मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
अधुना शृणु देवस्य साधनं य...

गणेशस्तोत्रम् - अधुना शृणु देवस्य साधनं य...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


अधुना शृणु देवस्य साधनं योगदं परम् ॥
साधयित्वास्वयं योगी भविष्यति न संशय: ॥१॥
स्वानन्द: स्वविहारेण संयुक्तश्च विशेषत: ॥
सर्वसंयोगकारित्वाद्‍गणेशो मायया युत: ॥२॥
विहारेणा विहीनश्चायोगो निर्मायिक: स्मृत: ॥
संयोगाभेदहीनत्वाद्भवहा गणनायक: ॥३॥
संयोगायोगयोर्योग: पूर्णयोगस्त्वयोगिन: ॥
प्रह्लादगणनाथस्तु पूर्णो ब्रह्ममय: पर: ॥४॥
योगेन तं गणाधीशं प्राप्नुवन्तश्च दैत्यप॥
बुद्धि: सा पञ्चधा जाता चित्तरूपा स्वभावत: ॥५॥
तस्य माया द्बिधा प्रोक्ता प्राप्नुवन्तीह योगिन: ॥
तं विद्धि पूर्णभावेन संयोगायोगवर्जित: ॥६॥
क्षिप्तं मूढं च बिक्षिप्तमेकाग्रं च निरोधकम् ॥
पञ्चघा चित्तवृत्तिश्च सा माया गणपस्य वै ॥७॥
क्षिप्तं मृढं च चित्तं च यक्तर्मणि च विकर्मणि ॥
संस्थितं तेन विश्वं वै चलति स्वस्वभावत: ॥८॥
अकर्मणि च विक्षिप्तं चित्तं जानीहि मानद ॥
तेन मोक्षमवाप्नोति शुक्लगलगत्या न संशय: ॥९॥
एकाग्रमष्टधा चित्तं तदेवैकात्मधारकम् ॥
संप्रज्ञातसमाधिस्थं जानीहि साधुसत्तम ॥१०॥
निरोधसंज्ञितं चित्तं निवृत्तिरूपधारकम् ॥
असंप्रज्ञातयोगस्थं जानीहि योगसेवया ॥११॥
सिद्धिर्नानाविधा प्रोक्ता भ्रान्तिदा तत्र सम्मता ॥
माया सा गणनाथस्य त्यक्तव्या योगसेवया ॥१२॥
पञ्चधा चित्तवृत्तिश्च बुद्धिरूपा प्रकीर्तिता ॥
सिद्धयर्थं सर्वलोकाश्च भ्रमयुक्ता भवन्त्यत: ॥१३॥
धर्मार्थकाममोक्षाणां सिद्धिर्मिन्ना प्रकीर्तिता ॥१४॥
मोहदा सिद्धिरत्यन्तमोहधारकतां गता ॥
बुद्धिश्चैव स सर्वत्र ताभ्यां खेलति विघ्नप: ॥१५॥
बुद्धया यद्‍बुद्धयते तत्र एश्चान्मोह: प्रवर्तते ॥
अतो गणेशभक्त्या स मायया वर्जितो भवेत् ॥१६॥
पञ्चधा चित्तवृत्तिश्च पञ्चधा सिद्धिमादरत् ॥
त्यक्त्वा गणेशयोगेन गणेशं भज भावत: ॥१७॥
तत: स गणराजस्य मन्त्रं तस्मै ददौ स्वयम् ॥
गणानान्त्वेति वेदोक्तं स विधिं मुनिसत्तम ॥१८॥
तेन सम्पूजितो योगी प्रह्लादेन महात्मना ॥
ययौ गृत्समदो दक्ष स्वर्गलोकं विहायसा ॥१९॥
प्रह्लादश्च तथा साधु: साधयित्वा विशेषत: ॥
योगं योगीन्द्रमुख्यं स शान्तिद्धारकोऽभवत् ॥२०॥
विरोचनाय राज्यं स ददौ पुत्राय दैत्यप: ॥
गणेशभजने योगी स सक्त: सर्वदाऽभवत् ॥२१॥
सगुणं विष्णुरूपं च निर्गुणं ब्रह्मवाचकम् ॥
गणेशेन धृतं सर्वं कलांशेन न संशय: ॥२२॥
एवं ज्ञात्वा महायोगी प्रह्लादोऽभेदमाश्रित: ॥
ह्रदि चिन्तामणिं ज्ञात्वाऽभजदनन्यभावत: ॥२३॥
स्वल्पकालेन दैत्येन्द्र: शान्तियोगपरायण: ॥
शान्तिं प्राप्तो गणेशेनैकभावोऽभवत्पर: ॥२४॥
शापश्चैव गणेशेन प्रह्लादस्य निराकृत: ॥
न पुनर्दुष्टसंगेन भ्रान्तोऽभून्मयि मानद ॥२५॥
एवं मदं परित्यज्य ह्लोकदन्तसमाश्रयात् ॥
असुरोऽपि महायोगी प्रह्लाद: स बभूव ह ॥२६॥
एतत्प्रह्लादमाहात्म्यं य: शृणोति नरोत्तम: ॥
पठेद्बा तस्य सततं भवेदीप्सितदायकम् ॥२७॥
इति श्रीमुद्‍गलपुराने गणेशस्तोत्र्म सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP