अथ ऋक्‌पुरश्चरणम्‌

प्रस्तुत ग्रंथात मंत्र, व्याख्यान, मराठी अर्थ आणि मंत्रविधान एकत्र मिळाल्याने जिज्ञासूंची तृप्ती पूर्ण होईल असा विश्वास आहे.


अथ द्वादशसहस्रादिऋक्‌संख्यात्मकं पुरश्वरणं उच्यते - तच्च द्विविधं, ‘गुरुपदिष्टमंत्रस्याहर्निशं साधनं तु यत्‌ । नित्यं नैमित्तिकं वर्षे शरदि स्याच्च पूजनम्‌ ॥ कामनां मनसा कृत्वा पुरश्चर्यां समाहित: । काम्यं तत्प्रोच्यते तद्वै धनादिविषयैषिण: ॥ पुरश्चरणमादौ तु कर्मणां सिद्धिकारकम्‌ । आरभ्य शुक्लप्रतिपद्‌ यावदेकादशी भवेत्‌ ॥ तावद्‌द्वादशसाहस्रं ऋचां जप्त्वा शुचिव्रत: । सितप्रतिपदारभ्य यावदष्टमिका भवेत्‌ ॥ पंचसप्ततिधा (७५) सूक्तं प्रत्यहं प्रयतो जपेत्‌  । ततो दिनद्वयं सप्तषष्टिसंख्यमुदीरितम्‌ ॥ षट्‌षष्टिसंख्यमेकस्मिन्‌ दिवसे प्रजपेत्‌ सुधी: । एवमेकादशी यावदर्कसंख्यामितो जप ॥ संहत्य ता ऋचा: प्रोक्ता सहस्रं द्वादशैव हि । अथ तद्दसमांशेन पद्मैस्त्रिमधुरप्लुतै: ॥ पायसाज्यैर्बिल्वदद्लैर्होम: कार्यो यथाविधि । उपहारानुपहरेच्छुक्लान्भक्ष्यान्पयो दधि ॥ दंपतीभ्यां प्रयत्नेन हयनंतां लभते श्रियम्‌ ॥’ इति ।
अस्यार्थ :--- तत्र सामान्यत: कर्मण: नित्यं नैमित्तिकं काम्यं चेति त्रैविध्यम्‌ ॥ गुरूपदिष्टमंत्रादे: अहर्निशं कर्तव्यत्वेनानुष्ठानं नित्यम्‌ ।  शरद्दतुप्रतिपदादिनिमित्तोपस्थितौ कर्तव्यं नैमित्तिकम्‌ । यस्मिन्कस्मिन्नपि शुभे मासे धनादिकामनया  क्रियमाणं काम्यम्‌ । यस्थकस्थापि मंत्रादे: फलसिद्धौ पुरश्वरणं प्रधानं कारणम्‌ । इत्यत:
द्वादशसहस्रादिसंख्यात्मकऋक्‌पुरश्चरणं वक्ष्यमाणरीत्यानुष्ठेयम्‌ । अत्र शुक्लप्रतिपद्‌ इति सामन्यनिर्देशात्‌ कस्मिंश्चिदपि वक्ष्यमाणोक्तमासे शुक्लप्रतिपदारभ्य अष्टमीपर्यंतं पंचदशर्चं श्रीसूक्तं प्रत्यहं पंचसप्ततिसंख्यं जपेत्‌ । ततो नवम्यां दशम्यां सप्तषष्टिधा जपेत्‌ । तत पूर्तिर्भवति इति ।


References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP