीवराशय: स्थूलशरीरै: सह विराडित्युच्चते ।
इति द्वितीयम ।
राजसो ब्रह्मा सात्त्विको विष्णुस्तामसो वै हर: । त्रयं मिलित्वा परस्परमुवाच अहमेव सर्वस्येश इति । ततो वै परस्परमसहमानाश्चोर्ध्वं जग्मु: । तत्र न किञ्चिद्दद्दशु: । ततश्चाध:-
प्रदेशे दशदिक्ष भ्रमन्तो न किञ्चित्पश्यन्ति स्म । ततो वै ध्यानस्थिता अभूवन् । ततश्च ह्हेशे महान्तं पुरुषं गजवक्त्रमसंख्यशीर्षमसंख्यपादमनन्तकरं तेजसा व्याप्ताखिललोकं ब्रह्ममूर्धानं दिकश्रवणं ब्रह्माण्डगण्डं चिव्द्योमतालुकं सत्यजननं च जगदुत्पत्त्यपायोन्मेषनिमेषं सोमार्काग्निनेत्रं पर्वतेशरदं पुण्यापुण्योष्ठं ग्रहोडुदशनं भारतीजिह्रं शक्रघ्राणं कुलगो-
त्रांसं सोमोन कण्ठं हरशिरोरुहं सरिन्नदभुजमुरगाड्‍गुलिकमृक्षनखं श्रीह्रत्कमाकाशनाभिकं सागरोदरं महीकटिदेशं सृष्टिलिड्रकं पर्वतेशोरुं दस्त्रजानुकंजठरान्त:स्थितयक्षगन्धर्वरक्ष:किन्नरमानुषं पातालजड्रघकं मुनिचरणं कालड्रगुष्ठकं तारकाजाललाड्रगुलं दृष्ट्रवा स्तुवन्ति स्म । यतो वा इमानि भूतानि जायन्ते यतोऽग्नि: पृथिव्यप्तेजो वायुर्यत्कराग्राद्ब्रह्मविष्णुरुद्रा अजायन्त यतो वै समुद्रा: सरित: पर्वताश्च यतो वै चराचरमिति स्तवनात्प्रसन्नो भूत्वोवाचाऽहं सर्वस्येशो मत्त: सर्वाणि भूतानि मत्त: सर्वं चराचरं भवन्तो वै न भद्भिन्ना गुणा मे वै न संशय: । गुणेश्म मां ह्रदि संचिन्त्य राजस त्वं जगत्कुरु सात्त्विक त्वं पालय तामस त्वं हरेत्युक्त्वान्वर्हित: । स वै गणेश: सर्वात्मा विज्ञेय: सर्वदेवात्मा वै स एक: । य एवं वेद स गणेशो भवति ॥
इत्युपनिषत् ।
इति गणेशोत्तरतापिन्युपनिषत्सु चतुर्थोपनिषत् ॥४॥
ॐ ॥ देवा ह वै रुद्रमब्रुवन् कथमेतस्योपासनम् । स होवाच रुद्रो गणको निचृद्‍गायत्री श्रीगणपतेरेनं मन्त्रराजमन्योन्याभावात्प्रणवस्वरूपस्यास्य परमात्मनो‍ऽड्रानि जानीते स जानाति सोऽमृतत्वं च गच्छति । योऽघीते स सर्वं तरति । य एनं मन्त्रराजं गणपते: सर्वदं नित्यं जपति सोऽग्निं स्तम्मयति स उदकं स्तम्मयति स वायुं स्तम्भयति स सूर्यं स्तम्भयति स सर्वान्देवान्स्तम्भयति स विषं स्तम्भयति स सर्वोपद्र- वान्स्तम्भयति । इत्युपनिषत् । य एनं मन्त्रराजं नित्यमधीते स विघ्नानाकर्षयति देवान्यक्षान् रोगान् ग्रहान्मनुष्यान् सर्वानाकर्षयति । स भूर्लोकं जयति स भुवर्लोकं जयति स स्वर्लोकं स महर्लोकं स जनोलोकं स तपोलोकं स सत्यलोकं स सप्रलोकं स सर्वलोकं जयति । सोऽग्निष्टोमेन यजते सोऽत्यग्रिष्टोमेन स उक्थेन स षोडशीयेन स वाजपेयेन सोऽ‍तिरात्रेण सोऽप्तोर्यामेण स सर्वै: क्रतुभिर्यजते । य एनं मन्त्रराजं वैघ्रराजं नित्यमधीते स ऋचोऽधीते स यजूंष्यधीते स सामान्यधीते सोऽथर्वणमधीते सो‍ऽड्रिरसमधीते स शाखा अधीते व पुराणान्यधीते स कल्पानधीते स गाथा अधीते स नराशंसीरधीते स प्रणवमधीते । य एनं मम्त्रराजं गाणेशं वेद स सर्वं वेद स सर्वं वेद । स वेदसम: स मुनिसम: स नागसम: स सूर्यसम: सोऽग्निसम इति । उपनीतैकाधिकशतं गृहस्थैकाधिकशतं वानप्रस्थैकाधिकशतं रुद्रजापकसमम् । यतीनामेकाधिकशतमथर्वशिर:शिखाध्यापकसमस्‍ । रुद्रजापकैकाधिकशतमथर्वशिर:शिखाध्यापकै काधिकशतं गाणेशतापिनीयोपनिषदध्यापकसमम् ।        
मन्त्रराजजापकस्य यत्र रविसोमौ न तपतो यत्र वायुर्नक्षत्राणि न वाति भान्ति यत्राग्रिर्मृत्युर्न दहति प्रविशति यत्र मोहो न दु:ख्म सदानन्दं परानन्दं समं शाश्वतं सदाशिवं परं ब्रह्मादिवन्दितं योगिध्येयं परमं पदं चिन्मात्रं ब्रह्मणस्पतिमेकाक्षरमेवं परमात्मान्म बाह्यात्ते लब्धांशं ह्रदि समावेश किञ्चिज्जप्त्वा ततो न जपो न माला नासनं न ध्यानावाहनादि । स्वयमवतीर्णो ह्मयमात्मा ब्रह्म सोऽह्‍मात्मा चतुष्पात् । बहि:प्रज्ञ: प्रविविक्तभुक्‍ तैजस: । यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्रं पश्यति तत्सुषुप्तम् । तत्रैकीभूत: प्रज्ञानघन एवानन्दभुक्‍ चेतोमुख: पाज्ञ: ।
एष सर्वेश्र्वर: सर्वांन्तर्यामी एष योनि: सर्वभृतानाम्  । न बहि:प्रज्ञं नान्त:प्रज्ञं नोभयत:प्रज्ञं न प्रज्ञानघनमव्यपदेश्यमव्यवहार्यमग्राह्ममलक्षण- मचिन्त्यमैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतमेवं चतुष्पादं ध्यायन् स एवात्मा भवति । स आत्मा विज्ञेय: सदोज्ज्वलो‍ऽविद्यातत्कार्यहीन: स्वात्मबन्धरहितो द्वैतरहितो निरस्ताविद्यातमोमोहाहड्कारप्रधानमहमेव सर्वमिति सम्भाव्य विध्नराजब्रह्मण्यमृते तेजोमये परंजोतिर्मये सदानन्दमये स्वप्रकाशे सदोदिते नित्ये शुद्धे मुक्ते ज्ञेश्वरे परे ब्रह्माणि रमते रमते रमते रमते । य एवं
गणेशतापनीयोपनिषदं वेद स संसारं तरति घोरं तरति दु:खं तरति विघ्नांस्तरति महोपसर्गं तरति । आनन्दो भवति स नित्यो भवति स शुद्धो भवति स मुक्तो भवति स स्वप्रकाशो भवति स ईश्वरो भवति स मुख्यो भवति स वैश्वानरो भवति स तैजसो भवति स प्राज्ञो भवति स साक्षी भवति स एव भवति स सर्वो भवति स सर्वो भवतीति । इत्युपनिषत् । ॐ स ह नाववतु ॥ इति गणेशोत्तरतापिन्युपनिषत्पु पञ्चमोपनिषत् ॥५॥
ॐ ॥ अथोवाच भगवती गौरी ह वै रुद्रमेतस्य रुद्रो विधिं लब्धांशं गुरुदेवतयोरालभ्य मनसा पुष्पं निवेद्योपक्रम्य भूतोत्सारणमासनबन्धाद्यात्मरक्षासुनियमभूतशुद्धिप्राणस्थापनप्रणवावर्तनमातृपूजनान्तर्मातृकान्तर्यागादि सम्पाद्यात्र केचन समन्त्रं मूलवैदिककल्पैरुपक्रमं ग्रहणसर्माणनिवेदनानि बाह्मेऽन्यथेति महार्घ्यं शड्खं त्रिपाद्योर्ग- न्धादिना पूजितयो: स्थाप्य पात्रासादनं दक्षिणोपक्रमेण पाद्यार्घ्याचमनमधुपर्कपुनराचमननिवेदनपात्राणि संस्थासु यथोपदिष्टं चतुर्थ्यो: पर्वणि
संस्थासु यथाविधि स्थाप्य निवेदने प्रक्षालनमेव ततो‍ऽर्वाकू पञ्चामृतपात्राणि रिक्तं च मूलेनालभ्य निवेदिन्यार्घोदकेनात्मानं पात्राणि सम्मारं च प्रोक्ष्य पात्रातिरिक्तानि महार्घ्योदकेन सर्वनिवेदनं करशुद्धिं मूलासुनियमं यथोक्तर्षिच्छन्दोदैवतं स्मृत्वा विनियोगश्च नित्ये पूजाड्रो अपो जपाड्रा पूजा जप इत्यड्‍गुष्ठव्यापकस्वान्ताष्टाड्रदण्डिमुण्डिन्यासादि कृत्वा मुखमवेक्ष्यात्मानं देवरूपिणं सम्भाव्य भूर्ध्रि पुष्पं दत्त्वा पीठं सम्पूज्यासनं दत्त्वा ऋष्यादि कृत्वा ध्यात्वा हदयाम्मोजे योगिनोऽत्र जपन्ति । स्वान्ताम्मोजाद्देवमावाह्य मुद्रां दर्शयित्वा देवस्य सकलीकरणाड्‍गुप्ठहदयार्पिन्या स्वान्ते मुद्रां निवेद्य पात्राणि च मूलेन दत्त्वा रिक्ते पञ्चामृतं संयोज्य तेन पञ्चवारं सकृद्वाऽभिषिच्य नित्येन संतर्प्य कल्पस्तवनादिपुरुषसूक्त-
रुद्राध्यायघोषशान्त्यादिना मूलेन चाभिषिच्च सर्वपूजां निवेद्य दीपं त्रिर्भ्राम्य सव्येनाप्लाव्य महानैवेद्यपीठावरणान्युपसंह्रत्य दर्शयेत् ।
ताम्वूलान्ते किञ्चिन्मूलमावर्त्य पुनर्धूपादित्रयभक्ष्यादि निवेद्य मुद्रा: सर्वोपचारत्त्य दर्शयित्वा निवेदन मिदमासनं नम: पाद्ये एषोऽर्घ्य: स्वाहेति दक्षिणकरेऽर्घे इदं स्वधेति पुर स्त्रिके मुखे नम इति स्नानेष्वेष गन्धो नमोऽक्षतेश्षु ॐ पुष्पाणि नम: पुष्पेप्वेष धूपो दीपो नमो धूपदीपयो: समर्पयामीति नै वैद्यफलताम्बूलेषु निवेदयामि नमो हिरण्ये एष पुष्पाअलि-
र्नम इति मालायामिति परमं रहस्यमप्रकाश्यं बीजं य एवं वेद स सर्वं वेद स सर्वं वेद । वर्णार्थं लब्धांशेन मन्त्रार्थेन च पीठावरणदेवतावधानेन वा जपति स जपति । मुख्यं लब्धांशमासनं मृदुलं भुक्तरिक्तवास: कौसुम्ममाञ्चिष्ठरक्तकम्बलचित्रमृगव्याघ्राजिनं वा यथोक्तमुक्तान्यतरैरासनान्तरयोजनास्फटिककमलभद्राक्षमणिमुक्ताप्रवालरुद्राक्षकुशग्रन्थिषु वा जपति स जपति । कुशमयी नित्याक्षालनं चन्दनालेपो धूपेनाभिमन्त्र्य पृथगभिमन्त्रणं सद्योजातै: पञ्चभि: प्राणस्थापनजीवनतर्पणगुप्तानि व स्वमूले गुह्यं वामेन स्पृशेन्न दर्शयेत् । एवं श्रावणे पवित्रेण मधौ दमनेन जपमालया महानवम्यां तापस्यां चतुर्थ्या तिल्लड्‍डुकै: सप्तम्यां - शीतलचन्दनेन शिवरात्र्यां बिल्वदलमालयाऽन्यस्मिन्पर्वणि महत्याफलेक्षुनारीकेलापूपानन्यानि च यथोपदिष्टमाहुति भिर्जुहोति । जपष्च प्राक्प्रवणे होमोऽन्यथोपास्य: । एवं य: करोति सोऽमृतत्वं विन्दति स प्रतिष्ठां प्राप्रोति मुक्तिं विन्दति भुक्तिं भुनक्ति वाचं वदति यशो लभते । इदं रहस्यं यो जानाति स जानाति ग्रोऽधीते सोऽधीते स आनन्दो भवति स नित्यो भवति स विशुद्धो भवति स मुक्तो भवति स
प्रकाशो भवति स द्यावान्भवति ज्ञानवान्भवत्यानन्दवान्भवति विज्ञानवान्भवति विज्ञानानन्दो भवति सोऽमृतत्वं भवत्यमृतत्वं भवतीति ।
इति गणेशोत्तरतापिन्युपनिषत्सुषठोपनिषत् ॥६॥
इत्याथर्वणीया गणेशतापिन्युषनिषत्समाप्ता ॥
ॐ स ह नाववत्विति शान्ति: ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP