एवनादयो बहवो नियमास्तत्र तत्रोक्तास्ते च देशकालाद्यनुगुणं यथाशक्ति अनुसर्तव्या इति । तदुक्तं सौ० कल्पद्रुमे - वृद्धयोषिद्रोगिणां तु नियम: स्यात्तु शक्तित: । इति । अत्र रोगिपदं आपद्रस्तप्रापंचिकानामप्युपलक्षणमिति मन्ये । इदमत्रावश्यमवधेयम् यदेतन्नियमनिबन्धनें तत्तु उपासनार्थं यथाविधि गुरुमुखाद्नहीयैतस्व मंत्रस्य जपाद्यनुष्ठानादे: न तु भगवन्नामस्मरणस्य, तत्तु यथारुचि यथाकालं ग्राहयम् । उक्तं च भागवते - सांकेत्यं पारिहास्यं वेत्यादि०
भा. स्कं. ६ अ. २
तथा वामनपंडितैरपि नामसुधायां :--- अहो येतां जातां उठत - बसतां कार्य करितां, सदा देतां घेतां वदनिं वदतां ग्रास गिळितां । घरीं दारीं शय्येवरि रतिसुखाचे अवसरीं, समस्तांची लज्जा त्यजुनि भगवच्चिंतन करीं ॥ इत्युक्तम् ॥