द्वितीयाष्टक - अष्टमोsध्याय:
श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "
॥ ॐ ॥ मन्द: स्वज्ञो भ्रमंस्तृष्णानद्येमं लोकमागत: ॥
कर्मयोगेन मुक्तिस्वर्मोक्षद्वारं यदृच्छया ॥१॥
निवृत्तोsस्म्यत्र यततां व्यत्ययं वीक्ष्य शर्मणे ॥
आत्मनोsस्य सुखं रूपं क्लिष्टे नष्टे स्वयंप्रभम् ॥२॥
ज्ञात्वा संस्पर्शजान्भोगान्दु:खान्स्वप्स्यामि दैवभुक् ॥
विस्मृत्यामुं जन: स्वार्थं सन्तं यात्युग्रसंसृतिम् ॥३॥
स्वार्थं मायावृतं त्यक्त्वा तदर्थ्यन्यत्र धावति ॥
शैवालछन्नकं त्यक्त्वा यथांब्वर्थी मरीचिकाम् ॥४॥
अभाग्यस्य क्रिया मोघा: सुखप्राप्त्यै प्रयोजिता: ॥
तत्साफल्येsप्यसिद्भि: किं कार्यं मर्त्यस्य कृच्छ्रजै: ॥५॥
कामार्थेच्छोर्मोहशोकरागद्वेषश्रमादय: ॥
यतोsजितात्मनो नैति निद्रापि भयशङ्कया ॥६॥
प्राणार्थेच्छा हि मधुकृच्छिक्षितेन मयोज्झिता ॥
राजार्थिहिंस्रचोरद्विट्कालेभ्यो न बिभेम्यत: ॥७॥
निरिच्छ: परितुष्टात्मा यदृच्छालाभतोsस्मि सन् ॥
बहुकालं शये नो चेद्विद्वान् धैर्यान्महाहिवत् ॥८॥
भूर्यल्पं स्वादु वाsस्वादु कदन्नं मानवर्जितम् ॥
समानं क्कापि भुञ्जेह्नि निशि भुक्त्वापि वा नवा ॥९॥
हरत्यन्य: पतिं हत्वा कृच्छ्राप्तं मधुवद्धनम् ॥
शिक्षितं मधुकृत्तोsतो विरक्तोsस्म्यपरिग्रह: ॥१०॥
दैवाप्तं चर्म वल्कं वा वस्त्रं क्षौमं वसे न वा ॥
क्कचिच्छयेsश्मभस्मादौ कशिपौ वा जने वने ॥११॥
क्कचित्स्नोतोsलंकृतोsहं स्रग्वी सुवसनो न वा ॥
रथेभाश्चैश्चरे क्कापि मुनिवत्क्कापि मुग्धवत् ॥१२॥
नाहं निन्दे न च स्तौमि स्वभावविषमं नरम् ॥
एतेषां श्रेय आशाय उतैकात्म्यमथात्मनि ॥१३॥
ब्रह्मासक्तो ब्रह्मनिष्ठो ब्रह्मात्मा ब्रह्मधीरहम् ॥
संस्कृते ब्राह्मणेsन्त्ये वा समदृग्गवि शुन्यपि ॥१४॥
समासमाभ्यां विषमसमे पूजत ओदनम् ॥
नाद्यादित्यज्ञगृहिणो दोषो न समदृग्यते: ॥१५॥
स्वरूपेsवासनस्तिष्ठम्यान्वीक्षिक्यानया दिवि ॥
योमुमिच्छेत्तु तस्यायमुपायो विदुष: सुख: ॥१६॥
हूनेद्विकल्पं चित्तौ तां मनस्यर्थभ्रमे तु तत् ॥
वैकारिके तं मायायां तां स्वस्मिन्विरमेत्तत: ॥१७॥
शुद्ध: सोsहं परात्मैक इति दार्ढ्ये विमुच्यते ॥
हृदयं मे सुगुप्तं ते प्रोक्तं तत्त्वं विचारय ॥१८॥
इतीशेनोपदिष्ट: स ज्ञात्वाssत्मानं प्रपूज्य च ॥
तदाज्ञप्तो ययौ राज्यं कुर्वन्नपि स दैवभुक् ॥१९॥
राज्यश्रीपुत्रदाराढ्योsप्यलिप्त: स्वात्मदृक् सदा ॥
भुक्त्वारब्धं चिरं राज्यं दत्वा पुत्रे विरोचने ॥२०॥
मुक्तसड्गश्चचार क्ष्मां समदृक्स गुरूक्तवत् ॥
विरोचनोsपि पितृवत्पित्र्यं राज्यं शशास तत् ॥२१॥
तत्पुत्रो बलिनामाभूद्धृतस्वर्गोsपि येन च ॥
अदित्यां कश्यपाज्जाता देवा इन्द्रादयोsपि तान् ॥२२॥
जित्वा तदधिकारांश्च स स्वयं स्माधितिष्ठति ॥
स्वर्गान्निराकृता देवा: श्रीविष्णुं तुष्टुवुर्हरिम् ॥२३॥
देवप्रार्थनया तुष्टो भगवान्वामनाभिध: ॥
पयोव्रतफलं दातुं पुत्रोsदित्या अजोsप्यभूत् ॥२४॥
पित्रा सुसंस्कृतो देवैर्भूषितो वामनो बलिम् ॥
ययाचे त्रिपदक्ष्मां तं स शुक्रणापि वारित: ॥२५॥
संकल्प्यादाद्विराड्भूत्वा वामनोsपि तदा भुवम् ॥
व्याप्यैकेन पदान्येन गङ्गापित्रा च गां स्तुत: ॥२६॥
तृतीयं बद्धबलिना सिद्धयै तन्मूर्ध्न्यधात्पदम् ॥
निन्ये तं सुतलं मुक्तं प्रहादप्रार्थितो बलिम् ॥२७॥
राज्यं तत्सुतबाणाय देवेभ्योsदाद्दिवं स्वयम् ॥
द्वारपोsभूद्बलेस्तस्मै दास्यत्यैन्द्रं पदं हरि: ॥२८॥
एवंप्रभाव: श्रीदत्तो यदात्मानमनीश्वरा: ॥
ज्ञातुं सुरासुराह्याद्या मनुष्याणां तु का कथा ॥२९॥
कदाचित्पिङ्गलो नागो दृष्ट्वामुं मारहुस्थितम् ॥
कृष्णधात्रीतले वेदं पठन्तं व्रात्यवेषत: ॥३०॥
पप्रच्छ भवत: कोsयमाश्रमो वर्णगर्हित: ॥
वर्णित्वं ते न कौपीनमौञ्जीदण्डादिवर्जित ॥३१॥
न गृहित्वं चाग्निहोत्रद्विसूत्रादिविवर्जित ॥
वनित्वं ते न वागन्तुसाधनादिविवर्जित ॥३२॥
न भिक्षुत्वं शिखाग्राम्यभोगयुक्त दिगम्बर ॥
केनोपदिष्टो मार्गोsयं नग्न स्त्रीमद्यलालस ॥३३॥
प्रभु: प्राह तमुक्तान्य: पञ्चमोsयं ममाश्रम: ॥
योsविकल्पेनात्मरूपं विश्वं पश्येदभेददृक् ॥३४॥
वैराग्ययुक्तो वीतारिस्तस्यायं पञ्चमाश्रम: ॥
त्वया श्रुतो न वै तं हि जानीयुर्ब्राह्मणा: समा: ॥३५॥
इत्थं श्रुत्वा सोsनसूयागर्भरत्नमिदं मह: ॥
इति मत्वातिखिन्नस्तं प्रार्थयामास दीनवाक् ॥३६॥
कुत्सिता रुशती धाष्टर्याद्वागुक्ता मेsनयानघ ॥
भर्त्सितोsसीश मां शाधि दौरात्म्यं मे क्षमस्व भो: ॥३७॥
इति क्षमाप्य विश्वेशं संप्राप्तानुग्रहो विभुम् ॥
अभिवाद्य प्रसन्नात्मा स्वाश्रमं पिड्गलो ययौ ॥३८॥
तथैव साध्यदेवेभ्यो भगवानाह हृद्धिया ॥
धृतिसत्यशमदयिर्हृद् ग्रन्थिं छित्वा शमं नयेत् ॥३९॥
गर्वाक्रोशान्यावमानद्रोहकामादयोsर्थहा: ॥
त्याच्या: क्रूररुन्तुदासद्वाक् च सह्या ततोsव्यथ: ॥४०॥
तद्वत्सन्मुन्यसच्चोरसड्गी रड्गात्पटो यथा ॥
स्वयं सहिष्णुर्नो कुर्यान्निन्दाघातादि दैवभाक् ॥४१॥
वाक्सेव्या वाहृत्या सत्या प्रिया धर्म्या च सद्युजा ॥
चिन्त्योsभावो नान्यरन्ध्रं नेक्ष्यं देयं प्रतिश्रुतम् ॥४२॥
सुहृत्सेव्योsधमो नैव श्रद्धेयं श्रेय आत्मन: ॥
समो निन्दाप्रशंसादौ तथोत्कर्षापकर्षयो: ॥४३॥
प्रहृष्टं शोकराहित्यं दुर्वृत्ताच्च निवर्तनम् ॥
श्रेयोमार्गोsयमादेय इतीश: प्राह तेsभजन् ॥४४॥
एवं सुरर्षिप्रमुखा भगवद्भावमद्वयम् ॥
प्रसादेनैव संप्राप्ता भक्तिगम्यस्य चात्मन: ॥४५॥
परोsसौ पुरुषो भूमा भक्त्या लभ्यो ह्यनन्यया ॥
क्रमेण पुण्यशीलेन सता नान्येन दुष्कृता ॥४६॥
स्मरणेsस्यार्जुनोsलकों वन्दने दास्य आयुरित् ॥
सख्ये रामो विष्णुदत्त: सेवने यदुरर्चने ॥४७॥
कीर्तने वेदधर्मा च श्रवणे दीपको हरे: ॥
एते चान्ये च बहव: सर्वस्वात्मनिवेदने ॥४८॥
यो यो यां यां कृती भक्तिं वृणुते तस्य तस्य स: ॥
तां तां स्थिरीकृत्य दत्ते हृद्यमर्थं त्र्यधीश्वर: ॥४९॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाह्स्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यां द्वितीयाष्टके प्रह्लादाद्युपदेशो नामाष्टमोsध्याय: ॥२।८॥ इति ज्ञानयोग: समाप्त: ॥
॥ इति श्रीदत्तपुराणे द्वितीयाष्टक: ज्ञानकाण्डं च संपूर्णम् ॥
N/A
References : N/A
Last Updated : May 07, 2016
TOP