संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीसूक्तविधानम्|

श्रीसूक्तविधानम् - श्रीसूक्तानुष्ठानोपयुक्तन्यासप्रकाराः

श्रीसूक्तविधानम्


अथ प्रकृते श्रीसूक्तानुष्ठानोपयुक्ता न्यासप्रकाराः प्रदर्श्यंते । तत्र
१ ऋष्यादिन्यासः प्रथमः,- स च पूर्वमुक्तोऽपि पुनर्लिख्यते, ॐ ऋषिभ्यो नमः शिरसि । ॐ छंदोभ्यो नमः मुखे । ॐ देवताभ्यो नमः हृदि । ॐ बीजेभ्यो नमो गुह्ये । ॐ शक्तिभ्यो नमः पादयोरिति । अत्र वचनं चं० दीपिकायाम् - ‘ ऋषीन् शिरसि वक्त्रे तु छंदांसि हृदि देवताम् । बीजं गुह्ये पदोः शक्तिं न्यस्य कुर्यात् षडंगकम् । ’ इति ।
२ अथ द्वितीयः करन्यासः - ततः करषडंगं च हृदयादिषडंगकम् । न्यसेदाद्यऋचा सम्यङ् मंत्रज्ञेन महात्मना ॥१॥
पंचार्णैश्च त्रिभिर्वर्णैरष्टाभिश्च ततो न्यसेत् । षड्भिर्द्वाभ्यामष्टवर्णैरंगुष्ठादिषु विन्यसेत् ॥२॥
अंगुष्ठतर्जनीमध्यनामिका च कनिष्ठाका । तलयोर्विन्यसेत्तद्वत् हृच्छिरस्तु शिखा तथा ॥३॥
कवचं नेत्रमस्त्रं च हृदयादिषडंगकम् ॥ इति अस्यार्थः - श्रीसूक्तस्य आद्यऋक्स्थवर्णेषु - पंचवर्णैः, त्रिभिः, अष्टाभिः, षड्भिः, द्वाभ्याम्, ततः अष्टवर्णैः, एवं क्रमेण करादिषडंगं, हृदयादिषडंगं च कुर्यादित्यर्थः, स यथा - प्रथमं बीजसहितेन प्रणवेन त्रिः करौ संमृज्य - ॐ हिरण्यवर्णां, अंगुष्ठाभ्यां नमः । ॐ हरिणीं, तर्जनीभ्यां नमः । ॐ सुवर्णरजतस्रजां, मध्यमाभ्यां नमः । ॐ चंद्रां हिरण्यमयीं, अनामिकाभ्यां नमः । ॐ लक्ष्मीं, कनिष्ठिकाभ्यां नमः । ॐ जातवेदो म आवह, करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥
३ अनयैव ऋचा हृदयादिषडंगः - ॐ हिरण्यवर्णां हृदयाय नमः । ॐ हरिणीं शिरसे स्वाहा । ॐ सुवर्णरजतस्रजां शिखायै वषट् । ॐ चंद्रां हिरण्मयीं कवचाय हुम् । ॐ लक्ष्मीं नेत्रत्रयाय वौषट् । ॐ जातवेदो म आवह अस्त्राय फट् इति । अत्र हृदयाद्यंगेषु विहिता मुद्राः पूर्वमेवोक्ता इति ।
४ चौखम्बामुद्रितश्रीसूक्तपुष्पमालायां तु - ॐ नमो भगवत्यै महालक्ष्म्यै हिरण्यवर्णायै अंगुष्ठाभ्यां नमः । ॐ नमो भगवत्यै महालक्ष्म्यै हरिण्यै तर्जनीभ्यां नमः । ॐ नमो भग० सुवर्णरजतस्रजायै मध्यमाभ्यां नमः । ॐ नमो भग० चंद्रायै अनामिकाभ्यां नमः । ॐ नमो भग० हिरण्मय्यै कनिष्ठिकाभ्यां नमः । ॐ नमो भग० लक्ष्म्यै करतलकरपृष्ठाभ्यां नम इति ॥ एवं हृदयादि । यथा - ॐ नमो भग० हिरण्यवराण्यै हृदयाय नमः । ॐ नमो भग० हरिण्यै शिरसे स्वाहा । ॐ नमो० सुवर्णरजतस्रजायै शिखायै वषट् । ॐ नमो भग० चंद्रायै कवचाय हुम् । ॐ नमो भग० हिरण्मय्यै नेत्रत्रयाय वौषट् ॥ ॐ नमो भग० लक्ष्म्यै अस्त्राय फट् । इति ।
अथवा सारसंग्रहोक्तः करन्यासः षडंगश्च -
५ हिरण्मयी च चंद्रा च तृतीया रजतस्रजा । हिरण्याद्या स्रजा चान्या हिरण्या च तथा परा ॥१॥
हिरण्यवर्णा चैताभिः कुर्यादंगानि षट क्रमात् एताभिर्ङेनमोन्ताभिरंगकल्पनमीरितमिति ॥२॥
हिरण्मयीत्यादिपदानां चतुर्थ्यंतेन नमोन्तेन षडंगेषु न्यासः । ङे इति तु चतुर्थीप्रत्ययः, प्रत्ययग्रहणे तदन्तग्रहणमिति व्याकरणपरिभाषया चतुर्थ्यंतानां ग्रहणम् । तदेवं - बीजसहितेन प्रणवेन त्रिः करौ प्रमृज्य ॐ हिरण्मय्यै नमः अंगुष्ठाभ्यां नमः । ॐ चंद्रायै नमः तर्जनीभ्यां नमः । ॐ रजतस्रजायै नमः । ॐ हिरण्यायै नमः कनिष्ठिकाभ्यां नमः । ॐ हिरण्यवर्णायै नमः करतलकरपृष्ठाभ्यां नमः ॥ इति । एवं हृदयादि । यथा - ॐ हिरण्मय्यै नमः हृदयाय नमः । ॐ चंद्रायै नमः शिरसे स्वाहा । ॐ रजतस्रजायै नमः शिखायै वषट् । ॐ हिरण्यस्रजायै नमः कवचाय हुम् । ॐ हिरण्यायै नमः नेत्रत्रयाय वौषट् । ॐ हिरण्यवर्णायै नमः अस्त्राय फट् ॥ पायगुंडेकृतविधाने शारदातिलकटीकायां राघवभट्ट्यामपि एवंविधः षडंगः ।
मंत्रकोशोक्तप्रयोगे तु - ( शांतिरत्ने ) न्यासविधौ प्रथमं हिरण्मय्यै इत्यत्र हिरण्यायै नमः अंगुष्ठाभ्यां । तथा कनिष्ठिकान्यासे हिरण्यायै इत्यत्र हिरण्याक्षायै नमः, इत्येतावान् एव भेदः, हिरण्मयी च चंद्रा च, इत्युपरिनिर्दिष्टवचने तु हिरण्मयी इत्येव तथा अग्रे कनिष्ठिकान्यासे - हिरण्याक्षायै इति नास्ति, ‘ हिरण्याच तथा परा ’ इत्युक्तम् ॥ अत्रोभयविधषडंगे इच्छया विकल्पः, प्रमाणग्रंथाविरोधात् इति ।
६ अथवा केवलेन श्रींबीजेन षडंगं कुर्यादिति वैद्यनाथाः ॥ ॐ श्रीं हृदयाय नमः, ॐ श्रीं शिरसे स्वाहा, ॐ श्रीं शिखायै वषट्, ॐ श्रीं कवचाय हुम्, ॐ श्रीं नेत्रत्रयाय वौषट्, ॐ श्रीं अस्त्राय फट् । इति षडंगः ॥ अत्र बहुप्रकारकेषु करादिन्यासविधिषुइच्छया विकल्पः ।
अथ पंचदशांगः - ‘ ततः पंचदशस्थाने श्रीसूक्तस्य ऋचो न्यसेत् । शिरसि नेत्रयोः श्रोत्रे नासायां च मुखे न्यसेत् ॥ कंठे बाह्वोश्च हृदये नाभौ लिंगे गुदे तथा । ऊर्वोर्जान्वोर्जंघयोश्च पादयोर्विन्यसेत्सुधीः ॥ एवं न्यासविधिं कृत्वा ध्यायेद्देवीं मनोहराम् ॥ ’ इति ॥ सारसंग्रहेऽष्येवमेव । अत्र नेत्रादीनां द्विवचनान्तेन निर्देशात् नेत्रद्वये कर्णद्वये बाहुद्वये, ऊरुद्वये, जानुद्वये, जंघाद्वये, पादद्वये च एकैव ऋचा न्यस्तव्या । श्रोत्रे इत्येकवचनं छंदोनुरोधात् । तत्र दक्षिणदिक्त्वं दक्षिणहस्तेन च स्पर्शः । सामान्यपरिभाषया दक्षिणांगस्योक्तत्वात् ॥ पुरुषसूक्तन्यासे तु वामादित्वं वचनप्रामाण्यात् । यद्यपि श्रीसूक्तनित्यपाठे षोडश्याः ‘ यः शुचि ’ रित्यस्या ग्रहणं भवति तथापि जपाद्यनुष्ठाने तस्या अविहितत्वात् न्यासार्थमग्रहणम् । परं श्रीसूक्तेन यदा षोडशाङ्गन्यासः क्रियते तदा तस्या ग्रहणं भवति । अत्र सर्वेषामेकवाक्यत्वात् प्रयोगे एव न्यासविधिर्लिख्यते ।
इति श्रीसूक्तविधाने न्यासप्रकरणम् ।

N/A

References : N/A
Last Updated : March 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP