अतिशयोक्ति अलंकारः - लक्षण ३
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अथ प्रकारान्तरम्-यत्राभेदेऽपि भेदो लोकोत्तरत्वप्रतिपत्त्यर्थ:, इदमेव प्रस्तुतस्यान्यत्वमित्यनेनोक्तम् ।
उदाहरणम्-
अन्य जगद्धितमयी मनस: प्रवृत्ति-रन्यैव कापि रचना वचनावलीनाम् । लोकोत्तरा च कृतिराकृतिरार्यह्लद्या विद्यावताम सकलमेव चरित्रमन्यत् ॥ ’
एवमन्य: प्रकार:- यत्रासंबन्धेऽपि संबन्धो वर्ण्योत्कर्षार्थ: ।
यथा-
‘ धीरध्वनिभिरलं ते नीरद मे मासिको गर्भ: । उन्मदवारणबुद्धया मध्येजठरं समुच्छलति ॥ ’
अत्र सिंहीवचने समुच्छलनाऽसंबन्धेऽपि समुच्छलनसंबन्धोक्ति: शौर्यातिशायिका ।
यथा वा-
‘ गिरं समाकर्णयितुं यदीयां सदा रसज्ञैरनुभावनीयाम् । समीहते नित्यमनन्यचेता नभस्वदात्मंभरिवंशनेता ॥’
यथा वा-
‘ तिमिरशारदचन्दिरतारका: कमलविद्रुमचम्पककोरका: । यदि मिलन्ति कदापि तदानन्म खलु तदा कलया तुलयामहे ॥’
पूर्वत्र निर्णीयमान: , इह तु संभाव्यमान इति विशेष: । तथान्य: प्रकार:-यत्र संबन्धेऽप्यसंबन्ध: ।
यथा-
‘ पीयूषयूषकल्पामल्पामपि ते गिरं निपीतवताम् । तोषाय कल्पते नो योषाधरबिम्बमधुरिमोद्रेक: ॥ ’
N/A
References : N/A
Last Updated : January 17, 2018
TOP