दीपक अलंकारः - लक्षण ४
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अमुं चालंकारं धर्मस्य गुणक्रियाद्यात्मकस्यादिमध्यावसानगतत्वेन त्रिविधमामनन्ति । यथा-
‘ न भाति रमणीयोऽपि वैराग्येण विना यति: । वैदुष्येण विना विप्रो नरलोकस्त्वया विना ॥’
‘ लावण्येन प्रमदा मदातिरेकेण वारणाधिपति: । भाति विभवेन भवकान्राजन्भवता च वसुमतीवलयम् ॥ ’
आखण्डलेन नाक: कुण्डलिकुलकुण्डलेन पातालम् । नरमण्डन रिपुखण्डन भवता भूमण्डलं विभातितमाम् ॥ ’
एवं तुल्ययोगितायामप्यूह्यम् ।
वस्तुतस्तु धर्मस्यादिमध्यान्तगतत्वेऽपि चमत्कारवैलक्षण्याभावा-त्रैविध्योक्तिरापातमात्रात् । अन्यथा धर्मस्योपाद्युपमध्योपान्त्यगतत्वे ततो-ऽपि किंचिन्न्यूनाधिकदेशवृत्तित्वे चानन्तभेदप्रसड्रात् ।
एवं केवलानुगामिसाधारणधर्मतायां दर्शितं दीपकम् । बिम्बप्रति-बिम्बभावेनाप्येतत्संभवति । यथा-
‘ शीलभारवती कान्ता पुष्पभारवती लता । अर्थभारवती वाणी भजते कामपि श्रियम् ॥’
‘ लता कुसुमभारेण शीलभारेण सुन्दरी । कविता चार्थभारेण श्रयते कामपि श्रियम् ॥’
इदमेव लतादिष्वन्यतमस्य प्राकरणिकत्वे दीपकस्योदाहरणम्, अन्यथा तुल्ययोगिताया: । अत्र बिम्बप्रतिबिम्बतायां न केवलं क्तियारूपमनुगामि-मात्रं चमत्कारकारणम्, अपि तु कुसुमादिबिम्बप्रतिबिम्बकरम्बितम् । इयांस्तु विशेष:--यत्केवलबिम्बप्रतिबिम्बभावेनाप्युपमादीनां भवति निष्पत्ति: । यथा ‘ कोमलातपबालाभ्र-’ इत्यादौ । प्रकृते तु न तथा, अनु-
गामिन्म विना धर्मस्वरूपस्यैवानिष्पत्ते: । न हि बिम्बप्रतिबिम्बमात्रेण धर्मस्य सकृद्वृत्ति: संभवति । तथा ‘ मृतस्य लिप्सा-’ इत्यादिप्रागुक्ते मृतादीनाम्, कारकदीपके कारकतुल्ययोगितायां च ‘ वसु दातुं-’ इत्यादौ क्तियाणां धर्मित्वात्तद्विशेषणानां वस्वादीनां च बिम्बप्रतिबिम्बता बोध्या ।
उत्तरोत्तरस्मिन्पूर्वस्योपकारकतायां मालादीपकम् । यथा-
‘ आस्वादेन रसो रसेन कविता काव्येन वाणी तया लोकान्त: करणानुरागरसिक: सभ्य: सभा चामुना । दारिद्य्रानलदह्यमानजगतीपीयूषधाराधर क्षोणीनाथ तया भवांश्च भवता भूमण्डलं भासते ॥’
N/A
References : N/A
Last Updated : January 17, 2018
TOP