स्मरणालंकार: - लक्षण ६
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अत्र सादृश्यप्रयोजकस्य साधारणधर्मस्य साक्षादुपादानानुपादानयो-रुपमायामिवात्रापि व्यवस्था । तथा हि उपमायां तावत्क्कचिद्धर्मो नियमेन प्रतीयमान: । साक्षान्नोपादेय एव । यथा ‘ शड्खवत्पाण्डुरच्छवि: ’ इत्यत्र पाण्डुरत्वम् । ‘ शड्खवत्पाण्डुरोऽयम् ’ इत्यादौ तु नानाविधेषु धर्मेष्वनेनैव धर्मेण सादृश्यमित्यस्य दुरवगमत्वात्, सर्वत्रोपमानोपमेयसाधारणस्य श्लिष्टशब्दात्मकस्यान्यस्य वा स्वानभिप्रेतस्य साधारणधर्मस्योपमाप्रयो-जकत्वसंभवात्तद्वारणाय पाण्डुरत्वादिधर्मो वाच्यतां नीयते । यथा वा अरविन्दमिव सुन्दरं मुखम्’ इत्यादौ सुन्दरत्वादि: । न नीयते च क्कचित् ,
वक्तुरन्यस्यानुपस्थानात्प्रसिद्धे: प्राबल्यात् । यथा ‘ अरविन्दमिव मुखम् ’ इत्यादौ स एव । अप्रसिद्धश्व धर्मोऽवश्यं साक्षादुपादेय: । अन्यथा तस्याप्रतिपत्तौ कवेस्तदुपमानिर्माणप्रयासवैयर्थ्यापत्ते: । यथा ‘ नीरदा इव ते भान्ति बलाकाराजिता भटा: ’ इत्यादौ श्लिष्टशब्दात्मक: । इत्थं च कश्चित्साधारणो धर्म: साक्षादनुपादेय एव । कश्विदुपादेयानुपादेयश्च । कश्विदुपादेय एवेति सह्लदयसंमत: समय: । एवमेवोपमाजीवातुकोऽस्मि-न्स्मरणालंकारेऽपि बोध्यम् । तत्रानुगामिनि धर्मे ‘ स्मृत्यारूढं भवति किमपि ’ इत्यादौ पद्ये निवेदितमेव स्मरणम् । बिम्बप्रतिबिम्बभावान्नेऽपि
धर्मे ‘ भुजभ्रमितपट्टिश- ’ इत्यादिपद्ये निरूपितम् । कुलिशपट्टिशयोर्भूधर-दन्तावलयोश्च बिम्बप्रतिबिम्बभावात् ।
उपचरिते यथा-
‘ क्कचिदपि कार्ये मृदुलं क्कापि च कठिनं विलोक्य ह्लदयं ते । ‘ को न स्मरति नराधिप नवनीतं किं च शतकोटिम् ॥ ’
यथा वा-
‘ अगाधं परित: पूर्णमालोक्य स महार्णवम् । ह्लदयं रामभद्रस्य सस्मार पवनात्मज: ॥’
अत्र मृदुलत्वादयो धर्मा ह्लद्युपचरिता: । इयांस्तु विशेष:- यदेकत्रा-
नुभूयमाने ह्लदये स्मर्यमाणनवनीतादे: सादृश्यस्य सिद्धि:, अपरत्र तु स्मर्यमाणे ह्लदयेऽनुभूयमानसभुद्रस्येति, सादृश्यस्योभयाश्रयत्वात् ।
केवलशब्दात्मके यथा-
‘ ऋतुराजं भ्रमरहितं यदाहमाकर्णयामि नियमेन । आरोहति स्मृतिपथं तदैव भगवान्मुनिर्व्यास: ॥’
अत्र भ्रमरहितशब्दो व्यासवसन्तयो: साधारण: । एवमन्येऽपि प्रभेदा: सुधीभिरुन्नेया: । इह पुनर्दिड्भात्रमुपदर्शितम् ।
इति रसगंगाधरे स्मरणालंकारनिरूपणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP