ऋक्‌पुरश्चरणं द्विविधमुक्तम्‌

प्रस्तुत ग्रंथात मंत्र, व्याख्यान, मराठी अर्थ आणि मंत्रविधान एकत्र मिळाल्याने जिज्ञासूंची तृप्ती पूर्ण होईल असा विश्वास आहे.


एवं द्वाद्शसहस्रसंख्याकं ऋक्‌पुरश्चरणं द्विविधमुक्तम्‌ । वैद्यनाथपायगुण्डेमतेन अत्र ऋक्‌पुरश्चरणेऽपि पूर्वोक्ता: पंचदशशतादयोप्यन्ये पक्षा बोद्धव्या: । तेषामपि काल: शुक्लप्रतिपदारभ्यैकादशीपर्यंत उक्त एव तदनुसारेण प्रत्याहिक: सूक्तावृत्तिनियम: कल्पनीय; । ततो द्वादश्यामेव पूर्ववत्‌ तद्दशांशादि हवनाद्यनुष्ठेयम्‌ ॥ पंचदशशतपक्षे यथा - शुक्लप्रतिपदारभ्य अष्टमीपर्यंतं अष्टदिवसेषु दशावृत्तौ (८०) अशीतिपाठा: सूक्तस्य संपन्ना: एवं ऋचां द्वादशशती पूर्णा । ततो नवमीदशम्यो: प्रत्यहं अष्टावृत्तौ षोडशपाठा:, अवशिष्टाअत्वार : पाठा एकादश्यां, एवं सूक्तस्य शतावृत्त्यां पंचदशशतात्मकऋक्‌पुरश्चरणपक्ष: संपन्नो भवति । अनयैव दिशा आवृत्तिकल्पनया द्वादशशतावृत्ति: सहस्रावृत्तिपक्षश्चोहय: । अस्मन्मते सूक्तावृत्तिपक्ष एव द्वादशशतावृत्तिपंचदशशतावृत्त्यादय: पक्षा: अनुसर्तव्या: ।
इति ऋक्‌पुरश्चरणविचार: ।


References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP