द्वितीयाष्टक - प्रथमोsध्याय:
श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "
ॐ प्रवरेतरहृद्वृत्तिनिरोधो योग उच्यते ॥
संप्रज्ञातेतरौ योगौ धर्मौ चित्तस्य पञ्च च ॥१॥
भ्वो मूढक्षिप्तविक्षिप्तैकाग्र्यविनिरुद्धका: ॥
तिस्रो बन्धाय मुक्त्यै द्वे योगिनामीशसेविनाम् ॥२॥
शान्तोग्रमूढवृत्त्यूने चित्ते नित्यैकरूपिण: ॥
स्वरूपेsवस्थितिर्द्रष्टुर्वृत्तिसारूप्यमन्यत: ॥३॥
क्लिष्टाक्लिष्टभिदा पञ्च वृत्तयोsत्र प्रमाणका: ॥
वेदानुमानप्रत्यक्षरूपाद्याथ विपर्यय: ॥४॥
मिथ्याज्ञानमतद्रूपप्रतिष्ठं क्लेशयुक्तथा ॥
शब्दज्ञानानुपाती तु वस्तुशून्यो विकल्पक: ॥५॥
अभावप्रत्ययालम्बा निद्रा सा तु तमोमयी ॥
अनुभूताsसंप्रमोष: स्मृतिस्तासां निरोधनम् ॥६॥
वैराग्याभ्यासतस्तत्र विरजोवृत्तिहृत्स्थितौ ॥
यमाद्यनुष्ठानरूपो यत्नोsभ्यासश्चिरं स तु ॥७॥
सत्कारसेवितो नित्यं दृढ: स्याच्चापराजित: ॥
सत्कारा: स्युर्ब्रह्मचर्यश्रद्धाविद्यातपोमुखा: ॥८॥
यतमानं हृन्मलान्तो गतैष्यमलनिश्चय: ॥
व्यतिरेको हृदि लयोत्कण्ठैकेन्द्रियसंज्ञकम् ॥९॥
वशीकारो दृष्टादृष्टार्थवैतृष्यं चतुर्विधम् ॥
वैराग्यमाद्यं पुंज्ञप्तेर्गुणवैतृष्यमुत्तमम् ॥१०॥
स्थूलस्यैंकाग्र्यं वितर्को विचारोsल्पस्य चिन्तनम् ॥
आनन्द: स्थूलाविषयी सत्त्वप्रत्यक्षविन्मते: ॥११॥
पुंस्त्वैक्यादस्मितायोगात्साक्षात्तद्ध्यानजं त्विति ॥
परिकक्वास्त्रिपुट्यैते संप्रज्ञातस्तदन्वयात् ॥१२॥
वृत्त्यभावे विरामस्तत्प्रत्ययो विरति: परा ॥
तदभ्यासादि: संस्कारविशेष: सात्त्विकोsपर: ॥१३॥
अयं विदेहप्रकृतिलयानां भवहेतुक: ॥
गोभूताहंकृतिमहत्प्रकृत्यात्मात्मचिन्तक: ॥१४॥
मन्वन्तराणां दशकमारभ्यात्र विलीयते ॥
दशोत्तरे गुणं नैति लीनो यो निर्गुणे पुन: ॥१५॥
श्रद्धायत्नक्रमध्यानसमाधिप्रज्ञकादिक: ॥
उपायप्रत्ययोsसंप्रज्ञातोsन्येषां तु योगिनाम् ॥१६॥
मृदुमध्याध्युपायास्ते नव तत्सिद्धयेsपि च ॥
आसन्नस्तीव्रविरतेस्तारतम्यात्तथान्यत: ॥१७॥
ईश्वरप्रणिधानाद्वा पुंविशेष: स ईश्वर: ॥
अविद्यादिक्लेशकर्मफलाशयविवर्जित: ॥१८॥
सर्वज्ञबीजं नि:शेषमनवच्छिन्नसद्गूरौ ॥
प्रणवस्तद्वाचकस्तज्जपस्तदर्थस्य भावनम् ॥१९॥
तत: प्रत्यक्त्वचैतन्यज्ञानं विघ्नात्ययस्तत: ॥
व्याधिस्त्यानभ्रान्तिदृष्टिप्रमादालस्यसंशया: ॥२०॥
भूम्यलाभमनोस्थैर्ये विरतिर्योगघातका: ॥
तन्मूलाश्चित्तविक्षेपदौर्मनस्यव्यथादय: ॥२१॥
तन्नाश ईशभक्त्यैव सुख्यकिक्षेमिपापिषु ॥
मैत्रीदयाप्रीत्युपेक्षाभावनाद्धृत्प्रसादनम् ॥२२॥
प्राणरेचनधृत्या वा प्रवृत्तिर्वाsर्थवत्यापि ॥
यद्यशोका वा हृत्पद्मे ज्योतिष्मत्यथवा हृदि ॥२३॥
वीतरागिस्थिते निद्रास्वप्नज्ञानावलम्बिते ॥
बाढं ध्यायत्यभीष्टं वा स्थूलाद्यण्वन्तवस्तु वा ॥२४॥
मणिवद्ग्राह्यग्रहणग्रहीतृस्थविवृत्तिहृत् ॥
या तदञुजनता प्रोक्ता समापत्तिश्चतुर्विधा ॥२५॥
सवितर्कात्र शब्दार्थविद्विकल्पैर्विमिश्रिता ॥
स्मृतिशुद्धौ विरूपे वार्थैकभासापरानया ॥२६॥
सविचारान्या च सूक्ष्मार्थोक्तास्या: सूक्ष्मकार्थता ॥
आप्रधानं तु ता एव समाधि: स्यात्सबीजक: ॥२७॥
निरूहस्वास्थ्ये त्वध्यात्मप्रसादोsत्र ऋतंभरा ॥
प्रज्ञा श्रुतानुमानान्यार्थशेषार्थत्वतो भृशम् ॥२८॥
संस्कारस्तद्भवो ह्यन्यबाधकस्तन्निरोधने ॥
सर्वप्रज्ञानिरोधाद्धि स्यान्निर्बीज: समाधिरुत् ॥२९॥
क्रियातपोजपेशार्चा: सिद्धयै क्लेशहराश्च ते ॥
पञ्चाविद्यास्मितारागद्वेषश्चाभिनिवेशक: ॥३०॥
आद्यान्यहेतुर्विच्छिन्नसुप्तोदारकृशा: परे ॥
अनित्याशुचिदु:खानात्मस्वविद्यान्यभावना ॥३२॥
स्वारस्यवाही ज्ञस्यापि तथारूढस्तु पश्चिम: ॥
प्रतिप्रसवहेयास्ते सूक्ष्मास्तद्वृत्तय: पुन: ॥३३॥
ध्यानहेया मलसमा: क्लेशमूल: क्रियाशय: ॥
स्वदृष्टादृष्टजननवेदनीयो यथायथम् ॥३४॥
सति मूले तद्विपाको जात्यायुर्भोगजोsत्र स: ॥
पुण्यापुण्यनिदानत्वाद्धर्षतापफल: स्मृत: ॥३५॥
परिणामतापसंस्कृतिदु:खैर्गुणदोषवैराच्च ॥
सर्वं विवेकिनामकमेव हि हेयं त्वनागतं दु:खम् ॥३६॥
द्रष्टृदृश्योर्हेयहेतु: संयोगो दृश्यमत्र तु ॥
क्रियाप्रकाशसंबन्धशीलं भूतेन्द्रियात्मकम् ॥३७॥
क्रमाद्भोगापवर्गार्थं गुणपर्वचतुष्टयम् ॥
विशेषसामान्यलिङ्गमात्रालिङ्गानि चेति हि ॥३८॥
द्रष्टा चिन्मात्र: शूद्धोपि प्रत्ययेनानुपश्यवत् ॥
दृश्यं तु द्रष्टृभोगार्थं कृतार्थस्याप्यदृश्यकम् ॥३९॥
दृश्यं तदन्यसामान्यात्तत्प्रत्येकेमृतं स्वत: ॥
संयोग: स्वस्वामिशक्तिस्वरूपप्राप्तिहेतुक: ॥४०॥
अविद्या संयोगहेतुस्तदभावे न संयुजि: ॥
ततो मुक्तदृशेर्मोक्ष उपचारोsप्यमात्मनि ॥४१॥
हानोपायोsविप्लवा या विवेकख्यातिरुत्तमा ॥
योगिनस्तस्य तु प्रज्ञा सप्तधा प्रान्तभूमिका ॥४२॥
आविवेकाज्ज्ञानदीप्तिर्योगाङ्गैरशुचिक्षये ॥
यमा अहिंसासद्ब्रह्मचर्यास्तेयापरिग्रहा: ॥४३॥
ते देशकालसमयजात्यच्छिन्ना महाव्रता: ॥
लोभक्रुण्मोहजास्ते तु कृतानुमतमोदिता: ॥४४॥
दु:खज्ञानानन्तफला मृदुमध्याधिमात्रका: ॥
नियमा: शौचसंतोषदेवभक्तितपांसि तु: ॥४५॥
वितर्कभावने चिन्त्यं प्रतिपक्षविभावनम् ॥
स्वाग्रेsवैरं त्वहिंसायां सत्ये सिद्धे फलागम: ॥४६॥
वीर्यं वर्णित्वेsस्तेयेsर्थोगमोsन्त्ये जन्मवेदनम् ॥
शौचात्स्वाङ्गजुगुप्सान्यासंसर्गस्त्वान्तराल्लघु ॥४७॥
सौमनस्येन्द्रियजयहृत्स्थैर्यात्मदृगर्हता ॥
संतोषाद्वरसौख्याप्तिस्तपसोङ्गाङ्गिसिद्धिरुत् ॥४८॥
स्वाध्यायादिष्टदेवाप्ति: समाधिर्देवभक्तित: ॥
आस्यास्थिरसुखं यत्नविरामाच्छेषचिन्तया ॥४९॥
द्वन्द्वाभावस्ततोsथास्वायामो वायुगतिक्षति: ॥
रेचकै: पूरकै: कुम्भैर्देशकालप्रमाणत: ॥५०॥
दीर्घ: परिवृढ: सूक्ष्मस्त्रय एते चतुर्थक: ॥
बाह्यान्तर्विषयाक्षेपी तत: सत्त्वावृतिक्षति: ॥५१॥
ततो हृद्धारणायोग्यं चित्तवृत्तानुकारवत् ॥
प्रत्याहारस्वार्थायोगे तत इन्द्रियवश्यता ॥५२॥
नाभ्यादिदेशे हृत्स्थैर्यं धारणाभीष्टचिन्तया ॥
प्रत्ययैकाग्रता तत्र ध्यानं ज्ञेयं तदेव तु ॥५३॥
रूपशून्यमिवार्थैकभासमङ्गसमाधिक: ॥
संयमस्त्रयमेकत्र प्रज्ञालोकस्तु तज्जयात् ॥५४॥
विनियोगस्तस्य भूमिष्वन्तरङ्गमिदं त्रयम् ॥
बहिरङ्गं त्वबीजस्य सिद्धिद: क्लेशहृत्स च ॥५५॥
इति द्वितीये प्रथम: ॥
इति श्रीदत्तपुराणें योगप्रकरणं नाम द्वितीयाष्टके प्रथमोsध्याय: ॥२।१॥
N/A
References : N/A
Last Updated : May 07, 2016
TOP