श्रीनवार्णमंत्रस्तोत्रम्
श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:
ऐंद्यादिशक्तिसहिता याजयन्महिषासुरं ।
र्हींबीजजापिपुष्टां तां महाशक्तिं नमाम्यहं ॥१॥
क्लींबीजरुपिणीं देवीममरारिविनाशिनीं ।
चामुंडां मुंडदमनीं तुळजापुरवासिनीं ॥२॥
मुंडमालालसद्देहां मोहांधतमसापहां ।
डाकिन्यादिकृताभिघ्नीं प्रनमामि महामतिं ॥३॥
यैर्यन्नाम सकृद्गीतं ते सर्वार्थयुजोभवन् ।
विच्च नित्यं विरागश्च यत आशु लभेन्नृणां ॥४॥
चेतनारूपतो याssस्ते सर्वभूतेषु तां भजे ।
प्रसीद देवि सततमपराधान् क्षमस्व मे ॥५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP