अतिशयोक्ति अलंकारः - लक्षण ४

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.

Tags :

अत्र तोषसंबन्धेऽप्यसंबन्ध: ।
एवमेवान्योऽपि प्रकार:- यत्र प्रयोजकस्य प्रयोज्यस्य च पौर्वापर्यविपर्यय: । स च द्वयो: । सहभावात्‍ , प्रयोजकस्य प्रयोज्यानन्तरभावाद्वेति द्वेधा । आद्यो यथा-‘ प्रतिखुरनिकरशिलातलसंघट्टसमुच्चलद्विद्युद्वल्लीकृत-विस्फुलिड्रच्छटापटलानां वाजिनाम्‍ ’ इति हयवर्णने समुच्छलनविद्युद्वल्ली-करणयो: सहोत्पत्तिर्गम्यते ।
द्वितीयो यथा-
‘ पुर: पुरस्तादरिभूपतीनां भवन्ति भूवल्लभ भस्मशेषा: । अनन्तरं ते भ्रुकुटीविटड्कात्स्फुरन्ति रोषानलविस्फुलिड्रा: ॥’
अत्र भेदद्वये प्रयोजकातिशयकृत: प्रयोज्यशैघ्र्यातिशयो गम्य: । एवं च ‘ एतद्भेदपञ्चकान्यतमत्वमतिशयोक्तिसामान्यलक्षणम्‍ इति प्राचीना: ।
अन्ये तु-‘ संबन्धेऽसंबन्ध:, असंबन्धे संबन्ध इति भेदद्वयं नाति-शयोक्ति: । एतादृशातिशयस्य रूपकदीपकोपमापह्लुत्यादिषु स्वभावोक्तिभिन्नेषु प्रायश: सर्वेष्वलंकारेषु सत्त्वात्‍ । नहि यथास्थितवस्तूक्तावस्ति काचिद्वि-च्छित्ति: । कार्यकारणपौर्वापर्यविपर्ययस्यापि तेनैव व्याप्ततया भेदान्तर-तानापत्तेश्च । तस्माद्विषयिणा निगीर्याध्यवसानं विषयस्य, तस्यैवान्यत्वम्‍, यद्यादिशब्दैरसंभविनोऽर्थस्य कल्पनम्‍, कार्यकारणापौर्वापर्यविपर्ययश्चेत्येत-दन्यतमत्वमतिशयोक्तित्वम्‍ ’ इत्याहु: ।
नव्यास्तु-‘ निगीर्याध्यवसानमेवतिशयोक्ति: । प्रभेदान्तरं त्वनुगतरू-पाभावादलंकारान्तरमेव । ननु प्रस्तुतान्यत्वभेदे-भेदेनाभेदस्य, असंबन्धे संबन्ध इति भेदे-संबन्धेनासंबन्धस्य, संबन्धेऽसंबन्ध इति भेदे--असं-बन्धेन संबन्धस्य, कार्यकारणपौर्वापर्यविपर्यये च तेनैवानुपूर्व्यस्य च निगरणं रत्नाकरविमर्शिनीकाराद्युक्तप्रकारेण संभवतीति चेत्‍, न । अन्यत्वादिभिरनन्यवस्तुप्रतीतेरेव चमत्कारित्वम्‍ , न त्वनन्यत्वादिभि: ।
तेषामनुभवासंगते: । न चान्यतमत्वमनुगतमिति शक्यते वक्तुम्‍ । विच्छित्ति-वैलक्षण्ये सत्यन्यतमत्वस्याप्रयोकत्वात्‍ । अन्यथोपमारूकादिकति-पयान्यतमत्वं सकलान्यतमत्वं वा तल्लक्षणम्‍, उपमादयश्च तद्भेदा इत्येव किंन ब्रूया: । अलंकारान्तरत्वे गौरवमित्यपि न वाच्यम्‍ । न ह्यत्राक्लप्तपदार्थ-कल्पनं येन गौरवं स्यात्‍ । प्रधानोत्कर्षकतारूपस्यालंकारत्वस्य त्वयापि स्वीकारात्‍ । अलंकारविभाजकोपाधिपरिगणनस्य च पुरुषपरिकल्पित-त्वात्‍ । ’ इत्यपि वदन्ति ।
‘ गगनचरं जलबिम्बं कथमिव पूर्णं वदन्ति विद्वांस: । दशरथचत्वरचारी ह्लज्ज्वरहारी विधुस्तु परिपूर्ण: ॥ ’
इत्यादौ विषयिण: स्वाभाविकस्थाननिह्लवेन दृढाध्यवसानातिशयोक्ति: । यत्तु कुवलयानन्दे-
‘ यद्यपह्लुवगर्भत्वं सैव सापह्लुवा मता । त्वत्सूक्तिषु सुधा राजन्भ्रान्ता:  पश्यान्ति तां विधौ ॥’
इत्यत्र पर्यस्तापह्लुतिगर्भामतिशयोक्तिमाहुस्ताच्चिनत्यम्‍ । पर्यस्तापह्लुतेर-पह्लुतित्वं न प्रामाणिकसंमतमिति प्रागेवावेदनात्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP