दीपक अलंकारः - लक्षण २

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.

Tags :

अत्र कर्तृकर्मणो: । एवं वक्ष्यमाणे ‘ लावण्येन प्रमदा-’ इत्यत्र कर्तृ-करणयो: । ‘ दिवि सूर्य० ’ इत्यत्र कर्त्रधिकरणयो: ।
अमुनैव न्यायेनानेकासां क्तियाणामेककारकान्वये कारकदीपकम ।
यथा-
‘ वसु दातुं यशो धांतु विधातुमरिमर्दनम्‍ । त्रातुं च मादृशान्राजन्नतीव निपुणो भवान्‍ ॥ ’
अत्र वृत्तिहिनस्य कस्यचिद्दीनस्य वचने वसुदान-स्वत्राणलक्षणयो: क्तिययो: प्रकृतयो: , अरिमर्दनस्य चाप्रकृतस्य, यशोधानस्य चोभायात्मन: साधारणं कर्तृकारकम्‍ ।
यथा-
‘ वासयति हीनसत्त्वानतिसत्त्वानुद्धतान्विवासयति । त्रासयति सकलशत्रून्नीतिविदामग्रणीर्नराधिपति: ॥’
अत्र कस्यचिद्धीनसत्त्वस्य, सत्त्वाधिकमसहमानस्य वा, शत्रुपरि-पीडितस्य वा कस्यचिद्राजानं कंचित्प्रत्युक्तौ सामान्यविशेषरूपायामप्रस्तुत-प्रशंसायामेकस्या: क्तियाया: प्रकृताया: इतरयोश्चाप्रकृतयो: साधारणं तत्‍ । यदि तु प्रागुक्तवक्तृभिन्नस्य कस्यचिद्राजस्तोतुर्नीतिमात्रबोधकस्य चेयभुक्ति-स्तदा क्तियाणां प्रकृताप्रकृतरूपत्वाभावात्तुल्ययोगितैव । यत्तु-
‘ सकृद्‍वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम्‍ । सैव क्रियासु बह्लीषु कारकरयेति दीपकम्‍ ॥ ’
इति लक्षणमुक्त्वा-
‘ स्विद्यति कूणति वेल्लति विवलति निमिषति विलोकयति तिर्यक्‍ । अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूळ शयने ॥ ’
इति द्वितीयं दीपकमुदाह्लतं काव्यप्रकाशकृद्भि: । तत्र विचार्यते-प्रथमार्धगतलक्षणेनैव दीपक्तियारूपधर्मस्येव क्रियाणामपि कारकरूपधर्मस्य सकृद्‍वृत्ते: साम्राज्यात्‍ । न च क्रियाणां प्रकृताप्रकृतात्मताविरहे‍ऽपि शुद्धप्रकृतत्वे शुद्धाप्रकृतत्वेऽपि वा कारकस्य सकृद्‍वृत्तेर्दीपकत्वम्‍, क्तिया-भिन्नामां तु प्रकृताप्रकृतात्मतायामेव क्तियादेर्धर्मस्येति वैलक्षण्याल्लक्षण-द्वयमिति वाच्यम्‍ । कारकतुल्ययोगितोच्छेदापत्ते: । सकलालंकारिक-सिद्धान्तविरोधापत्तेश्च । लक्षणद्वयस्याननुगतत्वाच्च । तादृशलक्षणद्वयान्यतरवत्त्वस्य लक्षणत्वे गौरवादुपप्लवप्रसड्राच्च । एवं च ‘ स्विद्यति कूणति-’ इत्या-द्युदाहरणमपि न संगच्छते, क्तियाणां शुद्धप्रकृतत्वात्‍ । किं च दीपकतुल्य-योगितादौ गम्यमानमौपम्यं जीवातुरिति सर्वेषां संमतम्‍ । न चात्र स्वेदनकू-णनादीनामेककारकान्वितानामप्यौपम्यं कविसंरम्भगोचर: । तस्मात्समुच्चया-लंकारच्छायाऽत्रोचिता । अस्मदुदीरितानां वसुदानादीनां हीनसत्त्व-वासनादीनां च राजकर्तृकाणां पद्यद्वयगतानामौपम्यप्रतीतौ सह्लदयह्लदय-मेव प्रमाणमिति न प्रतिबन्दिदानावसर: । यदि तु स्वेदनादीनामौपम्यं
प्रतीयत एवेत्याग्रहस्तथापि क्रियाणां शुद्धप्रकृतत्वात्तुल्ययोगिता स्यादपि न तु दीपकमित्यास्तां तावत्‍ । यदपि विमर्शिनीकृतोदाह्लतम्‍-
“ आलिड्रितुं शशिमुखीं च सुधां च पातुं कीर्तिं च साधयितुमर्जयितुं च लक्ष्मीम्‍ ।
स्वद्भक्तिमद्भुतरसां ह्लदये च कर्तुं मन्दादरं जनमहं पशुमेव मन्ये ॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP