स्मरणालंकार: - लक्षण २
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
‘ इत एव निजालयं गताया वीनताया गुरुभि: समावृताया: । परिवर्तितकंधरं नतभ्रु स्मयमानं वदनाम्बुजं स्मरामि ॥’
अत्र स्मरणं चिन्तोद्बुद्धसंस्कारप्रयोज्यत्वान्नालंकार: । व्यड्रयत्वविरहाच्च न भाव: ।
एवम्-
‘ दरानमत्कंधरबन्धमीषन्निमीलितस्निगधविलोचनाब्जम् । अनल्पनि: श्वासभरालसाड्रया: स्मरामि सड्रं चिरमड्रनाया: ॥’
इहाआप स्मृतिर्न भावो नाप्यलंकार: । व्यड्रयस्यैव व्यभिचारिणो भाव-त्वात् । यथा ‘ सा वै कलड्कविधुरा मधुराननश्री: ’ । अयं चालंकारिकाणां संप्रदायो यत्सादृश्यमूलकत्वे स्मरणं निदर्शनादिवदलंकार: । तस्याभावे व्यड्रयतायां भाव: । तयोरभावे तु वस्तुमात्रम् ।
अप्पयदीक्षितास्तु-
“-‘ स्मृति: सादृश्यमूला या वस्त्वन्तरसमाश्रया । स्मरणालंकृति: सा स्यादव्यड्रयत्वविशेषिता ॥’
यथा-
‘ अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यीचकार । सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियाया: ॥ ’
यथा वा-
‘ दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्त: स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्तीमस्मार्षीज्जलनिधिमन्थनस्य शौरि: ॥’
एकत्र सदृशदर्शनात्तत्सदृशकर्भिका स्मृति: । इतरत्र सदृशदर्शनात्त-त्सदृशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृति: । उभयत्रापि सादृश्य-मूलकवस्त्वन्तरस्मृतित्वमविशिष्टम् । अत एव सदृशासदृशसाधारण्यार्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP