मालतीमाधवम् - चतुर्थोऽङ्कः ।

एतद् भवभूतिना लिखितं कल्पनारम्यनाटकं वर्तते।


( ततः प्रविशतो मदयन्तिकामालतीभ्यामवलम्ब्यमानौ मुग्धौ मकरन्दमाधवौ संभ्रान्ता कामन्दकी बुद्धरक्षिता लवङ्गिका च । )
मदयन्तिका - पसीद भअवदी, परित्ताहि मदअन्तिआणिमित्तं संसइदजीविदं विवण्णाणुकम्पिणं महाभाअं ।
इतरा :- हद्धि । किं दाणिं एत्थ पेक्खिदव्वं अम्हेहिं ।
कामन्दकी - ( उभौ कमण्डलूदकेन सिक्त्वा । ) ननु बह्वत्यः पटाञ्जलैर्वीजयध्वम् ।
( मालत्यादयस्तथा कुर्वन्ति । )
मकरन्द :- ( समाश्वस्यावलोक्य च । ) वयस्य, अतिकातरोऽसि । किमेतत् । ननु स्वस्थ एवास्मि ।
मदयन्तिका - अम्हहे, दाणिं पडिबुद्धं मअरन्दपुण्णचन्देण ।
मालती - ( माधवस्य ललाटे हस्तं दत्त्वा । महाभाअ, दिट्ठिआ वड्ढसि । णं भणामि पडिवण्णचेदणो महाभाजो ति ।
माधव :- ( समाश्वस्य । ) वयस्य, साहसिक एह्येहि । ( इत्यालिङ्गति । )
कामन्दकी - ( उभौ शिरस्याघ्राय । ) दिष्ट्या जीवद्वत्सास्मि ।
इतरा :- पिअं णो संउत्तं ।
( सर्वा हर्षं नाटयन्ति । )
बुद्धरक्षिता - ( जनान्तिकम् । ) सहि मदअन्तिए, एसो जेव्व सो ।
मदयन्तिका - सहि जाणीदं जेव्व मए जह एसो माहवो अअं वि सो जणो त्ति ।
बुद्धरक्षिता - अवि सचिवादिणी अहं ।
मदयन्तिका - ण क्खु अम्हारिसेसु तुम्हारिसीओ पक्खवादिणीओ होन्ति । ( माधवमवलोक्य । ) सहि, मालदीए वि रमणिज्जो इमस्सिं महाणुहावे अणुराअप्पवादो । ( इति मकरन्दमेव सस्पृहमवलोकयति । )
कामन्दकी - ( स्वगतम् । ) रमणीयोर्जितं हि मदयन्तिकामकरन्दयोर्दैवादद्य दर्शनम् । ( प्रकाशम् । ) वत्स मकरन्द, कथं पुनरायुष्मानस्मिन्नवसरे मदयन्तिकाजीवितपरित्राणहेतोर्भवता दैवेन संनिधापितः ।
मकरन्द :- अद्याहमन्तर्नगरमेव कांचिद्वार्तामुपश्रुत्य माधवचित्तोद्वेगमधिकमाशङ्कमानस्त्वरितमवलोकितानिवेदितकुसुमाकरोद्यानवृत्तवृत्तान्तः परापतन्नेव शार्दूलावस्कन्दगोचरामिमामभिजातकन्यकामभ्युपपन्नवानस्मि ।
( मालतीमाधवौ विमृशतः । )
कामन्दके - ( स्वगतम् । ) वृत्तान्तेन खलु मालतीप्रदानेन भवितव्यम् । ( प्रकाशम् । ) वत्स माधव, दिष्ट्या वर्धितोऽसि मालत्या । सोऽयमवसरः प्रीतिदानस्य ।
माधव :- भगवति, इयं मालती
यव्द्यालव्रणितसुहृत्प्रमोहमुग्धं
कारुण्याद्विहितवती गतव्यथं माम् ।
तत्कामं प्रभवति पूर्णपात्रवृत्त्या
स्वीकर्तुं मम हृदयं च जीवितं च ॥१॥
लवङ्गिका - पडिच्छिदो क्खु णो पिअसहीए अअं पसादो ।
मदयन्तिका - ( स्वगतम् । ) जाणादि महाणुहावो अअं जणो रमणिज्जं मन्तेदुं ।
मालती - ( स्वगतम् । ) किं णाम मअरन्देण उव्वेअकालणं सुदं हविस्सदि ।
( प्रविश्य । )
पुरुष :- वत्से मदयन्तिके, भ्राता ते ज्यायानमात्यनन्दनः समादिशति । अद्य परमेश्वरेणास्मद्भवनमागत्य भूरिवसोरुपरि परं विश्वासमस्मासु च प्रसादमाविष्कुर्वता स्वयमेव मालती प्रतिपादिता तदेहि संभावयावः प्रसादमिति ।
मकरन्द :- वयस्य, इयं सा वार्ता ।
( मालतीमाधवौ वैवर्ण्य नाटयतः । )
मदयन्तिका - ( सहर्षं मालतीमाश्लिष्य । ) सहि मालदि, तुमं क्खु अक्कणअरणिवासेण पंसुकीलणादो पहुदि पिअसही भइणी अ संपदं उण अम्हाणं घरस्स मण्डणं जादासि ।
कामन्दकी - वत्से मदयन्तिके, वर्धसे भ्रातुर्मालतीलाभेन ।
मदयन्तिका - तुम्हाणं आसिसाणं पसादेण । सहि लवङ्गिए, भरिआ णो मणोरहा तुम्हाणं लाहेण ।
लवङ्गिका - सहि, अम्हाणं वि एदं मन्तिदव्वम् ।
मदयन्तिका - सहि बुद्धरस्खिदे, एहि दाव । महोसवं संभावेम्ह । ( इत्युत्तिष्ठतः । )
लवङ्गिका - ( जनान्तिकम् । ) भअवदि, जह हिअअभरिउव्वमन्तविम्हआणन्दसुन्दरघोलाविदधीरपेरन्तमणोहरा पल्लत्थन्ति मदअन्तिआमअरन्दाणं दलिदनीलुप्पलमंसलच्छविआ दिट्ठिसंभेआ, तह मण्णे मणोरहणिव्वुत्तसमाअमा एदे त्ति ।
कामन्दकी - ( विहस्य । ) नन्विमौ परस्परं मानसं मोहनमनुभवतः । तथा हि,
ईषत्तिर्यग्वलनविषमं कूणितप्रान्तमेत -
त्प्रेमोद्भेदस्तिमितललितं किंचिदाकुञ्चितभ्रु ।
अन्तर्मोदानुभवमसृणं स्रस्तनिष्कम्पपक्ष्म
व्यक्तं शंसत्यचिरमनयोर्दृष्टमाकेकराक्षम् ॥२॥
पुरुष :- वत्से मदयन्तिके, इत इतः ।
मदयन्तिका - ( अपवार्य । ) सहि बुद्धरक्खिदे, अवि पुणो दीसइ एसो जीविदप्पदाई पुण्डरीअलोअणो ।
बुद्धरक्षिता - जइ देव्वं अणुऊलइस्सदि । ( इति निष्क्रान्ता । )
माधव : ( अपवार्य । )
चिरादाशातन्तुस्त्रुटतु बिसिनीसूत्रभिदुरो
महानाधिर्व्याधिर्निरवधिरिदानीं प्रसरतु ।
प्रतिष्ठामव्याजं व्रजतु मयि पारिप्लवधुरा
विधिः स्थैर्यं धत्तां भवतु कृतकृत्यश्च मदनः ॥३॥
अथवा
समानप्रेमाणं जनमसुलभं प्रार्थितवतो
विधौ वामारम्भे मम समुचितैषा परिणतिः ।
तथाप्यस्मिन्दानश्रवणसमयेऽ‍स्याः प्रविगल -
त्प्रभं प्रातश्चन्द्रद्युति वदनमन्तर्दहति माम् ॥४॥
कामन्दकी - ( स्वगतम् । ) एवं दुर्मनायमानः पीडयति मां वत्सो माधवो वत्सा मालती च दुष्करं निराशा प्राणितीति । ( प्रकाशम् । ) वत्स माधव, पृच्छामि तावदायुष्मन्, त्वाम् । अथ किं भवानमंस्त यथा भूरिवसुरेव मालतीमस्मभ्यं दास्यतीति ।
माधव :- ( सलज्जम् । ) नहि नहि ।
कामन्दकी - न तर्हि प्रागवस्था भूरिवसुः परिहीयते ।
मकरन्द :- दत्तपूर्वेत्याशङ्क्यते ।
कामन्दकी - जानामि तां वार्ताम् । इदं तावत्प्रसिद्धमेव यथा नन्दनाय मालतीं प्रार्थयमानं भूरिवसुर्नृपतिमुक्तवान् ‘ प्रभवति निजकन्यकाजनस्य महाराजः ’ इति ।
मकरन्द :- अस्त्येतत् ।
कामन्दकी - अद्य च राज्ञा स्वयमेव मालती दत्तेति संप्रत्येव पुरुषेणावेदितम् । तद्वत्स, वाक्प्रतिष्ठानि देहिनां व्यवहारतन्त्राणि वाचि पुण्यापुण्यहेतवो व्यवस्थाः सर्वथा जनानामायतन्ते । सा च भूरिवसोर्वागनृतात्मिकैव । न खलु महाराजस्य निजकन्यका मालती । कन्यकाप्रदाने च नृपतयः प्रमाणमिति नैवंविधो धर्माचारसमयः । तस्मादवस्थितमेवैतत् । कथं च मामनवधानां मन्यसे । पश्य ।
मा वां सपत्नेष्वपि नाम तद्भू -
त्पापं यदस्यां त्वयि वा विशङ्क्यम् ।
तत्सर्वथा संगमनाय यत्नः
प्राणव्ययेनापि मया विघेयः ॥५॥
मकरन्द :- सर्वं सुष्ठु युज्यमानमादिश्यते युष्माभिः । अपि च ।
दया वा स्नेहो वा भगवति निजेऽस्मिञ्शिशुजने
भवत्याः संसाराद्विरतमपि चित्तं द्रवयति ।
ततश्च प्रव्रज्यासमयसुलभाचारविमुखः
प्रसक्तस्ते यत्नः प्रभवति पुनर्दैवमपरम् ॥६॥
( नेपथ्ये । )
भअवइ कामन्दइ, एसा भट्टिणी विण्णावेदि जहा मालदिं घेत्तूण तुरिदं आअच्छेत्ति ।
कामन्दकी - वत्से, उत्तिष्ठोत्तिष्ठ ।
( सर्वा उत्थाय परिक्रामन्ति । )
( मालतीमाधवौ सकरुणानुरागमन्योन्यमवलोकयतः । )
माधव :- कष्टम्, एतावती हि माधवस्य मालत्या समं लोकयात्रा । अहो नु खलु भोः,
सुहॄदिव प्रक्टय्य सुखप्रदां
प्रथममेकरसामनुकूलताम् ।
पुनरकाण्डविवर्तनदारुणः
प्रविशिनष्टि विधिर्मनसो रुजम् ॥७॥
मालती - ( अपवार्य । ) महाणुहाअ लोअणाणन्दअर, एत्तिअं दिट्ठोसि ।
लवङ्गिका - हद्धि । सरीरसंसअं जेव्व णो पिअसही आरोविदा अमच्चेण ।
मालती - परिणदं दाणिं जीविदतिण्हाए फलम् । णिव्वूढं अ णिक्करुणदाए तादस्स कावालिअत्तणं । परिणिट्ठिदो देव्वहदअस्स दालुणसमारम्भपरिणामो । ता कं वा उवालभामि मन्दभाइणी । कं वा असरणा सरणं पडिवज्जामि ।
लवङ्गिका - सहि, इदो इदो । ( परिक्रामति । )
माधव :- ( स्वगतम् । ) नूनमाश्वासनमात्रमेतन्माधवस्य सहजस्नेहमात्रकातरा भगवती करोति । ( सोद्वेगम् । ) हन्त, सर्वथा संशयितजन्मसाफल्यः संवृत्तोऽस्मि । तत्किं कर्तव्यम् । ( विचिन्त्य । ) न खलु महामांसविक्रयादन्यमुपायं पश्यामि । ( प्रकाशम् । ) वयस्य मकरन्द, अपि भवानुत्कण्ठते मदयन्तिकायाम् ।
मकरन्द :- अथ किम् ।
तन्मे मनः क्षिपति यत्सरसप्रहार -
मालोक्य मामगणितस्खलदुत्तरीया ।
त्यस्तैकहायनकुरङ्गविलोलदृष्टि -
राश्लिष्टवत्यमृतसंवलितैरिवाङ्गैः ॥८॥
माधव :- न दुर्लभा बुद्धरक्षितायाः प्रियसखी । अपि च ।
प्रमथ्य क्रव्यादं मरणसमये रक्षितवतः
परिष्वङ्गं लब्ध्वा तव कथमिवान्यत्र रमताम् ।
तथा च व्यापारः कमलनयनाया नयनयो -
स्त्वयि व्यक्तस्नेहः स्तिमितरमणीयश्चिरमभूत् ॥९॥
तदुत्तिष्ठ । वरदासिन्धुसंभेदमवगाह्य नगरीमेव प्रविशावः ।
( उत्थाय परिक्रामतः । )
मकरन्द :- अयमसौ महानद्योर्व्यतिकरः । य एषः
जलनिबिडितवस्त्रव्यक्तनिम्नोन्नताभिः
परिगततटभूमिः स्नानमात्रोत्थिताभिः ।
रुचिरकनककुम्भश्रीमदाभोगतु॒ङ्ग -
स्तनविनिहितहस्तस्वस्तिकाभिर्वधूमिः ॥१०॥
( इति निष्क्रान्ताः सर्वे । )
इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे चतुर्थोऽङ्कः ।

N/A

References : N/A
Last Updated : June 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP