श्रीसूक्तस्य ऋक्पूरश्चरणानुष्ठानप्रयोगः
श्रीसूक्तविधानम्
तत्र सर्वमासा अभीष्टाः, तत्रापि कालविचारप्रकरणोक्ताश्विनादित्रयं, माघादिद्वयं, वैशाखश्रावणौ चेति प्रशस्ताः । शुक्लपक्षः प्रशस्ततरः, उक्तमासशुक्लप्रतिपदि, आश्विनशुक्लप्रतिपदि वा श्रीकामो यजमानः संध्यादिनित्यकर्म निर्वर्त्य पुरश्चरणार्थं विनियोजिते शुभे स्थाने ब्राह्मणानुज्ञयोपविश्य आचम्य पवित्रपाणिः प्राणानायम्य देशकालाद्युच्चार्य श्रीपरमेश्वरप्रीत्यर्थममुकगोत्रोत्पन्नस्यामुकशर्मणो मम सकुटुंबस्य सपरिवारस्याखिलारिष्टडुःखदौर्भाग्यादिअलक्ष्मीपरिहारपूर्वकं श्रीभगवतीजगदंबामहालक्ष्मीप्रसादेनायुरारोग्यसुखसंपत्समृद्धिविधिधैशर्यादिप्राप्तये आगमोक्तेष्टविधिना ऋग्वेदस्थपंचदशर्चात्मकश्रीसूक्तस्य ( नित्यानुष्ठानं कर्तुं तदधिकारार्थं वा ) द्वादशसहस्रसंख्याकं जपरूपं ऋक्पुरश्चरणं करिष्ये । तदंगत्वेन यथामीलितोपचारैः श्रीमहालक्ष्मीपूजनं शरीरशुद्ध्यथ न्यासादिपूर्वकं करिष्ये । आदौ नि० गणपतिपूजणं पंचवाक्यैः पुण्याहवाचनं ( आचार्यपक्षे आचार्यवरणं च ) करिष्ये । इति संकल्प्य वरणोत्तरं पूर्वोक्तदिशा ‘ ॐ श्रीं ’ इति बीजयुतेन प्रणवेन त्रिः करौ संमृज्य करादिषडंगं पंचदशांगन्यासं च विधाय संभारप्रोक्षणान्ते देव्याः मूर्तिं मनसि कृत्वा ध्यायेत् - अरुणकमलसंस्थातद्रजःपुंजवर्णा करकमलधृतेष्टाभीतियुग्मांबुजा च । मणिमुकुटविचित्रालंकृताकल्पजालैर्भवतु भुवनमाता संततं श्रीः श्रियै नः ॥ इति । नमो देव्यै महादेव्यै० सर्वमंगलमांगल्ये० इति ध्यात्वा हिरण्यवर्णमित्याद्यऋचा देवीं यंत्रे मूर्तौ वावाह्य, शक्यं चेत् - आवाहनीं, स्थापिनीं, संनिधिकारिणीं, प्रदर्श्य स्वागतं कुर्यात् । ततः श्रीसूक्तस्य, पंचदशऋग्भिः, नाममंत्रेण, पौराणमंत्रेण, समुच्चित्य पृथग् वा पाठेन यथाधिकारमानसाद्युपचारान्समर्पयेत् । श्रीसूक्तस्य ऋग्भिः पूजनं पूर्वप्रयोगे प्रदर्शितमेव । ॐ हिरण्यवर्णां० म आवह इति ऋगंते ॐ श्रीमहालक्ष्म्यै नमः आवाहनार्थेऽक्षतान् ( पुष्पं वा ) समर्पयामि । एवं रीत्योपचारान् समर्पयेत् । अभिषेकसमये श्रीसूक्तं, देवीसूक्तं, देव्यथर्वशीर्षं वा पठेत् । ततस्तदस्तु० इत्यनेन अंगप्रोच्छनं कृत्वा ( अंग पुसणें ) शुभे पीठासने प्रतिष्ठाप्य हरिद्राकुंकुमाद्यलंकारान् परिमलद्रव्यानि च समर्प्य पुष्पांतां पूजां विधायावरणपूजां कुर्यात् ।
सा यथा - चतुर्द्वारसहितचतुरस्रत्रयान्वितं षट्कोणगर्भमष्टदलं विरच्य तत्र देवता आवाहयेत् । यंत्रे - पूज्यपूजकयोः प्राचीमनुरुध्य तदाग्नेयक्रमेण कुर्यात् । पूर्वं कर्णिकायां ॐ श्रीमहालक्ष्म्यै नमः । तत्रैव तस्या ईशानदिशि ॐ चंद्रायै नमः शिरसे स्वाहा । तथैव नैरृत्यकोणे ॐ रजतस्रजायै नमः शिखायै वषट् । ततः वायव्यकोणे ॐ हिरण्यस्रजायै नमः कवचाय हुम् । देव्या अग्रतः ॐ हिरण्यायै नमः नेत्रत्रयाय वौषट् । पुरतः आरभ्य चतुर्दिक्षु ॐ हिरण्यवर्णायै नमः अस्त्राय फट् इति मंत्रमावर्तयेत् । ततः पुष्पांजलिमादायाभीष्टसिद्धिं मे देहि० इति यंत्रे दद्यात् । इति प्रथमावरणार्चनम् ॥ देव्याः पुअरत आरभ्य प्रादक्षिण्येन - अष्टदलेषु ॐ पद्मायै नमः । ॐ पद्मवर्णायै नमः । ॐ पद्मस्थायै नमः । ॐ आर्द्रायै नमः । ॐ तर्पयन्त्यै नमः । ॐ तृप्तायै नमः । ॐ ज्वलन्त्यै नमः । ॐ स्वर्णप्राकारायै नमः । अभीष्टसिद्धिं० द्वितीयावरणार्चनम् ॥ ततश्चतुरस्रे प्रसिद्धपूर्वादिदिक्षु प्रादक्षिण्येन इंद्रादीन् पूजयेत् । प्रसिद्धपोरोवदिशि ॐ इंद्राय० । ॐ अग्नये नमः । ॐ यमायु० । ॐ नैरृतये० । ॐ वरुणाय० । ॐ वायवे० । ॐ सोमाय० । ॐ ईशानाय० । क्कचित् पश्चिमनिरृतिमध्ये ॐ अनंताय० । पूर्वेशानमध्ये ॐ ब्रह्मणे० । इति अभीष्टसिद्धिं० तृतीयावरणार्चनम् ॥ चतुरस्राद्बहिर्भागे इंद्रादिसमीपे तदायुधानि पूजयेत् । पूर्वस्यां - ॐ वज्राय० । ॐ शक्तये० । ॐ दण्डाय० । ॐ खङ्गाय० । ॐ पाशाय० । ॐ वज्राय० । ॐ शक्तये० । ॐ दन्डाय० । ॐ खङ्गाय० । ॐ पाशाय० । ॐ अंकुशाय० । ॐ गदायै० । ॐ त्रिशूलाय० । क्कचित् ॐ चक्राय० । ॐ पद्माय० । इति पूर्ववत् ‘ अभीष्टसिद्धिं० इत्यनेन पुष्पांजलि दद्यात् ’ । चतुर्थावरणार्चनम् ॥ इति संपूज्य - धूपादिमंत्रपुष्पांतां पूजां कृत्वा मंगलार्तिक्यादि विधाय क्षमस्वेति नत्वा ॐ पद्मानने पद्मऊरू पद्माक्षि पद्मसंभवे । तन्मे भजसि कल्याणि येन सौख्यं लभाम्यहम् ॥ सरसिजनिलये सरोजहस्ते० आवाहनं न जानामि० अन्यथा शरणं० मंत्रहीनं० इत्यादिमंत्रैः संप्रार्थ्य अनेन यथाज्ञानेन यथामीलितोपचारैः कृतपूजनेन श्रीभगवतीमहालक्ष्मीः प्रीयताम् ॥
इति पूजोत्तरं ब्राह्मणैरनुज्ञातः एकाग्रचित्तेन स्वस्थमनासा देवीं मनसि कृत्वा श्रीसूक्तजपं कुर्यात् - स च यथा - आचम्येत्यादि श्रीपरमेश्वरप्रीत्यर्थं श्रीमहालक्ष्मीदेवताप्रीत्यर्थं संकल्पितश्रीसूक्तस्य द्वादशसहस्रऋगात्मकपुरश्चरणकर्मणि अद्य त्रिसप्तत्यावृत्त्या श्रीसूक्तजपं करिष्ये । तत्रादौ नि० सि० महागणपतिस्मरणं ऋष्यादिन्यासांश्च करिष्ये । इति संकल्प्य ॐ ऋषिभ्यो नमः शिरसि । ॐ छंदोभ्यो नमः मुखे । ॐ देवतायै नमः हृदि । ॐ बीजेभ्यो नमः गुह्ये । ॐ शक्तिभ्यो नमः पादयोः । इति ऋष्यादिन्यासं विधाय ततः पूर्वोक्तं षडंगन्यासं कृत्वा देवीं गंधपुष्पाक्षतैरभ्यर्च्य अरुणकमले० इति ध्यात्वा छंदर्ष्यादीन् स्मृत्वा जपारंभं कुर्यात् । हिरण्यवर्णामित्यतः यस्यां हिरण्यं प्रभूतमित्यं ता पंचदशऋगंतैकावृत्तिः । एवं त्रिसप्तत्यावृत्तीः कृत्वा उत्तरन्यासं हृदयादिषडंगं कृत्वा गुह्याति० इति मंत्रेण देव्या वामहस्ते जपं निवेद्योदकं दत्वा यदक्षरपदभ्रष्टं० इति मंत्रेण देव्या वामहस्ते जपं निवेद्योदकं दत्वा यदक्षरपदभ्रष्टं० मंत्रहीनं० सरसिजनिलये० इत्यादिमंत्रैः संप्रार्थ्य देव्यै गंधपुष्पं समर्प्य प्रणम्य अनेन जपाख्येन कर्मणा श्रीभगवतीमहालक्ष्मीः प्रीयताम् ॥ कृतं कर्म ब्रह्मार्पणं कृत्वा विष्णुं स्मृत्वा आसनस्थानं नत्वा उत्तिष्ठेत् । पूर्वोक्तयमनियमैर्दिवसं नयेत् । इति प्रथमदिनविधिः ॥
द्वितीयादिदिने - नित्यकमात्तरं जपस्थान उपविश्य आचम्येत्यादि श्रीपरमेश्वरप्रीत्यर्थं पूर्वसंकल्पितश्रीसूक्तपुरश्चरणसंख्यापरिपूरणार्थंश्रीमहालक्ष्मीप्रसादसिद्ध्यर्थं श्रीसूक्तस्य त्रिसप्तत्यावृत्तिजपमहं करिष्ये । तत्रादौ० गणपतिस्मरणं शरीरशुद्ध्यर्थ न्यासादि करिष्ये - इति संकल्प्य गणेशं स्मृत्व पूर्वोक्तऋष्यादिन्यासषडंगपंचदशांगन्यासान् कृत्वा पूर्वं लक्ष्मीपूजनं न कृतं चेत् संक्षेपतः पूजां कृत्वा जपेत् । उक्तावृत्तिजपानंतरं उत्तरन्यासं षडंगं कृत्वा देव्यै जपनिवेदनादिपूर्ववत् सकलं कर्म कृत्वा द्विराचम्य विष्णुं स्मृत्वा देवीं नत्वोत्तिष्ठेत् ॥ इति । एवं ‘ द्शम्यंतं जपेत्सूक्तमावृत्त्या तु त्रिसप्तत्या ॥ ’ इति वचसा दशम्यंतं प्रत्यहं त्रिसप्ततिवारमुक्तविधिना जप्त्वा, ‘ एकादश्यां तु सप्तत्यासूक्तावृत्तिं चरेद्बुधः ॥ ’ इति वचनेन एकादशीदिने सप्तविवारपाठेन प्रतिपद्दिनादारभ्य द्वादशसहस्रसंख्याकं ऋक्पुरश्चरणं भवतीति पुरश्चरणविचारे पूर्वं प्रदर्शितमेव । द्वादश्यां पूर्वोक्तविधिना होमतर्पणमार्जनब्राह्मणसुवासिनीकुमारिकाभोजनं विधाय विप्रेभ्यः दक्षिणां दत्वाशीर्वचनं गृहीत्वा कर्मसमाप्तिं वाचयीत । इति शिवार्चनचंद्रिकोक्तः द्वादशसहस्रसंख्यात्मकऋक्पुरश्चरणजपविधिप्रकारः ॥
अथ ऋक्पुरश्चरणप्रकारो द्वितीयो निरूप्यते -
अत्र पूर्ववत् संकल्पन्यासपूजनादि सर्वं तंत्रं समानम् । विशेषस्तु - पोरोवोक्तयंत्रसारोक्तवचनैः प्रतिपद्दिनमारभ्याष्टमीपर्यंतं प्रत्यहं संकल्पसमये ७५ पंचसप्ततिवारं सूक्तावृत्तिं करिष्ये । इत्यूहः कार्यः । नवमीदशमीदिनयोः ६७ सप्तषष्टिसंख्योहः कार्यः । इति विशेषः । पूर्वोत्तरांगकलापः समानः । होमतर्पणमार्जनादिविधिः पूर्वोक्तवदेवेति विस्तरभिया न लिख्यते । होमे द्रव्याणि - त्रिमधुरोपेतानि पद्मानि, घृताक्तं पायसं बिल्वसमिधः सर्पिश्चेति चत्वारि द्रव्याणि । प्रत्येकं त्रित्रिशतं हुनेत् । प्रत्यृचं होमः स्थंडिले कुंडे वा होमः ॥ इति यन्त्रसारोक्तऋक्पुरश्चरणानुष्ठानप्रयोगः ॥
N/A
References : N/A
Last Updated : March 30, 2017
TOP