यमुनास्तोत्रम्
श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:
वन्दे श्रीयमुनापंचगङ्गासङ्गममुत्तमम् ।
नमामि पंचगंगे त्वां यमुने गोकुलप्रिये ।
श्रीकृष्णामृतफलदे दत्तात्रेयसुहृन्मुदे ॥२॥
शिवा भद्रा भोगावती कुंभी ख्याता सरस्वती ।
यमुना कृष्णा च वेणीयुक् मोक्षादाता नमाम्यहम् ॥३॥
प्रयागराजराज त्वं वैराडानंददायक: ।
श्रीरामदूतहनुमत्सेवितं ते तटं सदा ॥४॥
तस्मात्ते स्नानजं पुण्यं को वेत्ति भगवान् स्वयम् ।
मकरे माकरे मीने मुदे मेघरुचौ परे ॥५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP